________________
स्थविरावलिका ]
श्रीदेववाचकविरचितं नन्दिसूत्रम् । निभानामित्यर्थः । रत्नविशेषः कुवलयमित्यन्ये, तथाऽप्यविरोधः । वर्द्धतां वाचकवंशः । केषाम् ? आर्यनागहस्तिशिष्याणां 'रेवतिनक्षत्रनाम्नां' रेवतिवाचकानामिति गाथार्थः ।। ३१ ॥
अयलपुरा णिक्खंते कालियसुयआणुओगिए धीरे ।
बंभद्दीवग सीहे वायगपयमुत्तमं पत्ते ॥ ३२ ॥ अयलपुरा० गाहा । व्याख्या-अचलपुराद निष्क्रान्तान् । कालिकश्रुतानुयोगेन नियुक्ताः कालिकश्रुतानु- 5 योगिकास्तान् , यद्वा कालिकश्रुतानुयोग एषां विद्यत इति समासस्तान् कालिकश्रुतानुयोगिनः । 'धीरान्' स्थिरान् । — ब्रह्मद्वीपिकान् सिद्धान्' ब्रह्मद्वीपिकाशाखोपलक्षितान् सिङ्घाचार्यान् रेवतिवाचकशिष्यान् । वाचकपदं तत्कालापेक्षया 'उत्तम' प्रधान प्राप्तानिति गाथार्थः ॥ ३२ ॥
जेसि इमो अणुओगो पयरइ अज्जा वि अड्ढभरहम्मि ।
बहुनगरनिग्गयजसे ते वंदे खंदिलायरिए ॥३३॥ जेसि० गाधा । व्याख्या-येपामयमनुयोगः प्रचरति अद्याप्यभरते वैताढ्यादारतः । बहुनगरेषु निर्गतंप्रसिद्धं यशो येषां ते बहुनगरनिर्गतयशसः तान् वन्दे सिङ्घवाचकशिष्यान् स्कन्दिलाचार्यान् ।
कहं पुण तेसिं अणुओगो ?, उच्यते, बारससंवच्छरिए महन्ते दुभिक्खे काले भत्तट्ठा फिडियाणं गहण-गुणण-ऽणुप्पेहाऽभावतो सुत्ते विप्पणढे पुणो सुभिक्खे काले जाते महुराए महन्ते समुदए खंदिलायरियप्पमुहसंघेण 'जो जं संभरइ' त्ति एवं संघडितं कालियसुयं । जम्हा एयं महुराते 15 कयं तम्हा माहुरा वायणा भन्नति । सा य खंदिलायरियसम्मत त्ति काउं तस्संतिओ अणुओगो भण्णति ।
अन्ने भणंति जहा- सुयं णो णटुं, तम्मि दुभिक्खकाले जे अन्ने पहाणा अणुओगधरा ते विणट्ठा । एगे खंदिलायरिए संघरे । तेण महुराए पुणो अणुओगो पवत्तिओ त्ति माहुरा वायणा भन्नइ । तस्संतिओ य अणुओगो भण्णइ त्ति गाथार्थः ॥३३॥
तत्तो हिमवंतमहंतविक धीपरकममणंतं ।
सज्झायमणंतधरं हिमवंतं वंदिमो सिरसा ॥३४॥ तत्तो० गाहा । व्याख्या-ततः स्कन्दिलाचार्यशिष्यं हिमवन्तं वन्दे शिरसेति क्रिया । किम्भूतम् ? 'हिमवन्महाविक्रम' हिमवत इव महाविक्रमः-विहारव्याप्त्यादिलक्षणो यस्य स तथाविधस्तम् । “धीपरकममणतं" ति अनन्तधृतिपराक्रमम् , प्राकृतशैल्या तु अन्यथोपन्यासः, अनन्तः धृतिप्रधानः पराक्रमः-कर्मशत्रुजयो यस्य स तथा- 25 विधस्तम् । “सज्झायमणंतधरं" ति 'अनन्तस्वाध्यायधरं' धरतीति धरः, अनन्तगम-पर्यायवादनन्तं-सूत्रम् , तद्विषयः स्वाध्यायस्तस्य धर इति समासः तमिति गाथार्थः ॥ ३४ ॥
कालियसुयअणुओगस्स धारए धारए य पुवाणं ।
हिमवंतखमासणे वंदे णागज्जुणायरिए ॥ ३५॥ कालिय० गाहा । व्याख्या-कालिकश्रुतानुयोगस्य धारकान् । धारकांश्च 'पूर्वाणां' उत्पादादीनाम् । हिम- 30 वक्षमाश्रमणान् वन्दे । तथैतच्छिष्यानेव वन्दे नागार्जुनाचार्यानिति गाथार्थः ॥ ३५॥ किम्भूतान् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org