________________
अक्षरश्रुतादीनां हेतूपदेशिक्यादिसंज्ञानां च स्वरूपम् ] श्रीदेववाचकविरचितं नन्दिसूत्रम् ।
६१
46
लोचनचेष्टेत्यर्थः; तथा 'अपोहः' व्यतिरेकधर्मपरित्यागेनान्वयधर्माध्यासेनावधारणात्मकः प्रत्यय इति भावना, यथा `शब्द इति; तथा ‘मार्गणा' विशेषधर्मान्वेषणारूपा संविदित्यर्थः, यथा - शब्दः सन् किं शाङ्खः किं वा शार्ङ्गः ? इति; ' तथा 'गवेषणा' व्यतिरेकधर्मस्वरूपालोचना, यथा खरादय एवम्भूता इति; तथा 'चिन्ता' अन्वयधर्मपरिज्ञानाभिमुखा चेष्टा, यथा मधुरत्वादयस्त्वेवम्भूता इति; तथा 'विमर्षः' त्याज्यधर्मपरित्यागेनोपादेयधर्मग्रहणाभिमुख्यम्, यथा न शार्ङ्गः, प्रायोऽयं मधुरत्वादियोगाच्छाङ्ख इति; “ से णं सन्नीति लब्भति" त्ति 'सः' प्राणी 5 “ण” मिति वाक्यालङ्कारे 'संज्ञीति लभ्यते ' मनःपर्याप्त्या पर्याप्तः, अवग्रहादिमतिज्ञानसम्पत्समन्वित इत्यर्थः । अथवा यस्यास्ति ' हा ' किमेतदिति चेष्टा, इदमित्यवगमोऽपोहः, अवगतार्थाभिलाषे तत्प्रार्थना मार्गगा, तदप्राप्तौ च निपुणोपायतोऽन्वेषणं गवेषणा, प्रयुक्तप्रतिहतोपायस्योपायान्तरचिन्तनं चिन्ता, तद्विषय एवोपायालोचनात्मकः प्रत्ययो विमर्षः, स संज्ञीति लभ्यते । अयं च गर्भव्युत्क्रान्तिकः पुरुषादिरौपपातिकच देवादिरेव मनःपर्याप्तिप्रयुक्तो विज्ञेयः, यथोक्त विशेषण कलापसमन्वितत्वात्, न पुनरन्यस्तद्विशेषणविकल इति । आह च - “ जस्से "त्यादि, 10 यस्य नास्ति ईहाsपोहो मार्गणा गवेषणा चिन्ता विमर्षः सोऽसंज्ञीति लभ्यते, अयं च सम्मूर्च्छिमपञ्चेन्द्रिय-विकलेन्द्रियादिज्ञेयः, अल्पमनोलब्धित्वादभावाच्च । “से त" मित्यादि, सोऽयं कालिक्युपदेशेन १ ॥
६९. से किं तं हेऊवएसेणं ? हेऊवएसेणं जस्स णं अस्थि अभिसंधारणपुव्विया करणसत्ती से णं ण्णीति लग्भइ, जस्स णं णत्थि अभिसंधारणपुब्विया करणसत्ती से णं असणि तिलब्भइ । से तं हेऊवएसेणं २ ।
1
६९. से किं तमित्यादि । अथ कोऽयं हेतूपदेशेन ?, हेतु: - कारणम्, उपदेशनं उपदेशः, हेतोरुपदेश: हेतूपदेशस्तेन, कारणोपदेशेनेत्यर्थः । 'यस्य' प्राणिनः 'अस्ति' विद्यतेऽभिसन्धारणम् - अव्यक्तेन विज्ञानेनाऽऽलोचनं तत्पूर्विका - तत्कारणिका करणशक्तिः - क्रियाशक्तिः, करणं - क्रिया शक्तिः -सामर्थ्यम्, अव्यक्तविज्ञानालोचननिबन्धनचेष्टासामर्थ्यमिति भावना, स प्राणी "ण" मिति वाक्यालङ्कारे संज्ञीति लभ्यते, अयं च द्वीन्द्रियादिः सम्मूर्च्छिमपञ्चेन्द्रियावसानो विज्ञेयः । तथाहि - कृम्यादयोऽपीष्टेष्वाहारादिषु प्रवर्त्तन्ते अनिष्टेभ्यश्च निवर्त्तन्ते स्वदेहप - 20 रिपालनार्थं प्रायो वर्त्तमान एव, न चासञ्चिन्त्येष्टा ऽनिष्टविषयप्रवृत्ति - निवृत्तिसम्भव इति संज्ञी । उक्तलक्षणविकलस्त्वसंज्ञी, तथा चाह - "जस्से "त्यादि, यस्य नास्ति अभिसन्धारणपूर्विका करणशक्तिः सोऽसंज्ञीति लभ्यते, अयं चैकेन्द्रियः पृथिव्यादिवसेयः, मनोलब्धिरहितत्वात् ।
15
आह-यदि स्वल्पसंज्ञायोगाद् विकलेन्द्रियादयः संज्ञिन इष्यन्ते पृथिव्यादयः किं नेष्यन्ते ? यतस्तेषामपि दशविधाः संज्ञा विद्यन्त एव, तथा चोक्तं परमगुरुभिः - “ कति णं भंते ! एगिंदियाणं सन्नाओ पन्नत्ताओ ?, गोयमा ! 25 - दस, तंजहा - आहारसन्ना १ भयसन्ना २ मेहुण० ३ परिग्गहसन्ना ४ कोह० ५ माण० ६ माया० ७ लोभ० ८ ओहसन्ना ९ लोहसन्ना य" १० [ ] त्ति । उपयोगमात्रमोघसंज्ञा, लोकसंज्ञा स्वच्छन्दविकल्पिता विश्वगमा लौकिकैराचरिता, तद्यथा - " अनपत्यस्य न सन्ति लोकाः" इत्यादि, अन्ये तु व्याचक्षते - ओघसंज्ञा दर्शनोपयोगः, लोकसंज्ञा ज्ञानोपयोग इति, अत्रोच्यते, इहौघसंज्ञा स्तोकत्वाद् आहारादिसंज्ञाश्चानिष्टत्वान्नाधिक्रियन्ते, यथा न कार्षापणमात्रेण धनवानभिधीयते मूर्तिमात्रेण वा रूपवानिति, किन्तु यथा प्रभूतरत्नादिस - 30 मन्वितो धनवान् प्रशस्तमूर्तियुक्तश्च रूपवानभिधीयते; एवं महती शोभना च संज्ञा यस्यास्त्यसौ संज्ञीति, विशिष्टतराच विकलेन्द्रियसंज्ञेत्यलं विस्तरेण । " से त" मित्यादि, सोऽयं हेतुपदेशेन २ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org