________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलकृतं [सू. २४ गा. ५१-५२ काले चउण्ह वुड्डी, कालो भइयव्वु खेत्तवुड्डीए । वुड्डीए दव्व-पज्जव भइयवा खेत्त-काला उ ॥५१॥
सुहुमो य होइ कालो, तत्तो सुहुमयरयं हवइ खेत्तं । ___ अंगुलसेढीमेत्ते ओसप्पिणिओ असंखेज्जा ॥५२॥ से तं वड्डमाणयं ओहिणाणं ३।
२४. से किं तमित्यादि । अथ किं तद् वर्द्धमानकम् ? 'वर्द्धमानक' वर्द्धमानमेव वर्द्धमानकं प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य वर्तमानचारित्रस्य । इहौघतो द्रव्यलेश्योपरञ्जितं चित्तमध्यवसायस्थानमुच्यते, अस्य चानवस्थितत्वात् तद्रव्यसाचिव्ये सति विशेषभावाद् बहुत्वमिति । तत्र 'प्रशस्तेषु' इत्यनेनाप्रशस्तकृष्णलेश्यादिद्रव्योपरञ्जितव्यवच्छेदमाह । अध्यवसायस्थानेषु वर्तमानस्य, प्रशस्ताध्यवसायस्येत्यर्थः, 'सर्वतः' समन्तादवधिः 10 परिवर्द्धत इति योगः, अनेनाविरतसम्यग्दृष्टेरपि वर्द्धमानक उक्तो वेदितव्यः । वर्तमानचारित्रस्येत्यनेन तु देशविरत
सर्वविरतयोरिति । 'विशुध्यमानस्य' तदावरणकर्ममलविगमादुत्तरोत्तरं शुद्धिमनुभवतः अविरतसम्यग्दृष्टेरेव, अनेनावधेः शुद्धिजन्यत्वमाह, विशुध्यमानचारित्रस्य देश-सर्वविरतस्य सर्वतः समन्तादवधिः परिवर्द्धत इति, ततः परिवर्द्धत इत्युक्तम् ।। अथ सर्वजघन्योऽयं कियत्प्रमाणो भवति ? इति प्रश्नसम्भवे क्षेत्रतः प्रतिपादयन्नाह
जावइया० गाहा । व्याख्या-'यावती' यावत्पमाणा, आहारयतीत्याहारकः, त्रिसमयं आहारकः त्रिसमया15 हारकः, त्रीन् वा समयानिति तस्य । सूक्ष्मनामकर्मोदयात् सूक्ष्मस्तस्य । पनकश्चासौ जीवश्च पनकजीवः, वनस्पतिविशेष इत्यर्थः, तस्य । अवगाहन्ते यस्यां प्राणिनः सा अवगाहना, तनुरित्यर्थः । 'जघन्या' सर्वस्तोका । अवधेः क्षेत्रं अवधिक्षेत्रम् । 'जघन्यं' सर्वस्तोकम् । तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः-अवधिक्षेत्र जघन्यमेतावदेवेति । अत्र च सम्प्रदायसमधिगम्योऽयमर्थः
योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि' सूक्ष्मः पनकत्वेनेह स ग्राह्यः ॥१॥ 20 संहृत्य चाऽऽद्यसमये स ह्यायामं करोति च प्रतरम् । सङ्ख्यातीताख्याङ्गुलविभागवाहल्यमानं तु ॥२॥
स्वकतनुपृथुत्वमानं दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥३॥ सङ्ख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदैर्ध्या तृतीयसमये तु संहृत्य ॥ ४ ॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्याऽवगाहना यावती भवति ॥५॥ तावज्जघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदायात् समवसेयम् ॥६॥
अत्र कश्चिदाह-किमिति महान मत्स्यः? किंवा तस्य ततीयसमये निजदेहदेशे समत्पादः त्रिसमयाहारकत्वं वा कल्प्यते? इति, अत्रोच्यते, स एव हि महामत्स्यस्त्रिभिः समयैरात्मानं सङ्क्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्यः; प्रथम-द्वितीयसमययोश्चातिसूक्ष्मः, चतुर्थादिषु चातिस्थूरः, त्रिसमयाहारक एव च तद्योग्य इत्यतस्तद्ग्रहणमिति । अन्ये तु व्याचक्षते-त्रिसमयाहारक इति आयामविष्कम्भ संहारसमयद्वयं सूचिसंहरणोत्पा
दसमयश्चैते त्रयः समयाः, विग्रहाभावाचाऽऽहारक एतेष्वित्यत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो 30 जघन्यावगाहनश्च, अतस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तम् , त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात् , मत्स्यायाम-विष्कम्भसंहरणसमयद्वयस्य च पनकसमयायोगात् त्रिसमयाहारकत्वाख्यविशेषणानुपपत्तिप्रसङ्गात् । अलं
१. हि पनका सूक्ष्मत्वेनेह मलयगिरिवृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org