SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रुतनिश्रितं मतिज्ञानम्] श्रीदेववाचकरिचितं नन्दिसूत्रम् । पमाभूतश्च दृष्टान्तः । उक्तं च-“यः साध्यस्योपमाभूतः स दृष्टान्त इति कथ्यते"। कालकृतो देहावस्थाविशेषो वय इत्युच्यते, तद्विपाकेन परिणामः-पुष्टता यस्याः सा तथाविधा । हितम्-अभ्युदयस्तत्कारणं वा, निःश्रेयसंमोक्षस्तनिबन्धनं वा, हित-निःश्रेयसाभ्यां फलवती बुद्धिः पारिणामिकीति गाथार्थः। ॥६८॥ अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपं दर्शयन्नाह--- __ अभए० गाहा । खमए० गाहा । चलणा० गाहा । आसामर्थः कथानकेभ्य एवावसेयः । तानि चान्यत्र 5 वक्ष्यामः ॥६९।७०।७१॥ “से तं" इत्यादि, तदेतदश्रुतनिश्रितम् ॥ ४८. से कि तं सुयणिस्सियं मतिणाणं ? सुयणिस्सियं मतिणाणं चउब्विहं पण्णत्तं, तं जहा-उग्गहे १ ईहा २ अवाए ३ धारणा ४ । ४८. से किं तमित्यादि । चतुर्विधं प्रज्ञप्तम् , तद्यथा-अवग्रह ईहा अपायो धारणा । अवग्रहणमवग्रहः, सामान्यमात्रानिर्देश्यार्थग्रहणमित्यर्थः । तथा ईहनमीहा, सदर्थपर्यालोचनचेष्टेत्यर्थः। एतदुक्तं भवनि-अवग्रहादु- 10 त्तीर्णः अपायात् पूर्वः सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागाभिमुखश्च पायो मधुरत्वादयः शङ्खादिशब्दधर्मा अत्र घटन्ते, न खर-कर्कश-निष्ठुरतादयः शार्णादिशब्दधर्मा इति मतिविशेष ईहेति । तथा तदर्थाध्यवसायोऽपायः निर्णयो निश्चयोऽवगम इत्यनान्तरम् । एतदुक्तं भवति-'शाङ्ख एवायम्, शाङ्ग एव वा' इत्याद्यवधारणात्मकः प्रत्ययोऽपाय इति । तथा तदर्थविशेषधरणं धारणा, अविच्युति-स्मृति-वासनारूपा ॥ ४९. से किं तं उग्गहे ? उग्गहे दुविहे पण्णते, तं जहा-अत्थोग्गहे य वंजणोग्गहे य। 15 ४९. से किं तमित्यादि । अथ कोऽयमवग्रहः ? अवग्रहो द्विविधः प्रज्ञप्तः, तद्यथा-अर्थावग्रहश्च व्यञ्जनावग्रहश्च । अर्य्यत इत्यर्थः, अर्थस्यावग्रहोऽर्थावग्रहः, सकलविशेषनिरपेक्षानिर्देश्यार्थग्रहणमेकसामयिकमिति भावार्थः । व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम् , तच्चोपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण व्यञ्जनानां-शब्दादिपरिणतद्रव्याणामवग्रहो व्यञ्जनावग्रहः । अथार्थावग्रहस्य तु (?सु) लक्ष्यत्वात् सकलेन्द्रियार्थव्यापकत्वाच्च प्रथममुपन्यासः, ततो दुर्लक्ष्यत्वात् सकलेन्द्रियार्थाव्यापकत्वाचेतरस्य ।। 20 ५०. से किं तं वंजणोग्गहे ? वंजणोग्गहे चउब्बिहे पण्णत्ते, तं जहा-सोर्तिदियवंजगोग्गहे १ घाणेंदियवंजणोग्गहे २ जिभिदियवंजणोग्गहे ३ फासेंदियवंजणोग्गहे ४ । से तं वंजणोग्गहे। ५०. से किं तमित्यादि । अथ कोऽयं व्यञ्जनावग्रहः ? इत्यत्र पुनरुत्पत्तिक्रम एवाऽऽश्रितो यथासम्भवमिति मुश्लिष्टमेतदिति । प्रकृतमुच्यते-व्यञ्जनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियव्यञ्जनावग्रह इत्यादि सूत्रसिद्धम् । 25 आह-पञ्चेन्द्रिय-मनःसद्भावे सति किमित्ययं चतुर्विधः ? इति, अत्रोच्यते, नयन-मनसोरमाप्तकारित्वात्, अमाप्तकारित्वं च विषयकृतानुग्रहोपघातशून्यत्वात्, प्राप्तकारित्वे पुनरनल-जल-शूलाद्यालोकने दहन-क्लेदन-पाटनादयः स्युः । अत्र च विषयदेशं गत्वा न पश्यति, प्राप्तं चार्थ नाऽऽलम्बत इत्येतावनियम्यते, मूर्तिमता पुनः प्राप्तेन भवत एवानुग्रहोपघातौ भास्करकिरणादिनेति । अन्यस्त्वाह-व्यवहितार्थानुपलब्धेरनुमानात् प्राप्तकारित्वं लोचनस्येति, एतदयुक्तम्, अनैकान्तिकत्वात्, रुचोऽभ्रपटल-स्फटिकान्तरितोपलब्धेः। स्यादेतत्-नायना रश्मयो निर्गत्य 30 टी०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy