________________
द्रव्याद्यवधिज्ञानं मनःपर्यवज्ञानं तदधिकारी च ] श्रीदेववाचकविरचितं नन्दिसूत्रम् । परमाणु-द्वयणुकादिद्रव्यभेदात् । क्षेत्रतः' इति क्षेत्रविषया अङ्गुलासङ्खयेयभागादिविशिष्टक्षेत्रभेदात् । 'कालतः' इति कालविषयाः आवलिकासङ्ख्येयभागाद्युपलक्षितकालभेदात् । चशब्दाद् भावविषयाश्च, वर्णाद्यनेकपकारत्वाद् भावानामिति गाथार्थः ॥५३॥ एवं तावदवधिज्ञानमभिधाय साम्पतं ये बाह्यावधयो ये चाभ्यन्तरावधयो भवन्ति तानुपदर्शयन्नाह
णेरतिय-देव-तित्थंकरा य ओहिस्सऽबाहिरा होति ।
पासंति सवओ खलु सेसा देसेण पासंति ॥५४॥ से तं ओहिणाणं ।
णेरइय० गाहा । व्याख्या नारकाश्च देवाश्च तीर्थकराश्चेति समासः । चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः प्रयोग इति दर्शयिष्यामः। एते नारकादयः 'अवधेः' अधिज्ञानस्य न बाह्या अबाह्या भवन्ति । इदमत्र हृदयम्-अवध्युपलब्धक्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात्, प्रदीपवत् , अबाह्यावधय एव भवन्ति, नैषां 10 बाह्यावधिर्भवतीत्यर्थः । तथा पश्यति 'सर्वतः' सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽप्येवकारार्थः, स चावधारणे, सर्वास्वेव दिक्ष्विति । आह-'अधेिरवाह्या भवन्ति' इत्यस्मादेव सर्वत इत्यस्य सिद्धखात् सर्वतोग्रहणमतिरिच्यते ? इति, अत्रोच्यते, नन्वभ्यन्तरत्वे सत्यपि न सर्वे सर्वतः पश्यन्ति, दिगन्तरालादर्शनाद्, अवधेविचित्रखात् , अतो नातिरिच्यत इति । 'शेषाः' तिर्यग् नराः 'देशेनेति' एकदेशेन पश्यन्ति, अत्रेष्टितोऽवधारणविधिः, शेषा एव देशतः पश्यन्ति, न तु देशत एवेति गाथार्थः ।। अथवाऽन्यथा व्याख्यायते-एवं तावदवधिज्ञानमभिधाय साम्प्रतं ये 15 नियतावधयो ये चानियतावधयो भवन्ति तान् प्रतिपादयन्नाह
नेरइय० गाहा। व्याख्या-नारका देवास्तीर्थकरा एवावधेरवाह्या भवन्ति । किमुक्तं भवति?-नियतावधयो भवन्ति, नियमेनैषामवधिर्भवतीत्यर्थः, तेन चावधिना पश्यन्ति सर्वत एव, न पुनर्देशतोऽपि । अत्राऽऽह-'पश्यन्ति सर्वत एव' इत्येतावदेवास्तु, 'अवधेरवाद्या भवन्ति' इत्येतत् त्वनर्थकम् , नियतावधित्वस्यार्थसिद्धत्वात् , तथा चोक्तम्-" द्वयोर्भवप्रत्ययः, तद्यथा-देवानां च नारकाणां च" [सुत्त १३] इति, अतोऽर्थगम्यमेवैषां नियतावधि- 20 त्वम् , तीर्थकृतामपि प्रसिद्धतरपारभविकावधिसमन्वागमादेव नियतावधित्वसिद्धिरिति, अत्रोच्यते, नियतावधित्वे सिद्धेऽपि न सर्वकालावस्थायित्वसिद्धिरित्यतस्तत्प्रदर्शनार्थम् 'अवधेरवाह्या भवन्ति' इति सदाऽवधिज्ञानवन्तो भवन्ति इति ज्ञापनार्थत्वाददुष्टम् । यद्येवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति, न, छद्मस्थकालस्यैव विवक्षितत्वात् , अलं विस्तरेण । शेषं पूर्ववदिति गाथार्थः ।। ५४ ॥
" से तं ओहिणाणं" ति तदेतदवधिज्ञानम् ॥
३०. [१] से किं तं मणपज्जवणाणं ? मणपज्जवणाणे णं भंते ! कि मणुस्साणं उप्पज्जइ अमणुस्साणं? गोयमा! मणुस्साणं, णो अमणुस्साणं । [२] जइ मणुस्साणं किं सम्मुच्छिममणुस्साणं गम्भवकंतियमणुस्साणं ? गोयमा ! णो सम्मुच्छिममणुस्साणं, गब्भवतियमणुस्साणं। [३] जइ गब्भवतियमणुस्साणं किं कम्मभूमगगब्भवकंतियमणुस्साणं अकम्मभूमगगन्भवतियमणुस्साणं अंतरदीवगगम्भवकंतियमणु- 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org