________________
२८
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[सू. २५-२७ मुहूर्त्तमित्यर्थः, अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युच्यते । तथा कालतः ‘दिवसान्तः' भिन्नदिवसं पश्यन् क्षेत्रतः 'गव्यूते' इति गव्यूतविषयो बोद्धव्यः। तथा योजनविषयः क्षेत्रतोऽवधिः कालतो दिवसपृथक्त्वं पश्यति । तथा 'पक्षान्तः' भिन्न पक्षं पश्यन् कालतः पञ्चविंशतिं योजनानि पश्यतीति द्वितीयगाथार्थः ॥ ४८ ॥
तृतीयगाथाव्याख्या- 'भरते' इति क्षेत्रतो भरतविषयेऽवधौ कालतः अर्द्धमास उक्तः। एवं जम्बूद्वीप5 विषये चावधौ साधिको मासः । वर्ष च मनुष्यलोकविषयेऽवधाविति, मनुष्यलोकः खल्बर्द्धत्तीयद्वीप-समुद्रपरिमाणः । वर्षपृथक्त्वं च रुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीयगाथार्थः ॥ ४९॥
चतुर्थगाथाव्याख्या-सङ्ख्यायत इति सङ्ख्येयः, स च संवत्सरलक्षणोऽपि भवति । तुशब्दो विशेषणार्थः। किं विशिनष्टि ? सङ्खयेयो वर्षसहस्रात् परतोऽपि गृह्यत इति, तस्मिन् सङ्खयेये कलनं कालः तस्मिन् काले अवधे
गोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया द्वीपाश्च समुद्राश्च द्वीप-समुद्रा अपि भवन्ति सङ्खयेयाः । अपिशब्दाद् महा10 नेकोऽपि तदेकदेशोऽपीति । तथा 'कालेऽसङ्खयेये' पल्योपमादिलक्षणेऽवधेर्विषये सति तस्यैवासङ्ख्येयकालपरिच्छे
दकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीप-समुद्रास्तु भाज्याः कदाचिदसङ्ख्येया एव । यदा इह कस्यचिन्मनुष्यस्यासङ्खयेयद्वीप-समुद्रविषयोऽवधिरुत्पद्यत इति, कदाचिन्महान्तः सङ्खयेयाः, कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधिविज्ञेयः, स्वयम्भरमणविषयमनष्यबाह्यावधेर्वा, योजनापेक्षया च सर्वपक्षेष्वसङ्कयेयमेव क्षेत्रमिति गाथार्थः॥५०॥
एवं तावत् परिस्थूरन्यायमङ्गीकृत्य क्षेत्रद्धया कालवृद्धिरनियता, कालवृद्धथा च क्षेत्रवृद्धिः प्रतिपादिता । साम्प्रतं 15 द्रव्य-क्षेत्र-काल-भावापेक्षया यस्य वृद्धौ यस्य वृद्धिर्भवति यस्य वा न भवत्यमुमर्थमभिधित्सुराह -
काले० गाहा । व्याख्या-'काले' अवधिज्ञानगोचरे वर्द्धमाने 'चतुणां' द्रव्यादीनां वृद्धिर्भवति । कालस्तु 'भाज्यः' विकल्पयितव्यः क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्याम् , कदाचिद् वर्द्धते कदाचिन्नेति । कुतः? क्षेत्रस्य सूक्ष्मत्वात् , कालस्य च स्थूलखात् । द्रव्य-पर्यायौ तु वर्द्धते । सप्तम्यन्तता चास्य
ए होइ अयारंते पयम्मि बीयाए बहुसु पुल्लिंगे । तइयाइसु छट्ठी-सत्तमीण एक्कम्मि महिलत्थे ॥१॥ 20
अस्माल्लक्षणात् सिद्धति । एवमन्यत्रापि प्राकृतशैल्या इष्टविभक्त्यन्तता पदानामवगन्तव्येति । तथा वृद्धौ च द्रव्यं च पर्यायश्च द्रव्य-पर्यायौ तयोद्धौ सत्यां 'भाज्यौ' विकल्पनीयौ क्षेत्र-कालावेव, तुशब्दस्यैवकारार्थवात् , कदाचिदनयोईद्धिर्भवति कदाचिन्नेति, द्रव्य-पर्याययोः सकाशात् परिस्थूरत्वात् क्षेत्र-कालयोरिति भावार्थः । द्रव्य
वृद्धौ तु पर्याया वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्यम् , द्रव्यात् पर्यायाणां सूक्ष्मखाद् एकस्मिन् भावे 25 क्रमवर्तिनामपि च वृद्धिसम्भवात् कालवृद्धयभावो भावनीय इति गाथार्थः ॥५१॥ अत्र कश्चिदाह-जघन्य-मध्य
मोत्कृष्टभेदभिन्नयोरवधिज्ञानसम्बन्धिनोः क्षेत्र-कालयोरङ्गला-ऽऽवलिकाऽसङ्ख्येयभागोपलक्षितयोः परस्परतःप्रदेशसमयसङ्ख्यया परिस्थूर-सूक्ष्मत्वे सति कियता भागेन हीनाऽधिकत्वम् ? इति, अत्रोच्यते, सर्वत्र प्रतियोगिनः खल्वावलिकाऽसङ्ख्येयभागादेः कालादसङ्ख्येयगुणं क्षेत्रम् । कुत एतत् ? अत आह
सहुमो य० गाहा । व्याख्या-सूक्ष्मश्च-श्लक्ष्णश्च भवति कालः, यस्मादुत्पलपत्रशतभेदे समयाः प्रतिपत्र30 मसङ्ख्येयाः प्रतिपादिताः। तथापि ततः कालात् सूक्ष्मतरं भवति क्षेत्रम् । कुतः ?, यस्मादङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेश
परिमाणं प्रतिपदेशं समयगणनया अवसर्पिण्यः असङ्ख्येयास्तीर्थकृद्भिः प्रतिपादिताः। एतदुक्तं भवति-अङ्गुलश्रेणिमात्रक्षेत्रप्रदेशाग्रमसङ्ख्येयावसर्पिणीसमयराशिपरिमाणमिति गाथार्थः ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org