________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलकृतं
[सू. ६६-६९ गा. ७८ वेन्द्रियलब्ध्यक्षरमिति, एवं शेषेष्वपि भावनीयम् । “से त"मित्यादि, तदेतल्लब्ध्यक्षरम् । “से त"मित्यादि, तदेतदक्षरात्मकं अक्षरं च तदिति वा श्रुतं चाक्षरश्रुतम् । अत्र संज्ञा-व्यञ्जनाक्षरे द्रव्यश्रुतम् , लब्ध्यक्षरं पुनर्भावश्रुतम् लब्धेर्विज्ञानरूपखात् ।। ६६. से किं तं अणक्खरसुयं ? अणक्खरसुयं अणेगविहं पण्णत्तं, तं जहा
ऊससियं णीससियं णिच्छूदं खासियं च छीयं च । णिस्संघियमणुसारं अणक्खरं छेलियादीयं ॥ ७८॥
से त्तं अणक्खरसुयं २। ६६. से किं तमित्यादि । अथ किं तदनक्षरश्रुतम् ? । अनक्षरशब्दकारणं कार्यमनक्षरश्रुतं 'अनेकविध' अनेकप्रकारं प्रज्ञप्तम् । तद्यथा10 उससियं० गाहा । उच्छ्वसनमुच्छ्वसितम् , भावे निष्ठाप्रत्ययः । तथा निश्वसनं निश्वसितम् । निष्ठी
वनं निष्ठयूतम् । कासनं कासितम् । 'चशब्दः समुच्चयार्थः। क्षवणं क्षुतम् । 'चशब्दः' समुच्चयार्थ एव, अस्य व्यवहितः सम्बन्धः । कथम् ? सेण्टितं चानक्षरं श्रुतमिति वक्ष्यामः । निःसङ्घनं निःसवितम् । अनुस्वारवदनुस्वारम् , अक्षरमपि यदनुस्वारवदुच्चार्यते । 'अनक्षर मिति एतदुच्छ्वसितादि अनक्षरश्रुतमिति । सेण्टनं सेण्टितम् , तत्
सेण्टितं चानक्षरश्रुतमिति । इदं चोच्छ्वसितादि द्रव्यश्रुतमात्रम् , ध्वनिमात्रत्वात् । अथवा श्रुतविज्ञानोपयुक्तस्य 15 जन्तोः सर्व एव व्यापारः श्रुतम् , तस्य तद्भावेन परिणतत्वात् । आह-यधेवं किमित्युपयुक्तस्य चेष्टापि श्रुतं
नोच्यते येनोच्छवसिताधेवोच्यते ? इति, अत्रोच्यते, रूढया, अथवा श्रूयत इति श्रुतम्, अन्वर्थसंज्ञामधिकृत्योच्छ्चसिताद्येव श्रुतमुच्यते, न चेष्टा, तदभावादिति, अनुस्वारादयस्त्वर्थगमकत्वादेव श्रुतमिति ॥७८॥
“से त"मित्यादि, तदेतदनक्षरश्रुतम् ॥
६७. से किं तं सण्णिसुतं ? सण्णिसुतं तिविहं पण्णत्तं, तं जहा-कालिओवएसेणं १ 20 हेऊवएसेणं २ दिद्विवादोवदेसेणं ३।
६७. से किं तमित्यादि । अथ किं तत् संज्ञिश्रुतम् ? । संज्ञानं संज्ञा, साऽस्यास्तीति संज्ञी, तस्य श्रुतं संजिश्रुतं त्रिविधं प्रज्ञप्तम्, संज्ञिन एव त्रिभेदत्वात् । त्रिभेदतामेव दर्शयन्नाह, तद्यथा-कालिक्युपदेशेन १ हेतूपदेशेन २ दृष्टिवादोपदेशेन ३ ॥
६८. से किं तं कालिओवएसेणं ? कालिओवएसेणं जस्स णं अस्थि ईहा अपोहो 52 मग्गणा गवेसणा चिंता वीमंसा से णं सण्णि ति लब्भइ, जस्स णं णत्थि ईहा अपोहो मग्गणा गवेसणा चिंता वीमंसा से णं असण्णीति लब्भइ । से तं कालिओवएसेणं १।
६८. से किं तमित्यादि । अथ कोऽयं कालिक्युपदेशेन ? इहाऽऽदिपदलोपाद् दीर्घकालिकी कालिक्युच्यते, संज्ञेति प्रकरणाद् गम्यते, उपदेशनमुपदेशः, कथनमित्यर्थः, दीर्घकालिक्याः सम्बन्धी दीर्घकालिक्या वा मतेनोपदेशो दीर्घकालिक्युपदेशः, स्तेन 'यस्य' पाणिनः 'अस्ति' विद्यते 'ईहा' शब्दाघवग्रहणोत्तरकालमन्वय-व्यतिरेकधर्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org