________________
अवग्रहादीनां स्वरूपादि ]
श्रीदेववाचकविरचितं नन्दिसूत्रम् ।
५७
त्वात् किमिति प्रथमं दर्शनं ततो ज्ञानम् ? इति उच्यते, तस्य प्रवलावरणत्वाद् दर्शनस्य चाल्पावरणत्वादिति । ' तथा ' इति आनन्तर्ये । विचारणं पर्यालोचनम्, अर्थानामिति वर्तते, ईहनमीहा ताम्, ब्रुवत इति सम्बन्धः । विविधोऽवसायो व्यवसायः - निर्णयस्तं व्यवसायं च अर्थानामिति वर्तते, अपायं ब्रुवत इति संसर्गः । धृतिर्धरणम्, अर्थानामिति वर्तते, परिच्छिन्नस्य वस्तुनः अविच्युति - स्मृति-वासनारूपम्, तद् धरणं पुनर्धारणां ब्रुवत इति, अनेन शास्त्रपारतन्त्र्यमाह, इत्थं तीर्थकर - गणधरा ब्रुवते । अन्ये त्वेवं पठन्ति - " अत्थाणं उग्गहणम्मि उग्गहो" इत्यादि, 5 अत्राप्यर्थानामत्रग्रहणे सति 'अवग्रहो नाम' मतिविशेष इत्येवं ब्रुत्रते, एवमीहादिष्वपि योज्यम् । भावार्थस्तु पूर्ववदेवेति गाथार्थः ॥ ७३ ॥ इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह
उग्गहो० गाहा । व्याख्या - इहाभिहितलक्षणोऽर्थावग्रहो यो जघन्यो नैश्चयिकः स खल्वेकं समयं भवतीति सम्बन्धः । तत्र कालः परमनिकृष्टः समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यतिभेदोदाहरणाज्जीर्णपट्टशाटिकापाटनदृष्टान्ताच्चावसेय इति । तथा सांव्यवहारिकार्थावग्रह - व्यञ्जनावग्रहौ तु पृथक् पृथगन्तर्मुहूर्त्तकालं भवत इति 10 ज्ञातव्यौ। ईहा चापायश्चेहापायौ, प्राकृतशैल्या बहुवचनम्, उक्तं च
बहुवयणेण दुवयणं, छट्ठिविभत्तीइ भण्णइ चउत्थी । जह हत्था तह पाया, नमोऽत्थु देवाहिदेवाणं ।। १ ।।
[
]
तावीहा पायौ मुहूर्त्ता ज्ञातव्यौ भवतः । तत्र मुहूर्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्यार्द्ध मुहूर्त्तार्द्धम् । ‘तुशब्दः' विशेषणार्थः । किं विशिनष्टि ? व्यवहारापेक्षयैतन्मुहूर्त्तार्द्धमुक्तम्, तत्त्वतस्त्वन्तर्मुहूर्त्तमत्रसे- 15 यमिति । अन्ये त्वेवं पठन्ति - " मुहुत्तमं तं तु " मुहूर्त्तान्तस्तु द्वे पदे, अयमर्थः - अन्तर्मध्यकरणे, 'तुशब्दः' एवकारार्थः, स चात्रधारणे, एतदुक्तं भवति - ईहा पायौ ' मुहूर्त्तान्तः' भिन्नं मुहूर्त्त ज्ञातव्यौ भवतः, अन्तर्मुहूर्त्तमेवेत्यर्थः । कलनं काल:, तं कालम्, न विद्यते सङ्ख्या - इयन्तः पक्ष-मास-वयन-संवत्सरादय इत्येवम्भूता सङ्ख्या यस्यासावसङ्ख्यः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसङ्ख्यम्, तथा सङ्ख्यायत इति सङ्ख्यः, इयन्तः पक्ष- मासर्त्वयनादय इत्येवंसङ्ख्यप्रमित इत्यर्थः, तं सङ्ख्यं च चशब्दादन्तर्मुहूर्त्त च, 'धारणा' अभिहितलक्षणा भवति 20 ज्ञातव्या । अयमत्र भावार्थः - अपायोत्तरकालमविच्युतिरूपाऽन्तर्मुहूर्त्त भवत्येव, स्मृतिरूपाऽपि, वासनारूपा तु तदावरणक्षयोपशमाख्या स्मृतिधारणाया बीजभूता सङ्ख्येयवर्षायुषां सत्त्वानां सङ्ख्येयकालं असङ्ख्ये यवर्षायुषां पल्योपमादिजीविनां चासङ्ख्येयमिति गाथार्थः ॥७४॥
इत्थमवग्रहादीनां स्वरूपमभिधायेदानीं श्रोत्रेन्द्रियादीनां प्राप्ताऽप्राप्तविषयतां प्रतिपिपादयिषुराह -
पुढं सुणेइ० गाहा । व्याख्या - तत्र 'स्पृष्टमिति' आलिङ्गितम्, तनौ रेणुवत्, 'शृणोति' गृह्णाति । किम् ? 'शब्द' 25 शब्दद्रव्यसङ्घातम् । कुतः ? तस्य सूक्ष्मत्वाद् भावुकत्वात् प्रचुरद्रव्याकुलत्वात् श्रोत्रेन्द्रियस्यान्येन्द्रियगणात् प्रायः पटुतरत्वात् १ । रूप्यत इति रूपम्, तद् रूपं पुनः 'पश्यति' गृह्णाति 'अस्पृष्टं' अनालिङ्गितम्, असम्बद्धमित्यर्थः । 'पुनःशब्दः' विशेषणार्थः, 'तुशब्दस्तु' एवकारार्थः, ततश्चायमर्थः - अस्पृष्टमेव पश्यति, पुनः शब्दादस्पृष्टमपि योग्यदेशावस्थितम्, नायोग्यदेशात्रस्थितमधोलोकादि । कुतः ? अप्राप्तकारित्वात् परिमित देशस्थ विषयग्राहित्वाच्चक्षुष इति २ । [गन्ध्यते - ] घ्रायत इति गन्धस्तम्, रस्यत इति रसस्तं च, स्पृश्यत इति स्पर्शस्तं च, 'चशब्दौ ' पूरण-समुच्चयार्थी, 30 'बद्धस्पृष्टमिति' बद्धम् - आश्लिष्टं तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः स्पृष्टं - पूर्ववत्, प्राकृतशैल्या चेत्थमुपन्यासः " बद्धपु" ति, अर्थतस्तु स्पृष्टं च बद्धं च स्पृष्टवद्धमिति विज्ञेयम्, आलिङ्गितानन्तरमात्मप्रदेशैरागृहीतमित्यर्थः, टी० ८
Jain Education International
For Private Personal Use Only
www.jainelibrary.org