________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[ सू. ४६-४७ गा. ५८-७१
४५. अविसेसिता इत्यादि । अविशेषिता मतिः सामान्येनैव मतिज्ञानं मत्यज्ञानं च, सामान्येनोभय-त्रापि मतिशब्दप्रवृत्तेः । ‘विशेषिता मतिः ' स्वामिविशेषेण सम्यग्दृष्टेर्मतिर्मतिज्ञानम्, निश्चयनयदर्शनेन स्वकार्यप्रसाधकत्वात् ; मिथ्यादृष्टेर्मतिः मत्यज्ञानम्, तत्त्वतः स्वफलरहितत्वादित्यर्थः । एवं श्रुतसूत्रमपि व्याख्येयम् । आह-क्षयोपशमादिकारणाभेदे घटादिपरिच्छेद कार्याभेदे च कथं मिथ्यादृष्टेरज्ञाने ? इति, तथा च मिथ्यादृष्टेरपि 5 क्षयोपशमादेव मति श्रुतप्रवृत्तिः, तथोर्ध्वादिलक्षणाकारमेव घटादिसंवेदनमिति, अत्रोच्यते - मिथ्यादृष्टेरज्ञाने मतिश्रुते, सदसतोरविशेषात्, उन्मत्तकवत् । उक्तं च भाष्यकारेण
सदसदविसेसणाओ, भवहेउ जहिच्छिओवलंभाओ । णाणफलाभावातो, मिच्छद्दिद्विस्स अन्नाणं ।। १ ।। [ विशेषा. गा. ११५]
विनेयजनानुग्रहार्थमियं लेशतो व्याख्यायत इति - मिथ्यादृष्टिः कथञ्चित् सन्तमपि पुरुषे देवादिधर्म न 10 प्रतिपद्यते, पुरुष एवेत्यभ्युपगमात्; तथा असन्तमपि घटादिधर्मं प्रतिपद्यते, अस्त्येवेत्यभ्युपगमात् ; अतः सदसतोरविशेष इति । अतश्च मिथ्यादृष्टेर्मति श्रुते अज्ञाने, भवहेतुत्वाच्च, मिथ्यादर्शनवत् । इतश्राज्ञानम् - यदृच्छोपलब्धेः, उन्मत्तवत् । इतथाज्ञानम् - [ज्ञान] फलाभावात्, अन्धप्रदीपवत्, ज्ञानस्य हि फलं विरतिः, सा च मिथ्यादृष्टेर्न विद्यत इत्यलं प्रसङ्गेन । प्रकृतं प्रस्तुमः - इह मतिपूर्व श्रुतमिति कृत्वा मतिज्ञानमेवाधिकृत्य प्रश्नसूत्रमाह
४६. से किं तं आभिणिवोहियणाणं ? आभिणिबोहियणाणं दुविहं पण्णत्तं तं जहासुयणिस्सियं च असुयणिस्सियं च ।
15
20
25
४६
४६. से किं तमित्यादि । अत्र निर्वचनम् - द्विविधं प्रज्ञप्तम्, तद्यथा श्रुतनिश्रितं चाश्रुतनिश्रितं च । 'चौ' पूर्ववत् । श्रुतमिह सामायिकादि लोकबिन्दुसारान्तं द्रव्यश्रुतं गृह्यते, तदनुसारेण श्रुतपरिकर्मितम तेस्तदपेक्षमेव चोत्पादकाले यदुत्पद्यते तत् श्रुतनिश्रितं अवग्रहादि । यत्पुनस्तदनपेक्षं तथाविधक्षयोपशमप्रभवमेव वर्त्तते तदश्रुतनिश्रितं औत्पत्तिक्यादि । आह - इदमप्यवग्रहादिरूपमेत्र, सत्यम्, किन्तु श्रुतानुसारमन्तरेणोत्पत्तेर्भेदेनोक्तम् ॥ तत्राल्पतरवक्तव्यत्वादश्रुतनिश्रितमतिज्ञानप्रतिपादनायाह
४७. से किं तं असुयणिस्सियं ? असुयणिस्सियं चउव्विहं पण्णत्तं तं जहाउपपत्तिया १ वेणइया २ कम्मया ३ पारिणामिया ४ ।
बुद्धी चव्विा वृत्ता पंचमा नोवलब्भइ ॥ ५८ ॥ पुवं अदिमसुयमवेइयतक्खणविसुद्धगहियत्था | अव्वाहय फलजोगा बुद्धी उप्पत्तिया णाम ।। ५९ ॥ भरहसिल १ पणिय २ रुक्खे ३ खुड्डग ४ पड ५ सरड ६ काय ७ उच्चारे ८ । गय ९ घण १० गोल १९ खंभे १२
खुड्डग १३ मग्गि १४ त्थि १५ पति १६ ते १७ ॥ ६० ॥ भरह सिल १ मिंट २ कुक्कुड ३ वालुय ४ हत्थी ५ [य] अगड ६ वणसंडे ७ ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org