________________
सम्यक्श्रुतम् ]
श्रीदेववाचकविरचितं नन्दिसूत्रम् । अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च।
भामण्डलं दुन्दुभिरातपत्रं, सत्पातिहार्याणि जिनेश्वराणाम् ॥१॥ [ तरहद्भिः, तत्र शुद्धद्रव्यास्तिकनयमतानुसारिभिः अनादिशुद्धा एव मुक्तात्मानोऽभ्युपगम्यन्ते । यथोक्तम्ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥१॥
] इत्यादि । । बहवश्व कैश्चिदिष्यन्ते, तेऽपि च स्थापनादिद्वारेण पूजार्हत्वादहन्तो भवन्त्येव। अतो 'भगवद्भिः' भगः-खलु समग्रैश्वर्यादिलक्षणः, यथोक्तम् -
ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य पण्णां भग इतीङ्गना ॥१॥
भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, न चानादिशुद्धानां समग्रं रूपमुपपद्यते, अशरीरित्वात्, शरीरस्य 10 च रागादिकार्यत्वात्, तेषां च तदभावादिति । स्वेच्छानिर्माणतः समग्रशरीरसम्भवात् तुल्यतामेवाशङ्कयाऽऽहउत्पन्नज्ञान-दर्शनधरैः, न च तेऽनादिशुद्धाः उत्पन्नज्ञान-दर्शनधराः, "ज्ञानमप्रतिघं यस्ये "त्यादिवचनविरोधात् , एवं शुद्धद्रव्यास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थोऽयं ग्रन्थः। अधुना पर्यायास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थमाह- त्रैलोक्यनिरीक्षित-महित-पूजितैः' निरीक्षिताश्च महिताश्च पूजिताश्चेति समासः, त्रैलोक्येन निरीक्षित-महित-पूजिता इति विग्रहः। विशेषणसाफल्यं पुनरित्थमवसेयम् त्रैलोक्यग्रहणाद् भवन- 15 व्यन्तर-नर-विद्याधर-ज्योतिष्क-वैमानिकपरिग्रहः, निरीक्षिताः-भक्तिननैमनोरथदृष्टिभिदृष्टाः, महिता यथावस्थितान्यासाधारणगुणोत्कीर्तनलक्षणेन भावस्तवेन, पूजिताः सुगन्धिपुष्पप्रकरप्रक्षेपादिना द्रव्यस्तवेनेति । तत्र सुगतादयोऽपि पर्यायास्तिकनयमतानुसारिभिस्त्रैलोक्यनिरीक्षित-महित-पूजिता इष्यन्त एव । आह च स्तुतिकारःदेवागम-नभोयान-चामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥१॥
] इत्यादि । 20 अत आह-'अतीत-प्रत्युत्पन्ना-ऽनागतज्ञैः' न चैकान्तक्षणिकवादिनां यथोक्तविशेषणसम्भवः, अतीता-ऽनागताभावात् । तथा चागमः
ण णिहाणगया भग्गा, पुंजो णत्थि अणागते । णिव्वुया णेव चिट्ठति आरग्गे सरिसोवमा ॥१॥ असतां च ग्रहणायोगाद् इत्याद्यत्र बहु वक्तव्यम् न च तदुच्यते, गमनिकामात्रत्वादस्य प्रारम्भस्य । व्यवहारनयमतानुसारिभिस्तु कैश्चिदतीता-ऽनागतार्थग्राहिण इष्यन्त एव ऋषयः । यथाऽऽहुरेके* ऋषयः संयतात्मानः फल-मूला-ऽनिलाशनाः । तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥१॥ अतीता-ऽनागतान् भावान् वर्तमानांश्च भारत ! । ज्ञानालोकेन पश्यन्ति त्यक्तसङ्गा जितेन्द्रियाः ॥२॥
__] इत्यादि। अत आह-सर्वज्ञैः सर्वदर्शिभिः, ते तु सर्वज्ञा न भवन्तीत्यभिप्रायः। एवं प्रधानोभयनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदेनेदं नीयते, अन्यथा वाऽविरोधेन नेतव्यमिति । प्रणीतम्-अर्थकथनद्वारेण प्ररूपितम् । किं 30
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org