________________
५८
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलकृतं
[ सू. ६१-६५ गन्धादि स्तोकद्रव्यत्वादभावुकत्वाद् घ्राणादीनां चापटुत्वाद् विनिश्चिनोतीत्येवं व्यागृणीयादिति गाथार्थः ३ ॥७५।। इह 'स्पृष्टं शृणोति शब्दम्' इत्युक्तम्, तत्र किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि गृह्णाति ? उतान्यानि तद्भावितानि ? आहोश्चिद् मिश्राणि ? इति चोदकाभिप्रायमाशङ्कय 'न तावत् केवलानि, तेषां वासकत्वात् तद्योग्यद्रव्याकुलत्वाच लोकस्य, किन्तु मिश्राणि तद्वासितानि वा गृह्णाति'इत्यमुमर्थमभिधित्सुराह
भासा० गाहा । व्याख्या-भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेणयो भाषासमश्रेणयः, समग्रहणं विश्रेणीव्यवच्छेदार्थम् , इह श्रेणयः क्षेत्रप्रदेशश्रेणयोऽभिधीयन्ते, ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु विद्यन्ते, यामुत्सृष्टा सति भाषाऽऽद्यसमय एव लोकान्तमनुधावतीति, ता इतःभाषासमश्रेणीतः, इतो गतः प्राप्तः स्थित इत्यनर्थान्तरम् । एतदुक्तं भवति-भाषासमश्रेणिव्यवस्थित इति ।
शब्द्यतेऽनेनेति शब्द:-भाषात्वेन परिणतः पुद्गलराशिः तं शब्दम् , यं पुरुषा-श्वादिसम्बन्धिनं 'शृणोति' गृह्णाति 10 उपलभत इति पर्यायाः, यत्तदोनित्यसम्बन्धात् तं मिश्रं शृणोति । एतदुक्तं भवति-उत्सृष्टद्रव्यभावितापान्तराल
स्थशब्दद्रव्यमिश्रमिति । विश्रेणिं पुनः इत इति वर्तते, ततश्चायमर्थों भवति-विश्रेणिव्यवस्थितः पुनः श्रोता शब्द शृणोति नियमेन पराघाते सति, यानि शब्दद्रव्याण्युत्सृष्टद्रव्याभिघाते वासितानि तान्येव, न पुनरुत्सृष्टानीति भावार्थः, कुतः ? तेषां अनुश्रेणिगमनात् प्रतिघाताभावाच्च । अथवा विश्रेणिस्थित एव विश्रेणिरभिधीयते, पदेऽपि पदावयवप्रयोगदर्शनात् , भीमसेनः सेनः सत्यभामा भामेति यथेति गाथार्थः ॥७६।। 15 साम्पतं विनेयगणसुखप्रतिपत्तये मतिज्ञानपर्यायशब्दानभिधित्सुराह
ईहा० गाहा । व्याख्या-ईहनमीहा, सदर्थपर्यालोचनचेष्टेत्यर्थः । अपोहनमपोहः, निश्चय इत्यर्थः । विमर्षणं विमर्षः, ईहा-पायमध्यवर्ती प्रत्ययः । तथाऽन्वयधर्मान्वेषणामार्गणा । 'चः' समुच्चयार्थः। व्यतिरेकधर्मालोचना गवेषणा। तथा संज्ञानं सज्ञा, व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः । स्मरणं स्मृतिः, पूर्वानुभूतार्थालम्बन
प्रत्ययः। मननं मतिः, कथश्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरित्यर्थः । तथा प्रज्ञानं प्रज्ञा, विशिष्ट20 क्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा संविदिति भावना। सर्वमिदमाभिनिवोधिकम्, मतिज्ञानमित्यर्थः । एवं किञ्चिद्भेदाद् भेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एते पर्यायशब्दा इति गाथार्थः ॥७७॥ “से त"मित्यादि, तदेतदाभिनिबोधिकज्ञानमिति । साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपजिज्ञासयाऽऽह
६१. से किं तं सुयणाणपरोक्खं ? सुयणाणपरोक्खं चोदसविहं पण्णत्तं, तं जहा25 अक्खरसुतं १ अणक्खरसुतं २ सण्णिसुयं ३ असण्णिसुयं ४ सम्मसुयं ५ मिच्छसुयं ६ सादीयं७
अणादीयं ८ सपज्जवसियं ९ अपज्जवसियं १० गमियं ११ अगमियं १२ अंगपविट्ठ १३ अणंगपविट्ठ १४।
६१. से किं तमित्यादि । अथ किं तत् श्रुतज्ञानम् ? श्रुतज्ञानमुपाधिभेदाचतुर्दशविधं प्रज्ञप्तम्, तद्यथा-अक्षरश्रुतं १ अनक्षरश्रुतं २ संज्ञिश्रुतं ३ असंज्ञिश्रुतं ४ सम्यक् तं ५ मिथ्याश्रुतं ६ सादि ७ अनादि ८ सपर्यवसितं ९ अपर्यवसितं 30 १० गमिकं ११ अगमिकं १२ अङ्गप्रविष्टं १३ अनङ्गमविष्टम् १४ । एतेषां च भेदानां स्वरूपं यथावसरं वक्ष्यामः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org