________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[सू. ६-७ गा. ३६-४४ मिउ-मद्दवसंपण्णे अणुपुचि वायगत्तणं पत्ते ।।
ओहसुयसमायरए णागज्जुणवायए वंदे ।। ३६ ।। मिउ० गाहा । व्याख्या- मृदु-मार्दवसम्पन्नान् , उपलक्षणखान्मृदुखस्य कान् [सम्पन्नान् ] ? क्षमा-मार्दवा-- जैव-सन्तोषसम्पन्नानित्यर्थः । 'आनुपूर्व्या' वयः-पर्यायकालगोचरया वाचकत्वं प्राप्तान् । 5 ऐदंयुगीनानामपि सामाचारीप्रदर्शनपरमेतत् , न चापुष्टं द्वितीयपदमाश्रित्यैदंयुगीनानामपि युज्यते कालोचितानुपूर्वी विहाय क्वचिदप्याचार्यत्वाद्यारोपणम् , महापुरुषाणां गौतमादीनामाशातनाप्रसङ्गात् , कृतं प्रसङ्गेन, संसार एव दण्डो भगवदाज्ञावितथकारिणामिति ।
'ओघश्रुतसमाचरकान् ' ओघश्रुतं-उत्सर्गश्रुतं तत् समाचरन्ति ये ते तथाविधास्तान् नागार्जुनवाचकान् वन्दे इति गाथार्थः ॥ ३६॥
वरकणगतविय-चंपयविमउलवरकमलगब्भसविण्णे । भवियजणहिययदइए दयागुणविसारए धीरे ॥३७॥ अड्ढभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अणुओइयवखसहे णाइलकुलवंसणंदिकरे ॥ ३८॥ भूअहिययप्पगन्भे वंदे हं भूयदिण्णमायरिए ।
भवभयवोच्छेयकरे सीसे णागज्जुणरिसीणं ॥ ३९ ॥ [ विसेसयं ] वरकणग० गाहा । अड्ढ० गाहा । भूअहियय० गाहा । व्याख्या-इदं गाथात्रयमपि प्रायो निगदसिद्धमेव । नवरम्-'भव्यजनहृदयदयितान्' भव्यजनहृदयवल्लभान् ॥ तथा सुविज्ञातबहुविधस्वाध्यायप्रधानान् , बहुविध आचारादिभेदात् स्वाध्यायः । अनुयोजिता यथोचिते वैयावृत्यादौ वरषभाः-सुसाधवो यैस्तान् । नागेन्द्र
कुलवंशनन्दिकरानिति, प्रमोदकरानित्यर्थः॥ 'भूतहितप्रगल्भान्' अनेकधा सत्त्वहितनिपुणानिति भावः । 20 वन्देऽहं भूतदिन्नाचार्यानिति, अत्रानुस्खारोऽलाक्षणिकः । 'भवभयव्यवच्छेदकरान्' इति सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् ॥ ३७ ॥ ३८ ॥ ३९ ॥
सुमुणियणिचा-ऽणिचं सुमुणियसुत्त-ऽत्थधारयं णिचं ।
वंदे हं लोहिचं सम्भावुभावणातचं ॥ ४०॥ सुमुणिय० गाहा । व्याख्या-भूतदिन्नाचार्यशिष्यं "वंदेहं लोहिच्चं" इति क्रिया । किम्भूतम् ? सुष्ठु विज्ञातं 25 नित्या-ऽनित्यं येन स तथाविधस्तम् । किं विज्ञातम् ?, विशेषणान्यथाऽनुपपत्तेः वस्तु इति गम्यते, यथा 'सवत्सा धेनुः' इत्युक्ते गौः, वडवाया विशेषणायोगादिति । तच्च वस्तु सचेतनाऽचेतनम् । तत्र सचेतनमात्मा, चेतनखाघपेक्षया नित्यः, नारक तिर्य नरा-ऽमरपर्यायापेक्षया चानित्यः । एवमचेतनमप्यण्वादि विज्ञातव्यम् , तथाहिपरमाणुरजीवन-मूर्तखादिभिर्नित्यः, वर्णादिभिद्वर्येणुकादिभिस्खनित्य इति । उक्तं चसर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यखमथ च न विशेषः । सत्योश्चित्यपचित्योराकृति-जातिव्यवस्थानात् ॥१॥
] इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org