________________
श्रीहरिभद्र सूरिसूत्रितया वृत्त्या समलकृतं
[सू. ६० गा. ७२-७७ खेत्तं लोगा-लोग, कालं सम्बद्धमहब तिविधो वि । पंचोदइयादीए भावे जं नेयमेवतियं ॥ २॥ आदेसो त्ति व सुत्तं, सुतोवलद्धेसु तस्स मतिणाणं । पसरइ, तब्भावणभाविणो वि सुत्ताणुसारेणं ॥३॥
[विशेषा. गा. ४०३-५] साम्पतं सङ्ग्रहगाथा उच्यन्ते । तत्र६०. उग्गह ईहाऽवाओ य धारणा एव होति चत्तारि।
आभिणिबोहियणाणस्स भेयवत्थू समासेणं ॥७२॥ अत्थाणं उग्गहणं तु उग्गहं, तह वियालणं ईहं । ववसायं तु अवार्य, धरणं पुण धारणं विति ॥७३॥ उग्गहो एक समयं, ईहा-ऽवाया मुहुत्तमद्धं तु । कालमसंखं संखं च धारणा होति णायव्वा ।। ७४ ॥ पुढे सुणेति सद, रूवं पुण पासती अपुढे तु। गंधं रसं च फासं च बद्ध-पुढे वियागरे ॥ ७५॥ भासासमसेढीओ सदं जं सुणइ मीसयं सुणइ । वीसेढी पुण सदं सुणेति णियमा पराघाए ॥७६ ॥ ईहा अपोह वीमंसा मग्गणा य गवसणा। सण्णा सती मती पण्णा सव्वं आभिणिबोहियं ॥ ७७॥
से तं आभिणिबोहियणाणपरोक्खं । ६०. उग्गह० गाहा । व्याख्या-'अवग्रहः' प्राग्निरूपितशब्दार्थः, तथा ईहाऽपायश्च, चशब्दः पृथगवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनामीहादयः पर्याया न भवन्तीत्युक्तं भवतिः समुच्चयार्थों वा, यदा 20 समुच्चयार्थस्तदा व्यवहितो द्रष्टव्यः, धारणा च । 'एवकारः' क्रमपरिदर्शनार्थः, एवमनेनैव क्रमेण भवन्ति
चत्वार्याभिनिवोधिकज्ञानस्य भिद्यन्त इति भेदाः विकल्पाः अंशा इत्यनर्थान्तरम् , त एव वस्तूनि भेदवस्तूनि ।। कथम् ? यतो नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यत इति । अथवा काका नीयते, एवं भवन्ति चत्वार्याभिनिबोधिकज्ञानस्य भेदवस्तूनि 'समासेन' सझेपेण विशिष्टावग्रहादिस्वरूपापेक्षया, न तु विस्तरत इति, विस्तरतोऽष्टाविंशतिभेदभिन्नत्वात् तस्येति गाथार्थः ॥ ७२ ॥
इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपं प्रतिषिपादयिषयाऽऽह
अत्थाणं गाहा। व्याख्या-तत्रार्यन्त इत्यर्थाः, अर्यन्ते-गम्यन्ते परिच्छिद्यन्त इति यावत् , ते च रूपादयः तेषामर्थानां प्रथमदर्शनानन्तरं च ग्रहणं अवग्रहम् , ब्रुवत इति योगः।आह-वस्तुनः सामान्य-विशेषात्मकतयाऽविशिष्ट
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org