________________
४५
15
परोक्षज्ञानं मति-श्रुतयोः सहभावित्वादिकं च] श्रीदेववाचकविरचितं नन्दिसूत्रम् ।
"अभिणिबुज्झइ" इत्यादि । अभिनिबुध्यत इत्याभिनिवोधिकम् , आत्मनः परिणामविशेषः । एवं शृणोतीति श्रुतम् , आत्मन एव परिणामविशेष इति । एतदुक्तं भवति-यदिन्द्रिय-मनोनिमित्तमात्मनो विज्ञानं श्रुतग्रन्थानुसारेणोपजायते तत् श्रुतम् , शेषमिन्द्रिय-मनोनिमित्तमाभिनिवोधिकमिति । इत्थं लक्षणभेदाद् भेदमभिधायाधुना प्रकारान्तरेण भेदमभिधित्सुराह___"मतिपुव्वं सुतं, ण मती सुयपुब्विया" "पृ पालन-पूरणयोः" [पाणिनिधातु० १४९०] इत्येतस्य पूर्यते । पाप्यते पाल्यते वाऽनेन कार्यमिति पूर्व-कारणम् , मतिः पूर्वमस्येति मतिपूर्व 'श्रुतं' श्रुतज्ञानम् , तथा चेदं मत्या पूर्यते प्राप्यते पाल्यते वा, अन्यथा प्रणश्यतीत्यर्थः, न मतिः श्रुतपूर्वेत्ययं महान् भेद इति । अत्राह-मति-श्रुतयोयुगपदेव सम्यक्त्वावाप्तौ भाव उक्तः, अज्ञानयोरपि विगमः, तत् कथं मतिपूर्व श्रुतम् ? इति, किश्च-मतिपूर्वकत्वेऽभ्युपगम्यमाने सति मतिज्ञानभावेऽपि तत्काले श्रुतमज्ञानं प्राप्नोति, अनार्ष चेदमिति, अत्रोच्यते-ननु लब्धि प्रति मति-श्रुते समकाले भवतः, न तूपयोगोऽनयोः समकाले इति मतिपूर्व श्रुतम् , इह पुनः को भावार्थः ? श्रुतोप- 10 योगो मतिप्रभवः, यतो नासश्चिन्त्य मत्या श्रुतग्रन्थानुसारि विज्ञानमुत्पद्यते । आह-एवं मतिरपि श्रुतपूर्वा भवत्येव, तथाहि-शब्दं श्रुत्वा या मतिरुत्पद्यते सा श्रुतपूर्वति प्रतीतम् , अतो न विशेषः, यथा मतिपूर्व श्रुतं तथा मतिरपि श्रुतपूर्वेति, अत्रोच्यते-नन सा द्रव्यश्रतोद्भवा वर्तते. इह तु 'न मतिः श्रतपूर्वा' इति का भावना? भावतात सकाशाद् मतिर्नास्तीति, यद्वा कार्यतया निषिध्यते-न पुनः क्रमेण, क्रमेण तु श्रुतोपयोगात् च्युतस्य मत्यवस्थानमिष्यत एवेत्यलं प्रसङ्गेन । न चैतत् स्वमनीषिकयोच्यते, यतोऽभ्यधायि भाष्यकृता
णाणाणऽण्णाणाणि य समकालाई यतो मइ-सुयाई । तो न सुयं मतिपुव्वं, मतिणाणे वा सुयऽण्णाणं ॥१॥ - इह लद्धिमइ-सुयाइं समकालाई, न तूवयोगो सिं । मतिपुव्वं सुयमिह पुण सुतोपयोगो मतिप्पभवो ॥२॥ सोऊण जा मती भे सा सुयपुर त्ति तेण ण विसेसो । सा दवमुयप्पभवा, भावसुयाओ मती नत्थि ॥३॥ कज्जतया, ण तु कमसो, कमेण को वा मतिं निवारेइ ? । जं तत्थावत्थाणं चुतस्स मुत्तोवयोगाओ ॥ ४॥
1 [विशेषा. गा. १०७-१०] 20 इतश्च मति-श्रुतयोर्भेदः-भेदभेदात् । तथाहि-ग्रहादिभेदादष्टाविंशतिविधं मतिज्ञानम् , अङ्गप्रविष्टायनेकभेदभिन्नं च श्रुतज्ञानम् । इन्द्रियोपयोगलाभतो लाभविभागतो वा । उक्तं चसोइंदिओवलद्धी होइ सुतं, सेसयं तु मतिणाणं । मोत्तूणं दबसुयं अक्खरलंभो य सेसेसु ॥१॥
[विशेषा. गा. ११७] इतश्च भेदः-अनक्षरमपि मतिज्ञानम् , अक्षरानुगतं च श्रुतज्ञानमिति । अथवाऽऽत्मप्रत्यायकं मतिज्ञानम् , स्व-पर- 25 .. प्रत्यायकं श्रुतज्ञानम् । आवरणभेदाच्च भेद इत्यलमतिप्रसङ्गेन ॥ इह च यथा मति-श्रुतयोः कार्य-कारणभेदान्मियो भेदस्तथा सम्यग्-मिथ्यादर्शनपरिग्रहविशेषात् स्वरूपतोऽपि भेद इति दर्शयन्नाह
४५. अविसेसिया मती मतिणाणं च मतिअण्णाणं च । विसेसिया मती सम्मदिहिस्स मती मतिणाणं, मिच्छादिहिस्स मती मतिअण्णाणं। अविसेसियं सुयं सुयणाणं च सुयअण्णाणं च । विसेसियं सुयं सम्मदिहिस्स सुयं सुयणाणं, मिच्छद्दिहिस्स सुयं सुयअण्णाणं । 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org