________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[ सू. ५१-५४ तमर्थ गृह्णन्तीति दर्शने रश्मीनां तैजसत्वात् तेजोद्रव्यैरप्रतिस्खलनाददोष इति, एतदप्ययुक्तम्, महाज्वालादौ पतिस्खलनोपलब्धेरिति । अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयात् , गमनिकामात्रमेतदिति ॥
५१. [१] से किं तं अत्थोग्गहे ? अत्थोग्गहे छविहे पण्णत्ते, तं जहा-सोइंदियअत्थोग्गहे १ चक्खिदियअत्थोग्गहे २ घाणिदियअत्थोग्गहे ३ जिभिदियअत्थोग्गहे ४ 5 फासिदियअत्थोग्गहे ५ णोइंदियअत्थोग्गहे ६। [२] तस्स णं इमे एगट्ठिया णाणा
घोसा णाणावंजणा पंच णामधेया भवंति, तं जहा-ओगिण्हणया १ उवधारणया २ सवणता ३ अवलंबणता ४ मेहा ५) से तं उग्गहे।
५१. [१] से किं तमित्यादि । अथ कोऽयमर्थावग्रहः ?, अर्थावग्रहः षड्विधः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियार्थावग्रह इत्यादि सूत्रसिद्धं यावत्10 [२] तस्स णं इमे इत्यादि । 'तस्य' अवग्रहस्य 'अमूनि' वक्ष्यमाणानि “णं" पूर्ववद् अवग्रहसामान्या
पेक्षयकार्थिकानि नानाघोषाणि नानाव्यञ्जनानि पञ्च नामधेयानि भवन्ति । घोषाः-उदात्तादयः । कादीनि व्यञ्जनानि । नामैव नामधेयम् , अवग्रहविशेषापेक्षया तु कथञ्चिद् भिन्नार्थानि । त्रिविधश्वावग्रहः-सामान्यावग्रहो विशेषावग्रहः विशेषसामान्यार्थावग्रहश्चेति । तत्र भिन्नार्थता निदर्श्यते-"तं जहा-ओगिण्हणते "त्यादि, अवगृह्यतेऽने
नेति अवग्रहणम् , करणे ल्युट् , व्यञ्जनावग्रहप्रथमसमयप्रविष्टशब्दादिद्रव्यादानपरिणाम इत्यर्थः, तद्भावः अव15 ग्रहणता १। धार्यतेऽनेनेति धारणम् । उप-सामीप्येन धारणं उपधारणम् , व्यञ्जनावग्रहद्वयादिसमयेष्ववसानान्तं प्रतिसमयमेव शब्दादिद्रव्यादान-धारणपरिणाम इति भावना, तद्भाव उपधारणता २। श्रूयतेऽनेनेति श्रवणम् , एकसामयिकसामान्यार्थावग्रहावबोधपरिणाम इत्युक्तं भवति, तद्भावःश्रवणता३। अवलम्बत इत्यवलम्बनम् , “कृत्यल्युटो बहुलम्" [ पाणि. ३. ३. ११३ ] इतिवचनात् कर्मणि ल्युट् , तद्भावः अवलम्बनता, विशेषसामान्यार्थावग्रह इति
भावार्थः। तथाहि-उत्तरोत्तरधर्मजिज्ञासायां सत्यां शब्दादिज्ञानमेवावलम्ब्येहादयः प्रवर्तन्ते, 'किमयं शाङ्कः ? किं 20 वा शाङ्गः?' इति, अतस्तदनन्तरमेवेहादिप्रवृत्तेविशेषसामान्यार्थावग्रहोऽवलम्बनमिति ४ । एवमुत्तरोत्तरधर्मजिज्ञासायां
सत्यां विशेषसामान्यार्थावग्रहेषु मर्यादया धावतो मेधोच्यते, यावदधिगच्छति, यथा-शाङ्कः, स किं मन्द्रः? किंवा तारः? इत्यादि ५। यत्र व्यञ्जनावग्रहो नास्ति तत्राद्यभेदद्वयाभाव इति । “ से तं उग्गहे " सोऽयमवग्रहः ॥
५२. [१] से किं तं ईहा ? ईहा छब्बिहा पण्णत्ता, तं जहा-सोतेंदियईहा १ चक्खिदियईहा २ घाणेंदियईहा ३ जिभिदियईहा ४ फासेंदियईहा ५ णोइंदियईहा ६। 25 [२] तीसे णं इमे एगट्ठिया णाणाघोसा णाणावंजणा पंच णामधेया भवंति, तं जहाआभोगणया १ मग्गणया २ गवेसणया ३ चिंता ४ वीमंसा ५। से तं ईहा ।
५२. [१] से किं तमित्यादि सूत्रं निगदसिद्धं यावत्
[२] 'आभोगनता' इहार्थावग्रहसमयसमनन्तरमेव सद्भूतार्थविशेषाभिमुखमालोचनमाभोगनमुच्यते, तद्भाव आभोगनता १। मृग्यतेऽनेन परिणामकरणेनेति मार्गणम्, सद्भूतार्थविशेषाभिमुखमेव तदूर्ध्वमन्वय-व्यतिरेक30 धर्मान्वेषणमिति हृदयम्, तद्भावो मार्गणता २। एवमन्विष्यतेऽनेनेति गवेषणम्, तत ऊवं सद्भूतार्थविशेषाभिमुख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org