SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ हीयमान-प्रतिपात्याद्यवधिज्ञानम् ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । से त्तं इत्यादि, तदेतद् वर्द्धमानकं अअधिज्ञानमिति ३॥ २५. से किं तं हायमाणयं आहिणाणं ? हायमाणयं ओहिणाणं अप्पसत्थेहि अज्झवसायट्ठाणेहिं वट्टमाणस्स वट्टमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओही परिहायति । से तं हायमाणयं ओहिणाणं ४। ___ २५. से किं तमित्यादि । अथ किं तद् होयमानकम् ?, हीयमानकं कथञ्चिदवाप्तं सद् अप्रशस्तेष्वध्य- 5 वसायस्थानेषु वर्तमानस्य सतोऽविरतसम्यग्दृष्टेः, 'वर्तमानचारित्रस्य' देशविरतादेः, 'संक्लिश्यमानस्य' वध्यमानकर्मसंसर्गादुत्तरोत्तरं संक्लेशमासादयत अविरतसम्यग्दृष्टेरेव, 'संक्लिश्यमानचारित्रस्य' देशविरतादेः, सर्वतः समन्तादवधिः परिक्षीयते । तदेतद् हीयमानकमवधिज्ञानमिति ४॥ २६. से किं तं पडिवाति ओहिणाणं ? पडिवाति ओहिणाणं जणं जहण्णेणं अंगुलस्स असंखेज्जतिभागं वा संखेज्जतिभागं वा वालग्गं वा वालग्गपुहत्तं वा लिक्खं वा लिक्खपुहत्तं 10 वा जूयं वा जूयपुहत्तं वा जवं वा जवपुहत्तं वा अंगुलं वा अंगुलपुहत्तं वा पायं वा पायपुहत्तं वा वियत्थिं वा वियस्थिपुहत्तं वा स्यणिं वा स्यणिपुहत्तं वा कुच्छि वा कुच्छिपुहत्तं वा धणुयं वा धणुयपुहत्तं वा गाउयं वा गाउयपुहत्तं वा जोयणं वा जोयणपुहत्तं वा जोयणसयं वा जोयणसयपुहत्तं वा जोयणसहस्सं वा जोयणसहस्सपुहत्तं वा जोयणसतसहस्सं वा जोयणसतसहस्सपुहत्तं वा जोयणकोडिं वा जोयणकोडिपुहत्तं वा जोयणकोडाकोडं वा जोयणकोडाकोडिपुहत्तं 15 वा उक्कोसेण लोगं वा पासित्ता णं पडिवएज्जा । से तं पडिवाति ओहिणाणं ५। २६. से किं तमित्यादि । अथ किं तत् प्रतिपात्यवधिज्ञानम् ?, प्रतिपात्यवधिज्ञानं “जन्न"मिति 'यद्' अवधिज्ञानं 'जघन्येन' सर्वस्तोकतयाऽङ्गलस्यासङ्ख्येयभागमानं वा, उत्कर्षेण सर्वप्रचुरतया यावद् ‘लोकं दृष्ट्वा' लोकमुपलभ्य तथाविधक्षयोपशमजन्यत्वात् प्रतिपतेत् न भवेदित्यर्थः, तदेतत् प्रतिपात्यवधिज्ञानमिति क्रिया। शेषं प्रायो निगदसिद्धम् । नवरं 'पृथक्त्वमिति' द्विप्रभृतिः आ नवभ्य इति सिद्धान्तपरिभाषा। तथा हस्तद्वयं कुक्षिरुच्यते। 20 चत्वारो हस्ता धनुरिति । “से त"मित्यादि तदेतत् पतिपात्यवधिज्ञानम् ५॥ २७. से किं तं अपडिवाति ओहिणाणं ? अपडिवाति ओहिणाणं जेणं अलोगस्स एगमवि आगासपदेसं पासेज्जा तेण परं अपडिवाति ओहिणाणं । से तं अपडिवाति ओहिणाणं ६। २७. से किं तमित्यादि । अथ किं तदप्रतिपात्यवधिज्ञानम् ?, “जेणं" ति 'येन' अवधिज्ञानेनालोकस्य 25 सम्बन्धिनमेकमप्याकाशप्रदेशम् , अपिशब्दाद् बहून् वा 'पश्येत्' शक्त्यपेक्षयोपलभेत, एतावत्क्षयोशमप्रभवं यत् 'तत ऊर्ध्वमिति' तत आरभ्याप्रतिपाति आ केवलप्राप्तेरवधिज्ञानमिति । अयमत्र भावार्थः-एतावत्क्षयोपशमसम्पाप्तात्मा विनिहतप्रधानप्रतिपक्षयोधसङ्घात इव नरपतिर्न पुनः कर्मशत्रुगा परिभूयते, किं तर्हि ? समासादितैतावदालोक एवाप्रतिनिवृत्तः शेषमपि कर्मशत्रु विनिर्जित्याऽऽप्नोति केवलराज्यश्रियमिति। लोका-ऽलोकविभागस्त्वयम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy