________________
श्रीहरिभद्रसूरिसूत्रितया वृत्या समलङ्कृतं ... [सू. ६ गा. २८-३५ समुद्रेषु गृहीतप्रमाणं' अतिशयेन द्वीपसागरप्रज्ञप्तिविज्ञायकमिति भावः । अक्षुभितसमुद्रवद् गम्भीरो अक्षुभितसमुद्रगम्भीरः अतस्तमिति गाथार्थः ॥ २७ ॥
भणगं करगं झरगं पभावगं णाण-दंसणगुणाणं ।
वंदामि अज्जमंगुं सुयसागरपारगं धीरं ॥२८॥ 5 भणगं० गाहा। व्याख्या-आर्यसमुद्रशिष्यं वन्दे आर्यमङ्गुमिति योगः। किम्भूतम् ?-'भणकं' कालिकादि
सूत्रार्थ भणतीति भणः, स एव प्राकृतशैल्या भणकस्तम् । 'कारकं' कालिकादिसूत्रोक्तमेवोपधिप्रत्युपेक्षणादिक्रियाकलापं करोतीति कारकस्तम् । 'ध्यातारं' धर्मध्यानं ध्यायतीति ध्याता तम् । इहौघतः कारकमित्युक्ते प्रधानपरलोकाङ्गताख्यापनार्थ ध्यानस्य ध्यातारमिति विशेषाभिधानम् । यत इत्थम्भूतोऽत आह-प्रभावकं 'ज्ञान-दर्शन
गुणानां' यथावस्थितपदार्थावबोधादीनाम् , एकग्रहणात् तज्जातीयग्रहणात् चरणपरिग्रहः । श्रुतसागरपारगं धीर10 मिति गाथार्थः ॥ २८॥
णाणम्मि दंसणम्मि य तव विणए णिच्चकालमुज्जुत्तं ।
अज्जाणंदिलखमणं सिरसा वंदे पसण्णमणं ।। २९॥ णाणम्मि० गाहा । व्याख्या- आर्यमङ्गुशिष्यं आर्यनन्दिलक्षपणं शिरसा वन्दे प्रसन्नमनसम् । किम्भूतम् ?ज्ञाने दर्शने च तपसि विनये च, अनेन चरणमाह । नित्यकालं 'उद्युक्तं' अप्रमादिनमिति गाथार्थः ॥ २९ ॥
वड्ढउ वायगवंसो जसवंसो अज्जणागहत्थीणं ।।
वागरण-करण-भंगिय-कम्मप्पयडीपहाणाणं ॥३०॥ वड्ढउ० गाहा । व्याख्या-'वर्द्धता' वृद्धिमुपयातु । कोऽसौ ? 'वाचकवंशः' तत्र विनेयेभ्यः पूर्वगतं सूत्रमन्यच्च वाचयन्तीति वाचकाः तेषां वंशः-भाविपुरुषपर्वप्रवाहः । किम्भूतः ? यशोवंशः, अनेन विपक्षव्यवच्छेदमाह ।
तथाहि-अलमयशःप्रधानस्य संसारहेतोः परममुनिविधृतलिङ्गविडम्बकस्य वृद्धयेति । केषां सम्बन्धिसम्भूतः ? आर्य20 नन्दिलक्षपणशिष्याणां आर्यनागहस्तिनाम् । किम्भूतानाम् ? 'व्याकरण-करण-भङ्गिक कर्मप्रकृतिप्रधानानां' तत्र व्याकरणं-प्रश्नव्याकरणं शब्दप्राभृतं वा, करणं-पिण्डविशुद्धयादि, उक्तं च
पिंडविसोही ४ समिती ५ भाषण १२ पडिमा १२ य इंदियणिरोहो ५।
पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चेव करणं तु |॥ १॥ [ओघनि. गा. ३] भङ्गिकाः-चतुर्भङ्गिकाद्यास्तच्छूतं वा, कर्मप्रकृतिः प्रतीता, एतेषु प्ररूपणामधिकृत्य प्रधानानामिति 25 गाथार्थः ॥ ३०॥
जचंजणधाउसमप्पहाण मुद्दीय-कुवलयनिहाणं ।
वड्ढउ वायगवंसो रेवइणक्खत्तणामाणं ॥ ३१ ॥ जच्चंजणधाउसमप्पहाण गाहा । व्याख्या-जात्यश्वासावञ्जनधातुश्चेति समासः, तत्समा प्रभा-देहच्छाया येषां ते तथाविधास्तेषाम्। मा भूदत्यन्तकृष्णसम्पत्ययस्तत आह-'मुद्रिका-कुवलयनिभानां' पक्कसरसद्राक्षा-नीलोत्पल
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org