________________
३०
5
श्रीहरिभद्रसूरि सूत्रितया वृत्त्या समलङ्कृतं
[ सू. २८-३० गा. ५३-५४
जीवादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥१॥
[
1
" से त" मित्यादि तदेतदप्रतिपात्यवधिज्ञानमिति ६ || व्याख्याताः षड् भेदाः । साम्प्रतं द्रव्यादिविषयापेक्षया भेदतोऽवधिज्ञानमेव निरूपयन्नाह-
२८. तं समासओ चउव्विहं पण्णत्तं तं जहा - दव्वओ खेत्तओ कालओ भावओ । तत्थ दव्वओ णं ओहिणाणी जहण्णेणं अणंताणि रूविदव्वाइं जाणइ पास, उक्कोसेणं सव्वाई रूविदव्वाइं जाणइ पासइ १ । खेत्तओ णं ओहिणाणी जहणेणं अंगुलस्स असंखेज्जतिभागं जाणइ पासइ, उक्कोसेणं असंखेज्जाइं अलोए लोयमेत्ताइं खंडाई जाण पासइ २ । कालओ णं ओहिणाणी जहणेणं आवलियाए असंखेज्जतिभागं 10 जाणइ पासइ, उक्कोसेणं असंखेज्जाओ उस्सप्पिणीओ अवसप्पिणीओ अतीतं च अणागतं च कालं जाणइ पासइ ३ । भावओ णं ओहिणाणी जहण्णेणं अनंते भावे जाणइ पासइ, उक्कोसेण वि अणंते भावे जाणइ पासइ, सव्वभावाणमणंतभागं जाणइ पासइ ४ | २८. तं समासओ इत्यादि । ' तद् ' अवधिज्ञानं 'समासतः' सङ्क्षेपेण चतुर्विधं प्रज्ञप्तम् । तद्यथाद्रव्यतः क्षेत्रतः कालतो भारत इति । तत्र द्रव्यतः "ण" मिति वाक्यालङ्कारे अवधिज्ञानी जघन्येनानन्तानि 15 द्रव्याणि तैजस-भाषाद्रव्याणामपान्तरालवर्तीनि, यत उक्तम् - " तेया भासादव्वाण अंतरा एत्थ लभइ पट्टओ ।" [ आव. नि. गा. ३८ ]त्ति । उत्कृष्टतः सर्वरूपिद्रव्याणि बादर-सूक्ष्मभेदभिन्नानि जानाति विशेषाकारेण पश्यति सामान्याकारेण । आह-आदौ दर्शनं ततो ज्ञानमिति क्रमः तत् किमर्थमेनं परित्यज्य प्रथमं जानातीत्युक्तम् ?, अत्रोच्यते, इहावधिज्ञानाधिकारात् प्राधान्यख्यापनार्थमादौ जानातीत्युक्तम्, अवधिदर्शनस्य त्ववधि-विभङ्गसाधारणत्वात् पश्चात् पश्यतीति । अथवा सर्वा एव लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्त इति, अवधेश्व लब्धित्वा20 दित्यस्यार्थस्य ख्यापनार्थमादौ जानातीत्याह, ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति १ । क्षेत्रतोऽवधिज्ञानी जघन्ये-नागुलस्यासङ्घयेयभागम्, उत्कृष्टतोऽसङ्ख्येयानि 'अलोके' केवलाकाशास्तिकाये शक्तिमपेक्ष्य लोकप्रमाणानि खण्डानि जानाति पश्यति २ । कालतोऽवधिज्ञानी जघन्येनाऽऽवलिका सङ्घयेयभागं उत्कृष्टतोऽसङ्ख्येया अवसर्पिण्युत्सर्पिणीतीतं चानागतं च कालं जानाति पश्यतीति भावार्थः प्राक् प्रतिपादित एव ३ । भावतोऽवधिज्ञानी जघन्येनानन्तानन्तान् 'भावान्' पर्यायान, आधारद्रव्यानन्तत्वात्, न तु प्रतिद्रव्यमिति, उत्कृष्टतोऽप्यनन्तानन् 25 भावान् जानाति पश्यति तेऽपि चोत्कृष्टपदिनः 'सर्वभावानां ' सर्वपर्यायाणामनन्तभाग इति ४ ॥ इत्थमवधिज्ञानं भेदतोऽप्यभिधाय साम्प्रतं सङ्ग्रहगाथामाह -
२९. ओही भवपञ्चतिओ गुणपच्चतिओ य वण्णिओ एसो ।
तस्य बहू वियप्पा, दव्वे खेत्ते य काले य ॥ ५३ ॥
२९. ओही भव० इत्यादि । अस्य व्याख्या - अवधिर्भवप्रत्ययो गुणप्रत्ययश्च ' वर्णितः ' व्याख्यातः 'एषः 30 अनन्तरम् । पाठान्तरं वा वर्णितो द्विविधः । ' तस्य ' द्विविधस्यापि बहवो विकल्पाः । 'द्रव्ये' इति द्रव्यविषयाः
Jain Education International
For Private Personal Use Only
www.jainelibrary.org