________________
५४
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[सू. ५९ ५८. [१] से किं तमित्यादि । अथ कोऽयं मल्लकदृष्टान्तः ?, मल्लकदृष्टान्तो नाम तद् यथानाम कश्चित् पुरुषः 'आपाकशिरस' आपाकः प्रतीतः तच्छिरसश्च 'मल्लक' शरावं गृहीत्वा, 'इदं रूक्षं भवति' इत्यतोऽस्य ग्रहणमिति, 'तत्र' मल्लके एक उदकबिन्दु प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः। शेषं सुगमं यावत्
"जण्णं तं मल्लकं रावेहिति" आर्द्रतां नेष्यति, शेषं सुगमं यावत् “एवामेव" इत्यादि, अतिबहुत्वात् प्रतिसमयमनन्तैः 5 'पुद्गलैः' शब्दपुद्गलैयंदा तद् व्यञ्जनं पूरितं भवति तदा 'हुँ' इति करोति, तमर्थ गृह्णातीत्युक्तं भवति । अत्र व्यञ्जनशब्देन त्रयमभिगृह्यते-द्रव्यं १ इन्द्रियं २ सम्बन्धो ३ वा । यदा द्रव्यं व्यञ्जनमधिक्रियते तदा 'पूरित'मिति प्रभूतीकृतम् , स्वप्रमाणमानीतम् , स्वविषयव्यक्तौ समर्थीकृतमित्यर्थः १ । यदा व्यञ्जनमिन्द्रियं तदा 'पूरित'मित्याभृतम् , आभृतं व्याप्तमित्यर्थः २ । यदा तु द्वयोरपि सम्बन्धोऽधिक्रियते तदा 'पूरित'मिति अङ्गाङ्गी
भावमानीतम् , अनुषक्तमित्यर्थः ३ । एवं यदा पूरितं भवति तदानीं तमर्थं गृह्णाति । किविशिष्टम् ? नाम-जात्यादि10 कल्पनारहितम् , तथा चाह-"णो चेव णं जाणइ के वेस सदादि ?" त्ति, न पुनरेवं जानाति क एष शब्दादिरर्थ इति, एकसामयिकत्वादर्थावग्रहस्य, अत्रार्थावग्रहात् पूर्व सर्वो व्यञ्जनावग्रह इति । “ततो ईहं पविसति" इत्यादि मुगमं यावत् “संखेज वा असंखेजं वा कालं" ति । अत्राह-सुप्तमङ्गीकृत्य युज्यतेऽयं न्यायः, जाग्रतस्तु शब्दश्रवणसमनन्तरमेव अवग्रहेहाव्यतिरेकेणैवापायज्ञानमुत्पद्यते, तथोपलम्भात् , न चैतदनापम् , यत आह सूत्रकारः
"से जहाणामए" इत्यादिः अथवा यदक्तम "न पुनरेवं जानाति 'क एष शब्दादिः?" किं तर्हि ? नाम-जात्यादि15 कल्पनारहितं गृह्णातीत्येतदयुक्तम् , यत एवमागमः-"से" इत्यादि, अथवा सुप्तप्रतिबोधक मल्लकदृष्टान्ताभ्यां व्यञ्जनाऽर्थावग्रहयोः सामान्येन स्वरूपमभिधाय अधुना मल्लकदृष्टान्तेनैव प्रतिपादयन्नाह
[२] से जहा इत्यादि, तद् यथानाम कश्चित् पुरुषः अव्यक्तं शब्दं शृणुयात्। 'अव्यक्तमिति' अनिर्देश्यस्वरूपं नामादिकल्पनारहितमिति, अनेनार्थावग्रहमाह, तस्य च श्रोत्रेन्द्रियसम्बन्धिनो व्यञ्जनावग्रहपूर्वकत्वाद् व्यञ्जनावग्रहं
च । आह-न ह्यत्रैवं क्रम उपलभ्यते, किन्त्वक्षेपेण शब्दापायज्ञानमेव वेद्यते, सूत्रेऽव्यक्तमिति शब्दविशेषणं कृतम20 तोऽव्यक्तं सन्दिग्धं पुरुषादिशब्दभेदेन शब्दं शृणुयादिति, न्याय्यम् , तथा चोत्तरसूत्रमप्येतदेवाह-"तेणं सः त्ति
उग्गहिते" 'तेन' श्रोत्रा शब्द इत्यवगृहीतं “णो चेव णं जाणति के वेस सदादि" न पुनरेवं जानाति-कः 'एषः' पुरुषादिसमुत्थानामन्यतमः शब्द इति, आदिशब्दाद् रसादिष्वप्ययमेव न्याय इति ज्ञापयति । “ततो ईहं पविसति" इत्याद्यपि सम्बद्धमिति, नैतदेवम् , उत्पलपत्रशतव्यतिभेददृष्टान्तेन कालभेदस्य दुर्लक्षत्वाद् अक्षेपेण शब्दापाय
ज्ञानानुपपत्तेः, यच्च 'तेन शब्द इत्यवगृहीतम्' इत्युक्तम् , अत्र 'शब्दः' इति भणति वक्ता सूत्रकार इति, करणनिर्दे25 शात् शब्दमात्रं चाशेषविशेषविमुखम् , न तु शब्दबुद्धया, तस्यैवापायप्रसङ्गात्, अवग्रहादिश्रुतव्यतिरेकेण च मतिज्ञानानुत्पत्तेः, तथा चाह-"णो चेव ण"मित्यादि, न पुनरेवं जानाति क एप शब्दादिरर्थः, सामान्यमात्रप्रतिभासनात् । आह च भाष्यकारः
अव्वत्तमणिद्देसं सरूव-णामादिकप्पणारहितं । जदि एवं जं 'तेणं गहियं सद्दे' त्ति तं कह णु ? ॥१॥ 'सद्दे' त्ति भणति वत्ता, तम्मत्तं वा ण सद्दमुत्ती(बुद्धी)ए। जदि होज सद्दबुद्धी तोऽवाओ चेव सो होजा ॥२॥ जति सद्दबुद्धिमत्तयमवग्गहे तबिसेसणमवाओ। णणु सहो णासदो ण य रूवादी विसेसोऽयं ॥३॥ थोवमियं णावायो तंब्भेयाविक्खणं अवाओ त्ति । तब्भेयाविक्खाए णणु थोवमिणं पि णावाओ ॥४॥
[ विशेषा. गा. २५२-५५] इत्यादि। १ सामण्णमणिद्देसं इति महाभाष्ये पाठो वर्तते ॥ २ संखाइविसेसणं अवाओ त्ति महाभाष्ये पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org