________________
२७
वर्द्धमानकावधिज्ञानम् ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । प्रसङ्गेनेति गाथार्थः ॥४५॥ एवं तावज्जघन्यमवधिक्षेत्रमुक्तम् । इदानीमुत्कृष्टविभागमभिधातुकाम आह
सव्वबहुअगणिजीवा० गाहा । व्याख्या- सर्वेभ्यः-विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः, न भूत-भविष्यद्भयो नापि शेषजीवेभ्यः । कुतः ? असम्भवात् । अग्नयश्च ते जीवाश्च अग्निजीवाः, सर्वबहवश्च ते अग्निजीवाश्च सर्वबह्वग्निजीवाः । निरन्तरमिति क्रियाविशेषणम् । 'यावद्' यावत्परिमाणं 'भृतवन्तः' व्याप्तवन्तः 'क्षेत्रम् ' आकाशम् । एतदुक्तं भवति-नैरन्तर्येण विशिष्टसूचिरचनया यावद् भृतवन्त इति । भूतकाल- 5 निर्देशश्च 'अजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्पिण्याम् ' इत्यस्यार्थस्य ख्यापनार्थम् । इदमनन्तरोदितविशेषणं क्षेत्रमेकदिक्कमपि भवति अत आह-सर्वदिकम् , अनेन सूचीपरिभ्रमणप्रमितमेवाह । परमश्वासाववधिश्च परमावधिः क्षेत्रम्-अनन्तरव्यावणितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत् क्षेत्रमित्युक्तं भवति । अथवा सर्वबदग्मिजीवा निरन्तरं यावद् भृतवन्तः क्षेत्रं सर्वदिकं एतावति क्षेत्रे यानि अवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रम- 10 ङ्गीकृत्य निर्दिष्टः, भावार्थस्तु पूर्ववदेव । अयमक्षरार्थः । इदानीं साम्प्रदायिकः प्रतिपाद्यते-तत्र सर्वबदग्निजीवा बादराः प्रायोऽजितस्वामितीर्थकरकाले भवन्ति, तदारम्भकपुरुषबाहुल्यात्, सूक्ष्माश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति, तेषां च बुद्धया पोढाऽवस्थानं कल्प्यते-एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्रो घनः प्रथमम् १, स एव जीवः स्वावगाहनया द्वितीयम् २, एवं प्रतरोऽपि द्विभेदः ३-४, श्रेण्यपि द्विभेदा ५-६, तत्राऽऽद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् कचित् समयविरोधाच्च, षष्ठपकारस्तु सूत्रादेश इति। 15 ततश्चासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा चासङ्ख्येयानलोके लोकमात्रान् क्षेत्रविभागान् व्याप्नोति एतावदधिक्षेत्रमुत्कृष्टमिति । सामर्थ्यमङ्गीकृत्यैवं प्ररूप्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति पश्यति, न त्वलोके द्रष्टव्यमस्तीति गाथार्थः ॥४६॥ एवं तावज्जघन्यमुत्कृष्टं चावधिक्षेत्रमभिहितम् । इदानीं विमध्यमप्रतिपिपादयिषया एतावत्क्षेत्रोपलम्भे चैतावत्कालोपलम्भः तथा एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रदर्शनाय चेदं गाथाचतुष्टयं जगाद शास्त्रकारः
अंगुलमावलियाणं गाहा । हत्थम्मि० गाहा । भरहम्मि० गाहा । संखेन्जम्मि उ० गाहा । आसां व्याख्या-'अङ्गुलं' क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते, अवध्यधिकाराच्चोच्छ्याङ्गुलमित्येके । आवलिकाअसङ्खयेयसमयसङ्घातोपलक्षितः कालः, उक्तं च-“असंखेयाणं समयाणं समुदयसमितिसमागमेणं एगा आवलिग त्ति बुच्चइ" [अनुयो० सूत्रं १३८ पत्रं १७८-२] अङ्गुलं च आवलिका च अङ्गुला-ऽऽवलिके तयोरगुला-ऽऽवलिकयोर्भागमसङ्खथेयं पश्यति अवधिज्ञानी । एतदुक्तं भवति-क्षेत्रमङ्गलासङ्खयेयभागमात्रं पश्यन् कालत आवलिका- 25 या असङ्खयेयमेव भागं पश्यति अतीतमनागतं चेति । क्षेत्रकालदर्शनमुपचारेणोच्यते, अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायांश्च विवक्षितकालान्तर्वर्तिनः पश्यति, न तु क्षेत्र कालौ, मूर्तद्रव्यालम्बनत्वात् , एवं सर्वत्र भावना द्रष्टव्या । क्रिया च गाथाचतुष्टयेऽप्यध्याहार्या । तथा 'द्वयोः' अगुला-ऽऽवलिकयोः सङ्ख्येयौ भागौ पश्यति, अङ्गुलसङ्ख्येयभागमात्रं क्षेत्रं पश्यन्नावलिकायाः सङ्खयेयभागमेव पश्यतीत्यर्थः। तथा अगुलं पश्यन् क्षेत्रत आवलिकान्तः पश्यति, भिन्नामावलिकामित्यर्थः । तथा कालत आवलिकां पश्यन् क्षेत्रतोऽङ्गुलपृ- 300 थक्त्वं पश्यति, पृथक्त्वं हि द्विप्रभृतिरानवभ्यः । इति प्रथमगाथार्थः ॥४७॥
द्वितीयगाथाव्याख्या-'इस्ते' इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहूर्तान्तः पश्यति, भिन्न
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org