________________
४८
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[सू. ४८नमनं परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्म इत्यर्थः, स कारणमस्यास्तत्पधाना वा पारिणामिकी । बुध्यते अनयेति बुद्धिः, मतिरित्यर्थः, सा चतुर्विधोक्ता तीर्थकर गणधरैः । किमिति ? यस्मात् पञ्चमी नोपलभ्यते केवलिनाऽपि, असत्त्वादिति गाथार्थः ।। ५८ ॥ औत्पत्तिक्या लक्षणं प्रतिपादयन्नाह
पुव्वळ गाहा । 'पूर्व'मिति बुद्धयत्पादात प्राक स्वयमदृष्टः अन्यतश्चाश्रतः अवेदितः-मनसाऽप्यनालोचितः 5 तस्मिन्नेव क्षणे विशुद्धः-यथावस्थितः गृहीतः-अवधारितः अर्थः-अभिप्रेतपदार्थो यया सा तथा। इहैकान्तिकमिह-परलोकाविरुद्धं फलान्तराबाधितं चाव्याहतमुच्यते, फलं-प्रयोजनम्, अव्याहतं च तत् फलं च अव्याहतफलम् , योगोऽस्यास्तीति योगिनी, अव्याहतफलेन योगिनी अव्याहतफलयोगिनी । अन्ये पठन्ति-'अव्याहतफलयोगा' अव्याहतफलेन योगोऽस्याः सा अव्याहतफलयोगा बुद्धिः औत्पत्तिकी नामेति गाथार्थः॥ ५९॥
साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयन्नाह10. भरहसिल पणिय० गाहा । भरह० गाहा । महुसित्थ० गाहा ।आसामर्थः कथानकेभ्य एवावसेयः। तानि चावसरमाप्तान्यपि गुरुनियोगान ब्रूमः, किन्त्वावश्यके वक्ष्यामः ॥६०॥६१।।६२॥
अधुना वैनयिक्या लक्षण प्रतिपादयनाह
भरणित्थ० गाहा। व्याख्या-इहातिगुरु कार्य दुर्निवहत्वाद् भर इव भरः, तन्निस्तरणे समर्था भरनिस्तरणसमर्था । त्रयो वर्गास्त्रिवर्गमिति लोकरूढेधर्मा-ऽर्थ-कामाः, तदर्जनपरोपायप्रतिपादननिबन्धनं सूत्रम्, तदन्वाख्यानं त्वर्थः, 15 पेयालं-प्रमाणं सारो वा, त्रिवर्गसूत्रार्थयोगृहीतं प्रमाणं सारो वा यया सा तथाविधा । अथवा त्रिवर्ग:-त्रैलोक्यम् ।
आह-त्रिवर्गसूत्रार्थगृहीतसारत्वे सति अश्रुतनिश्रितत्वं विरुध्यते ? इति, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं सम्भवति, अत्रोच्यते-इह प्रायोवृत्तिमङ्गीकृत्याश्रुतनिश्रितत्वमुक्तम्, अतः स्वल्पश्रुतनिश्रितभावेऽपि न कश्चिद् दोष इति । 'उभयलोकफलवती' ऐहिका-ऽऽमुष्मिकफलवती ‘विनयसमुत्था' विनयोद्भवा भवति बुद्धिरिति
गाथार्थः ॥ ६३ ॥ अस्या एव विनेयजनानुग्रहार्थमुदाहरणैः स्वरूपमुपदर्शयन्नाह20 णिमित्ते गाहा । सीता० गाहा । गाथाद्वयार्थः कथानकेभ्य एवावसेयः । तानि चोत्तरत्र वक्ष्यामः ॥६४॥६५।। साम्प्रतं कर्मजाया बुद्धलक्षणं प्रतिपादयन्नाह
उवयोग० गाहा । व्याख्या-उपयोजनमुपयोगः-विवक्षिते कर्मणि मनसोऽभिनिवेशः, सारः-तस्यैव कर्मणः परमार्थः, उपयोगेन दृष्टः सारो ययेति समासः, अभिनिवेशोपलब्धकर्मपरमार्थत्यर्थः । कर्मणि प्रसङ्गः कर्मप्रसङ्गः, प्रसङ्ग:-अभ्यासः, परिघोलनं-विचारः, कर्मप्रसङ्ग-परिघोलनाभ्यां विशाला कर्मप्रसङ्ग-परिघोलनविशाला, अभ्यास25 विचारविस्तीर्णेति भावार्थः । साधु कृतमिति-मुष्टु कृतमिति विद्वद्भयः प्रशंसा साधुकारः, तेन फलवतीति
समासः, साधुकारेण वा शेषमपि फलं यस्याः सा तथा । 'कर्मसमुत्था' कर्मोद्भवा भवति बुद्धिरिति गाथार्थः ॥६६॥ अस्या अपि विनेयवर्गानुकम्पयोदाहरणैः स्वरूपमुपदर्शयन्नाह
हेरण्णिए० गाहा। व्याख्या-अस्या अप्यर्थं वक्ष्यामः॥६७।। साम्प्रतं पारिणामिक्या लक्षणं प्रतिपादयन्नाह
अणुमाण गाहा। व्याख्या-अनुमान-हेतु-दृष्टान्तैः साध्यमर्थ साधयतीति अनुमान-हेतु-दृष्टान्तसाधिका। इह 30 लिङ्गज्ञानमनुमानम् , स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः, परार्थमित्यर्थः। अथवा ज्ञापकमनुमानम् , कारको हेतुः। दृष्टमर्थमन्तं नयतीति दृष्टान्तः । आह-अनुमानग्रहणादेव दृष्टान्तस्य गतवादलमुपन्यासेन, न, अनुमानस्य तत्त्वत एकलक्षणत्वात् । उक्तं च-“अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ?"[
] इत्यादि। साध्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org