________________
अवग्रहेहादीनां स्वरूपं तदेकार्थिकाश्च] श्रीदेववाचकविरचितं नन्दिसूत्रम् । मेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्माध्यासेनाऽऽलोचनमिति गर्भः, तद्भावो गवेषणता ३। ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद्भूतार्थविशेषचिन्तनं चिन्ता ४ । विमर्षणं विमर्षः, क्षयोपशमविशेषादेवोवं स्पष्टतरावबोधतः सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मालोचनं विमर्षः, नित्या-नित्यादिद्रव्यभावालोचनमित्यन्ये ५ । “ से तं ईहा" ॥
५३. [१] से किं तं अवाए ? अवाए छबिहे पण्णत्ते, तं जहा-सोइंदियावाए १ 5 चक्खिदियावाए २ घाणेंदियावाए ३जिभिदियावाए ४ फासेंदियावाए ५ णोइंदियावाए ६ ।
[२] तस्स णं इमे एगट्ठिया णाणाघोसा णाणावंजणा पंच णामधेया भवंति, तं जहाआवट्टणया १ पञ्चावट्टणया २ अवाए ३ बुद्धी ४ विण्णाणे ५। से तं अवाए।
५३. [१] से किं तमित्यादि सूत्रसिद्धं यावद्
[२] 'आवर्तनता' वय॑तेऽनेनेति वर्त्तन-क्षयोपशमकरणमेव, ईहाभावनिवृत्त्यभिमुखस्यापायभावप्रतिपत्त्य- 10 भिमुखस्य चार्थविशेषावबोधविशेषस्य आ-मर्यादया वर्तनमावर्त्तनम् , तद्भाव आवर्तनता १। ततः प्रतिपत्त्याऽऽवर्त्तनं प्रत्यावर्त्तनं, अर्थविशेष एव विवक्षितापायप्रत्यासन्नतरबोधविशेषाणां मुहुर्मुहुर्वर्तनमित्यर्थः, तद्भावः प्रत्यावर्त्तनता२। अप अयः अपायः, विशेषतः सङ्कलनेन निश्चयो निर्णयोऽवगम इत्यनर्थान्तरम्, सर्वथेहाभावानिवृत्तस्यावधारणावधारितमर्थमवगच्छतोऽपाय इति भावार्थः३। ततस्तमेवावधारितमर्थ क्षयोपशमविशेषात् स्थिरतया पुनः पुनः स्पष्टतरमेव बुद्धयमानस्य बुद्धिः ४। विशिष्टं ज्ञानं विज्ञानम् , क्षयोपशमविशेषादवधारितार्थविषयमेव तीव्रतरधारणाकरण- 15 मित्यर्थः ५। " से तं अवाए" सोऽयमपायः॥
५४. [१] से किं तं धारणा ? धारणा छबिहा पण्णत्ता, तं जहा-सोइंदियधारणा १ चक्खिदियधारणा २ घाणिदियधारणा ३ जिभिदियधारणा ४ फासिंदियधारणा ५ णोइंदियधारणा ६। [२] तीसे णं इमे एगट्ठिया णाणाघोसा णाणावंजणा पंच णामधेया भवंति, तं जहा-धरणा १ धारणा २ ठवणा ३ पतिट्ठा ४ को? ५ । से तं धारणा।
५४. [१] से किं तमित्यादि निगदसिद्धं यावद्
[२] धरणा इत्यादि । अपायानन्तरमवगतार्थमविच्युत्या जघन्योत्कृष्टमन्तर्मुहतमात्रं कालं धारयतो धरणेति भण्यते १ । ततस्तमेवार्थ उपयोगात् च्युतं जघन्येनान्तर्मुहूर्तादुत्कृष्टतोऽसख्येयकालात् परतः स्मरतो धरणं धारणोच्यते २। स्थापनं स्थापना, ततोऽपायावधारितमर्थ पूर्वापरालोचितं हृदि स्थापयतः स्थापना, मूर्तघटस्थापनावत्, वासनेत्यर्थः। अन्ये तु धारणा-स्थापनयोर्व्यत्ययेन स्वरूपमाचक्षते ३। प्रतिष्ठापनं प्रतिष्ठा, अपायावधारितमेवार्थ 25 हृदि प्रभेदेन प्रतिष्ठापयतः प्रतिष्ठा भण्यते, जले उपलप्रक्षेपप्रतिष्ठावत् ४ । 'कोष्ठकः' इति अविनष्टसूत्रार्थबीजधारणात् कोष्ठकवद् धारणा कोष्ठक इति ५। इहाऽऽत्मनो ज्ञानस्वभावत्वाज्ज्ञानावरणीयादिकर्ममलपटलाच्छादितस्वभावत्वात् गुरुवदनसमुत्थशब्दाधनेकविधकारणापाद्यमानक्षयोपशमसामर्थ्यादवबोधः, ज्ञेयस्य चानन्तधर्मात्मकत्वात् कालक्षयोपशमविशेषतोऽवग्रहेहा-पायावबोधविशेषो भावनीयः, कथञ्चिदेकाधिकरणत्वात्, अन्यथा परिच्छेदप्रवृत्तिलक्षणसकललोकप्रसिद्धसंव्यवहारोच्छेदप्रसङ्ग इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् ।।
20
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org