________________
तीर्थकर - गणधर - जिनशासनस्तव - स्थविरावल्यः ]
श्रीदेववाचकविरचितं नन्दिसूत्रम् ।
११
६. सुधम्मं० गाहा । व्याख्या - इह स्थविरावलिका सुधर्मस्वामिनः प्रवृत्ता । उक्तं च - " तित्थं च सुधम्माओ णिरवच्चा गणहरा सेसा । " [ ] इति । अतस्तमेव पुरस्कृत्येयं प्रतिपाद्यते - सुधर्मं भगवद्गुणघरं ‘अग्निवेशायनं' इति अग्निवैशायनसगोत्रम् । तथा तच्छिष्यं जम्बूनामानं च ' काश्यपं ' काश्यपगोत्रम् । तस्मात् ' प्रभवं ' तच्छिष्यं प्रभवनामानं 'कात्यायनं' इति कात्यायनसगोत्रम् । वन्दे इति क्रिया प्रत्येकमभिसम्बध्यते । तथा तच्छिष्यं “ वच्छं” इति वत्ससगोत्रं शय्यम्भवं तथेति गाथार्थः ॥ २३ ॥
जसभदं तुंगियं वंदे संभूयं चेव माढरं ।
भद्दबाहुं च पाइणं थूलभदं च गोयमं ॥ २४ ॥
जसभ६० गाहा । व्याख्या- ' शय्यम्भव शिष्यं यशोभदं तुङ्गिकं ' इति तुङ्गिकगणं - यात्रापत्यसगोत्रं वन्दे । अस्य द्वौ प्रधानशिष्यौ बभूवतुः, तद्यथा - सम्भूतविजयो माढरसगोत्रः, भद्रबाहुश्च प्राचीनसगोत्र इति । तथा चाह-सम्भूतं चैव माढरं भद्रबाहुं च प्राचीनमिति । तत्र सम्भूतस्य विनेयः स्थूलभद्रो गौतमसगोत्र आसीत् । आह च-स्थूलभद्रं च गौतम - 10 मिति गाथार्थः ॥ २४ ॥
एलावचसगोतं वंदामि महागिरिं सुहत्थि च । तत्तो कोसियगोत्तं बहुलस्स सरिख्वयं वंदे ॥ २५ ॥
एलावच्चस ० गाहा । व्याख्या - स्थूलभद्रस्यापि द्वावेव प्रधानशिष्यौ । तद्यथा - एलापत्यसगोत्रो महागिरिः वशिष्ठसगोत्रः सुहस्ती च । यत आह - एलापत्यसगोत्रं वन्दे महागिरिं सुहस्तिनं च । तत्र सुहस्तिनः सुस्थित-सुप्रतिबुद्धा 15 दिक्रमेणाऽऽवलिका यथा दसासु [अ० ८ सू० २१० ] तथव द्रष्टव्या, न तयेहाधिकारः, महागिर्यावलिकयेहाधिकारः। तत्र महागिरेर्बहुल-बलिरसह कौशिकसगोत्री यमलभ्रातरौ द्वौ प्रधानशिष्यौ बभूवतुः। तयोरपि बलिस्सहः मावचनीय आसीत्, अत आह - ततः कौशिकगोत्रं बहुलस्य सदृशवयसं यमलत्वात्, वन्द इति गाथार्थः ॥ २५ ॥ हारियगोतं साईं च वंदिमो हारियं च सामज्जं । वंदे कोसियगोत्तं संडिल्लं अज्जजीयधरं || २६ ||
हारिय० गाहा । व्याख्या - चलिरसह शिष्यं हारीतसगोत्रं स्वातिं च वन्दे । तथा स्वातिशिष्यं 'हारीतं च' हारीतसगोत्रमेत्र श्यामार्यम् । [श्यामार्य ]शिष्यं च वन्दे कौशिकसगोत्रं शाण्डिल्यम् । किम्भूतम् ? आर्यजीतधरं आराद् यातं सर्वहेयधर्मेभ्य इत्यार्यम्, जीतमिति-सूत्रम्, जीतं मर्यादा व्यवस्था स्थितिः कल्प इति पर्यायाः, मर्यादादिकारणं च सूत्रमिति भावनीयम्, धारयतीति धरः, आर्यजीतस्यः धरः आर्यजीतधरः तम् । अन्ये तु व्याचक्षते - किल शाण्डिल्यस्य शिष्यः आर्यसगोत्रो जीतधरनामा सूरिरासीदिति गाथार्थः ॥ २६ ॥
Jain Education International
तिसमुद्दखाय किर्ति दीव-समुद्देसु गहियपेयालं ।
वंदे अज्जसमुदं अक्खुभियसमुद्दगंभीरं ॥ २७ ॥
तिसमुद्द० गाहा । व्याख्या - शाण्डिल्यशिष्यं वन्दे, आर्यसमुद्रमिति क्रिया । किम्भूतम् ? ' त्रिसमुद्रख्यात - कीर्ति' पूर्व-दक्षिणा परास्त्रयः समुद्राः उत्तरतस्तु हिमवान् वैताढ्यो वेति, अत्रान्तरे प्रथितकीर्तिमित्यर्थः । ' द्वीप
5
For Private Personal Use Only
20
25
www.jainelibrary.org