________________
४४ श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[सू. ४३-४५ केवलिनश्च तदभावात् , सर्वशुद्धौ देशशुद्धयभावादित्यर्थः । ये 'तत्र' तेषामर्थानां मध्ये प्रज्ञापनं प्रज्ञापना तस्या योग्याः प्रज्ञापनायोग्याः तान् ‘भाषते ' तानेव वक्ति, नेतरानिति । प्रज्ञापनीयानिति न सर्वानेव भाषते, अनन्तत्वात् , आयुषः परिमितत्वात् , किं तर्हि ?, योग्यानेव, गृहीतृशक्त्यपेक्षया, यो हि यावतां योग्यस्तानिति । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिःप्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतम् , नामकर्मोदयनिबन्धन5 त्वात् , श्रुतस्य च क्षायोपशमिकत्वात् , स च श्रुतं भवति शेषम् । 'शेषमिति' अप्रधानम् । एतदुक्तं भवति-श्रोतॄणां
श्रुतग्रन्थानुसारिभावश्रुतनिबन्धनत्वात् 'शेष' अप्रधानं द्रव्यश्रुतमित्यर्थः । अन्ये त्वेवं पठन्ति- “वइजोग सुयं हवइ तेसिं" स वाग्योगः श्रुतं भवति 'तेषां' श्रोतृणाम् , भावश्रुतकारणत्वादित्यभिप्रायः। अथवा वाग्योगः 'श्रुतं' द्रव्यश्रुतमेवेति गाथार्थः ॥ ५७ ॥
“से तं" इत्यादि निगमनम् । तदेतत् केवलज्ञानम् । तदेतत् प्रत्यक्षम् ।। एवं प्रत्यक्षे प्रतिपादिते सति 10 परोक्षस्वरूपमनवगच्छन्नाह चोदकः
४३. से किं तं परोक्खणाणं ? परोक्खणाणं दुविहं पण्णत्तं, तं जहा-आमिणिबोहियणाणपरोक्खं च सुयणाणपरोक्खं च ।
४३. से किं तमित्यादि । अथ किं तत् परोक्षम् ?, परोक्षं द्विविधं प्रज्ञप्तम् , तद्यथा-आभिनिबोधिकज्ञानपरोक्षं च श्रुतज्ञानपरोक्षं च । 'चौ' पूर्ववत् । अनयोश्चेत्थं क्रमोपन्यासे प्रयोजनमुक्तमेव ॥ 15 साम्पतं स्वाम्यभेदप्रतिपादनायाह--
४४. जत्थाऽऽभिणिबोहियणाणं तत्थ सुयणाणं, जत्थ सुयणाणं तत्थाऽऽभिणिबोहियणाणं । दो वि एयाइं अण्णमण्णमणुगयाइं तह वि पुण एत्थाऽऽयरिया णाणत्तं पण्णवेतिअभिणिबुज्झइ ति आभिणिबोहियं, सुणतीति सुतं ।।
“मतिपुव्वयं सुयं, ण मती सुयपुब्विया।" 20 ४४. जत्थ आभिणिबोहियणाणमित्यादि । 'यत्र' पुरुषे इन्द्रिय-नोइन्द्रियक्षयोपशमे वा आभिनिबोधिक
ज्ञानं 'तत्रैव' पुरुषादौ श्रुतज्ञानम् , तथा यत्र श्रुतज्ञानं तत्राऽऽभिनिबोधिकज्ञानम् । आह-यत्राभिनिवोधिकज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्राऽऽभिनिवोधिकज्ञानमिति गम्यत एवेत्यतः किमनेनोक्तेन ? इति, अत्रोच्यते, नियमतो न गम्यत इत्यतो नियमार्थम् । तथा चाह
__"दो वि एयाई" इत्यादि । 'द्वे अप्येते' आभिनिबोधिक-श्रुते 'अन्योन्यानुगते' परस्परं प्रतिबद्धे । 25 स्यादेतद्-एवं सत्यभेद एवास्त्वनयोरित्याशङ्कयाह-"तह वि पुणो" इत्यादि । तथापि पुनराचार्याः 'नानात्वं' __ भेदं 'प्रज्ञापयन्ति' मरूपयन्ति । कथम् ? लक्षणभेदात् , दृष्टश्चान्योन्यानुगतयोरप्येकाकाशस्थयोधर्मा-ऽधर्मास्तिकाय
योर्लक्षणभेदाद् भेद इति। तत्र यो हि गतिपरिणामपरिणतयोर्जीव-पुद्गलयोर्गत्युपष्टम्भहेतुर्जलमिव झषस्य स खल्वसङ्ख्येयप्रदेशात्मकोऽमूत्तों धर्मास्तिकाय इति, तथा यः स्थितिपरिणामपरिणतयोर्जीव-पुद्गलयोरेव स्थित्युपष्टम्भ
हेतुर्विवक्षया क्षितिरिव अषस्य स खल्वसङ्ख्येयपदेशात्मकोऽमूर्त एवाधर्मास्तिकाय इति, एवमाभिनिबोधिक श्रुतयो30 रपि लक्षणभेदाद् भेदः । तथा चाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org