________________
10
अक्षरश्रुतस्य संज्ञाक्षरादीनां च स्वरूपम् ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । अक्षरश्रुता-ऽनक्षरश्रुतभेदद्वयान्तर्भावे सत्यपि शेषभेदानामुपन्यासोऽज्ञातज्ञापनार्थः, न च भेदद्वयादेवाव्युत्पन्नमतीनां शेषभेदावगम इति प्रतीतमेतत् । अलं विस्तरेण ॥ साम्प्रतमुपन्यस्तश्रुतभेदानां स्वरूपमनवगच्छन्नाद्यं भेदमधिकृत्य प्रश्नसूत्रमाह
६२. से किं तं अक्खरसुतं ? अक्खरसुतं तिविहं पण्णत्तं तं जहा-सण्णक्खरं १ वंजणखरं २ लद्धिअक्खरं ३।
६२. से किं तमित्यादि । अथ किं तदक्षरश्रुतम् ?, क्षर “ सञ्चलने" [पाणिनिधातु. ८५१ ] न क्षरतीत्यक्षरम्, तच्च ज्ञानम्, चेतनेत्यर्थः, जीवस्वाभाव्यादनुपयोगेऽपि तत्त्वतो न प्रच्यवत इत्यर्थः, इत्थम्भूतभावाक्षरकार्यकारणत्वादकाराद्यप्यक्षरमुच्यते । तत्राक्षरात्मकं श्रुतमक्षरश्रुतं द्रव्याक्षराण्यधिकृत्य, अथवाऽक्षरं च तत् श्रुतं चाक्षरश्रुतं भावाक्षरमधिकृत्य । इदमक्षरश्रुतं त्रिविधं प्रज्ञप्तम्, अक्षरस्यैव त्रिभेदत्वात् । त्रिभेदतामेव दर्शयन्नाह-सज्ञाक्षरं १ व्यञ्जनाक्षरं लब्ध्यक्षरम् ३॥ ... ६३. से किं तं सण्णक्खरं ? सण्णक्खरं अक्सरस्स संगणा-ऽगिती। से तं सण्णक्खरं १ ।
६३. से किं तमित्यादि । अथ किं तत् संज्ञाक्षरम् ?, सज्ञानं संज्ञा, सज्ञायते वा अनयेति संज्ञा, तनिबन्धनमक्षरं संज्ञाक्षरम्, इदं च 'अक्षरस्य' अकारादेः संस्थानस्याऽऽकृतिः संस्थानाकारः, यतस्तनिवन्धनैवैतेष्वकारादिसंज्ञा प्रवर्तते इति । एतच ब्राह्मयादिलिपीविधानादनेकविधम् । “से तं सन्नक्खरं" तदेतत् संज्ञाक्षरम् १॥
६४. से किं तं वंजणक्खरं ? वंजणक्खरं अक्खरस्स वंजणाभिलावो। सेत्तं वंजणक्खरं २ । 15
६४. से किं तमित्यादि । अथ किं तद् व्यञ्जनाक्षरम् ?, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम्, व्यञ्जनं च तदक्षरं च व्यञ्जनाक्षरम्, तचेह सर्वमेव भाष्यमाणमकारादि हकारान्तम्, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, तथा चाह सूत्रकारः-'अक्षरस्य' अकारादेः 'व्यञ्जनाभिलापः' शब्दोच्चारणम् । “ से त"मित्यादि, तदेतद् व्यञ्जनाक्षरम् २॥
६५. से किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धीयस्स लद्धिअक्खरं समुप्पज्जइ, 20 तं जहा-सोइंदियलद्धिअक्खरं १ चक्खिदियलद्धिअक्खरं २ घाणेंदियलद्धिअक्खरं ३ रसणिदियलद्धिअक्खरं ४ फासेंदियलद्धिअक्खरं ५ णोइंदियलद्धिअक्खरं ६ । से तं लद्धिअक्खरं ३। से तं अक्खरसुयं १ ।
६५. से किं तमित्यादि । अथ किं तल्लब्ध्यक्षरम् ?, लब्धिः-क्षयोपशमः उपयोग इत्यर्थः । “अक्खरलद्धीयस्स" इत्यादि, इहाक्षरे लब्धिय॑स्य सोऽक्षरलब्धिकस्तस्य, इन्द्रिय-मनउभयविज्ञानसमुत्थघटाद्यक्षरलब्धिसम- 25 वितस्येत्यर्थः, अनेन विकलेन्द्रियादिव्यवच्छेदमाह । 'लब्ध्यक्षरं समुत्पद्यते' कुतश्चिच्छन्दादेनिमित्तात् सजाततदांवरणकर्मक्षयोपशमस्य 'लब्ध्यक्षरं समुत्पद्यते' अक्षरोपलम्भः सञ्जायते । एतदुक्तं भवति-शब्दादिग्रहणसमनन्तरमिन्द्रिय-मनोनिमित्तं श्रुतग्रन्थानुसारि शाङ्ख इत्याद्यक्षरानुषक्तं विज्ञानमुत्पद्यते। तच्चानेकपकारम् , तद्यथा-श्रोत्रेन्द्रियंलब्ध्यक्षरमित्यादि । इह श्रोत्रेन्द्रियेण शब्दश्रवणे सति शाङ्खोऽयमित्याधक्षरद्वयलाभः श्रोत्रेन्द्रियनिमित्तवाच्छ्रो
- Jain Education International
For Private & Personal Use Only
www.jainelibrary.org