________________
मल्लकदृष्टान्त आभिनिबोधिकज्ञानस्य द्रव्यादयो भेदाश्च] श्रीदेववाचकविरचितं नन्दिसूत्रम् । .
____ अन्ये त्वाचार्या इदं सूत्रं विशेषसामान्यार्थावग्रहविषयं व्याचक्षते-'अव्यक्तं' अनिर्धारितविशेषस्वरूपं अशब्दव्यवच्छेदेन शब्दं शृणुयात्, तेन शब्द इति शब्दमात्रमवगृहीतम्, न पुनरेवं जानाति क एष शब्दः ?, शाल-शामदीनामन्यतमः, आदिशब्दाद् रसादिपरिग्रहः, तत्रापीयमेव वार्तेति, युक्तियुक्ता चेयं व्याख्येति । ततः 'ईहां प्रविशति' सदर्थपर्यालोचनां करोति, इह च दुरवबोधत्वाद् वस्तुनः अपटुत्वाच मतिज्ञानावरणक्षयोपशमस्यासञ्जातापाय एवेहोपयोगात् च्युतः पुनरप्यन्यमन्तर्मुहूर्तमीहते, एवमीहोपयोगाविच्छेदत एव प्रभूतानप्यन्तर्मुहूर्तानीहत इति सम्भवः, 5 ततः 'जानाती'त्यादि वस्तुतः गतार्थ यावत् स्पर्शनेन्द्रियवक्तव्यता । उक्तं च भाष्यकारेण
सेसेसु वि रूवादिसु विसएमु वि होइ सूवलक्खाई। पायं पच्चासन्नत्तणेगमीहादिवत्थूणि ॥१॥ थाणुपुरिसादि-कुटुप्पलादि-संभितकरिल्लमंसादी । सप्पोप्पलणालादि य समाणस्वादिविसयाई ॥२॥ एवं चिय सुमिणादिसु मणसो सदादिएसु विसएसु । होतिदियवावाराभावे वि अवग्गहादीया ॥३॥
[विशेषा. गा. २९२-९४] इत्यादि । 10 [३] से जहाणामए इत्यादि । इह प्रतिबोधप्रथमसमये ' अव्यक्तम् ' अनिर्धारितस्वरूपं स्वप्नं प्रतिसंवेदयेत् तस्य तदाऽर्थावग्रहः, तत ऊर्ध्वमीहादय इति । अन्ये तु मनसोऽप्यर्थावग्रहात् पूर्व व्यञ्जनावग्रहं मनोद्रव्यव्यञ्जनग्रहणलक्षणं व्याचक्षते तत् पुनरयुक्तम्, अनापत्वात्, व्यञ्जनावग्रहस्य श्रोत्रादिभेदेन चतुर्विधत्वात् । शेषं प्रकटार्थम् यावत् " से तं मल्लगदिटुंतेणं"। इह च सुखप्रतिपत्त्यर्थ स्वप्नमधिकृत्य नोइन्द्रियार्थावग्रहादयः प्रतिपादिताः, अन्यथाऽन्यत्रापीन्द्रियव्यापाराभावे सति मनसा पर्यालोचयतोऽवगन्तव्या इति । अत्राऽऽह-किमुक्तलक्षणमवग्रहादि- 15 क्रमं विहाय क्वचिदपि मतिज्ञानं नोत्पद्यते येनैवं क्रमः ? इति, अत्रोच्यते, नोत्पद्यते, तथाहि-नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यते इत्यलं प्रसङ्गेन ॥ सर्वमेवेदं द्रव्यादिभिर्निरूपयन्नाह
५९. तं समासओ चउब्विहं पण्णत्तं, तं जहा-दव्वओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं आभिणिवोहियणाणी आएसेणं सव्वदव्वाइं जाणति ण पासति १ । खेतओ णं आभिणिबोहियणाणी आएसेणं सव्वं खेत्तं जाणइ ण पासइ २ । कालओ णं 20 आभिणिबोहियणाणी आएसेणं सव्वं कालं जाणइ न पासइ ३ । भावओ णं आभिणिबोहियणाणी आएसेणं सव्वे भावे जाणइ ण पासइ ४ ।।
५९. तं समासतो इत्यादि। द्रव्यत आभिनिबोधिकज्ञानी 'आदेशेन' आदेशः-प्रकारः, सच सामान्यतो विशेषतश्च, तत्र द्रव्यजातिसामान्यादेशेन 'द्रव्याणि' धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, न पश्यति सर्वात्मना धर्मास्तिकायादीन् , शब्दादीस्तु योग्यदेशावस्थितान् 25 पश्यत्यपि, श्रुतादेशतो वा जानाति । एवं क्षेत्रादिष्वपि भावनीयम् । नवरं तान् न पश्यत्येव । तथा चोक्तं भाष्यकारेण
आदेसो त्ति पगारो, ओहादेसेण सव्वदव्याई । धम्मत्थिकाइयाई जाणइ, न उ सव्वभावेणं ॥१॥
१ अन्ये इति नन्दिचूर्णिकृतः [ पत्रं ४० ] ॥ २ “एवं रूपादिष्वपि विषयेषु सूपलक्ष्याणि ईहादिवस्तूनि, प्रायः प्रत्यासन्नस्वात् स्थाणु-पुरुषादिना सादृश्यादित्यर्थः" इति स्वोपज्ञटीका ॥ ३ अन्ये नन्दीचूर्णिकृतः [ पत्रं ४१] ॥ ४ सब्वमेपणं इति महाभाष्ये पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org