________________
- 10
केवलज्ञानस्वरूपम् ]
श्रीदेववाचकविरचितं नन्दिसूत्रम् । उवओगो एगयरो पणुवीसतिमे सते सिणायस्स। भणिओ वियडत्थो च्चिय छटुडेसे विसेसेउं ॥२३॥
[विशेषणवती गा. २३२ विशेषा. गा. ३१२०] गाथाद्वयमपि निगदसिद्धम् । नवरं भगवत्यां पञ्चविंशतितमे शतेऽधिकारोपलक्षिते "सिणायस्स" त्ति 'स्नातकस्य केवलिनः ॥२२॥२३॥ सिद्धान्तवाद्येवानुद्वतत्वमागमभक्तिं च परां ख्यापयन्नाह
कस्स व णाणुमतमिणं जिणस्त जदि होज दो वि उवओगा?। Yणं ण होति जुगवं, जेण णिसिद्धा सुते बहुसो ॥२४॥
[विशेषणवती गा. २४६ विशेषा. गा. ३१३२] निगदसिद्भवेति ॥ २४ ॥ अलं प्रसङ्गेन । प्रकृतं प्रस्तुमः४२. अह सव्वदव्वपरिणामभावविण्णत्तिकारणमणंतं ।
सासयमप्पडिवाती एगविहं केवलण्णाणं ॥ ५६ ॥ केवलणाणेणऽत्थे गाउं जे तत्थ पण्णवणजोग्गे । ते भासइ तित्थयरो, वइजोग तयं हवइ सेसं ॥ ५७॥
से तं केवलणाणं । से तं पञ्चक्खणाणं । ४२. अह० गाहा । व्याख्या-इह मनःपर्यायज्ञानानन्तरं सूत्रक्रमोद्देशतः शुद्धिलाभतश्च प्राक् केवलज्ञानमुक्तं 15 तदुपन्यस्यत इत्यतस्तदर्थोऽयमथशब्दः । उक्तं च—“अथशब्दः प्रक्रिया-प्रश्ना-ऽऽनन्तर्य-मङ्गलोपन्यास-प्रतिवचनसमुच्चयेषु "[
] सर्वाणि च तानि द्रव्याणि च सर्वव्याणि-जीवा-जीवलक्षणानि तेषां परिणामाः-प्रयोग-विश्रसोभयाख्या उत्पादादयः सर्वद्रव्यपरिणामास्तेषां भावः-सत्ता स्वलक्षणमित्यनान्तरं तस्य विशेषेण ज्ञापनं विज्ञप्तिः विज्ञानं वा विज्ञप्तिः तत्र भेदोपचारात् तस्या विज्ञप्तेः-परिच्छित्तेः कारणं सर्वद्रव्यपरिणामभावविज्ञप्तिकारणम् , अथवा विज्ञप्तिरेव कारणं विज्ञप्तिकारणम् , अत एव सर्वक्षेत्र-कालविषयं तत् , 20 क्षेत्रादीनामपि द्रव्यत्वात् । तच्च ज्ञेयानन्तत्वादनन्तम् । शश्वद्भावाच्छाश्वतम् , सदोपयोगादिति भावार्थः। प्रतिपतनशीलं प्रतिपाति, न प्रतिपाति अप्रतिपाति, सदाऽवस्थितमित्यर्थः। आह-यच्छाश्वतं तदप्रतिपात्येवातः किं विशेषणेन? इति, उच्यते-मा भूद यावद् भवति तावच्छाश्वतमनवरतमेव भवतीति प्रतिपत्तिः, न पुनरवध्यादिवदन्यथेत्यतो विशेषणमित्यनवरतं भवति सर्वकालं चेति । अथवैकपदव्यभिचारेऽपि विशेषण-विशेष्यभावो भवतीति ज्ञापनार्थम् । तथाहि-शाश्वतममतिपात्येव, अप्रतिपाति तु शाश्वतमशाश्वतं वा, अप्रतिपात्यवधेरप्यशाश्वतत्वादिति । 'एकविधं' 25 एकमकारम् , आवरणाभावात् क्षयस्यैकरूपत्वात्। केवलं-मत्यादिनिरपेक्षम् , केवलं च तज्ज्ञानं चेति गाथार्थः॥५६॥
इह 'तीर्थकृत् समुपजातकेवलः सत्त्वानुग्रहार्थ देशनां करोति, तीर्थकरनामकर्मोदयात् , ततश्च ध्वनेर्द्रव्यश्रुतरूपत्वात् तस्य च भावश्रुतपूर्वकत्वात् श्रुतज्ञानसम्भवादनिष्टापत्तिः' इति मा भून्मतिमोहोऽव्युत्पन्नबुद्धीनामित्यतस्तद्विनिवृत्त्यर्थमाह
केवल० गाहा । व्याख्या-इह तीर्थकरः केवलज्ञानेन ‘अर्थान् ' धर्मास्तिकायादीन् मूर्ता-ऽमूर्त्तान् 30 अभिलाप्या-ऽनभिलाप्यान् 'ज्ञात्वा' विनिश्चित्य, केवलज्ञानेनैव ज्ञात्वा, न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org