________________
श्रीहरिभद्रसूरि सूत्रितया वृत्त्या समलङ्कृतं
[ सू. ७०-७१
७०. से किं तं दिट्ठिवाओवएसेणं ? दिट्ठिवाओवएसेणं सष्णिसुयस्स खओवसमेणं सण्णी लब्भति, असण्णिसुयस्स खओवसमेणं असण्णी लब्भति । से तं दिट्टिवाओवएसे३। तं सणितं ३ | से तं असण्णिसुतं ४ |
६.२
७०. से किं तमित्यादि । अथ कोऽयं दृष्टिवादोपशेन ?, दृष्टिः दर्शनं, वदनं वादः, दृष्टीनां वादः दृष्टिवादः 5 तदुपदेशेन तन्मतापेक्षया संज्ञिश्रुतस्य क्षयोपशमेन संज्ञीति लभ्यते, अयमत्र भावार्थ:- संज्ञानं संज्ञा, तद्योगात् संज्ञी, तस्य श्रुतं संज्ञिश्रुतम्, इदं सम्यक्छ्रुतमेव, अन्यथा संज्ञानाभावात्, न हि मिथ्यादृष्टेः संज्ञानमस्ति, हिताऽहितप्रवृत्ति निवृत्यभावाद् रागादिमवृत्तेः । उक्तं च1
तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ? ॥ १ ॥
10 सम्यग्दृष्टिस्तु तनिग्रहपरत्वाद् वीतरागसम एव । उक्तं च
कलुसफलेण ण जुज्जइ किं चित्तं तत्थ ? जं विगतराओ । संते वि जो कसाए णिगिण्हती सो वि तत्तुल्लो ॥१॥ [विशेषा. गा. ३२६५ ] तीत्यादि ।
अलं प्रसङ्गेन । तदित्थम्भूतस्य संशिश्रुतस्य क्षयोपशमेन सता संज्ञीति लभ्यते, अयं च सम्यग्दृष्टिरेव क्षायोपशमिकज्ञानयुक्तो रागादिनिग्रहपरः । तदन्यस्त्वसंज्ञी, यत आह ग्रन्थकारः - असंज्ञिश्रुतस्य क्षयोपशमेनासंज्ञीति 15 लभ्यते, " से त" मित्यादि, सोऽयं दृष्टिवादोपदेशेन ३ । एवं संज्ञिनस्त्रिभेदभिन्नत्वात् श्रुतमपि तदुपाधिभेदात् त्रिविधमेवेति ।
}
अत्राह -कालिक्युपदेशेनेत्यादि क्रमः किमर्थम् ?, उच्यते, इह प्रायः सूत्रे यत्र कचित् संज्ञिग्रहणं तत्र दीर्घकालिक्युपदेशेन समनस्क संज्ञिपरिग्रह इति प्रथमं तदुपन्यासः, अप्रधानत्वाच्चेतरयोः, अन्ते च प्रधानाभिधानमिति न्याय्यम् । “से त" मित्यादि, तदेतत् संज्ञिश्रुतम् ३ । असंज्ञिश्रुतं तु प्रतिपक्षाभिधानादेव प्रतिपादितम् । 20 तदेतदसंज्ञिश्रुतम् ४ ॥
७१. [१] से किं तं सम्मसुतं ? सम्मसुतं जं इमं अरहंतेहिं भगवंतेर्हि उप्पण्णणाणदंसणधरेहि तेलोकणिरिक्खिय महिय-पूइएहि तीय-पप्पण्ण-मणागयजाणएहि सव्वष्णूहि सव्वदरिसीहिं पणीयं दुवालसँगं गणिपिडगं, तं जहा - आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपण्णत्ती ५ णायाधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसाओ ८ अणुत्तरो25 ववाइयदसाओ ९ पहावागरणाई ९० विवागसुतं ११ दिवाओ १२ ।
Jain Education International
[२] इचेयं दुवालसँगं गणिपिडगं चोइसपुव्विस्त सम्मसुतं अभिण्णदसपुव्विस्स सम्मसुतं, तेण परं भिण्णेसु भयणा । से त्तं सम्मसुतं ५ |
७१. से किं तमित्यादि । अथ किं तत् सम्यक् श्रुतम् ?, सम्यक् श्रुतं यदिदं प्रणीतमिति सम्बन्धः । तत्राशोकाद्यष्टमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तः, तथा चोक्तम्
For Private
Personal Use Only
www.jainelibrary.org