________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं [ सू. ३-६ गा. १८-२७
[सुत्तं ३] वंदे उसभं अजिअं संभवमभिणंदणं सुमति सुप्पभ सुपासं । ससि पुष्पदंत सीयल सिज्जंसं वासुपुज्जं च ॥ १८ ॥ विमलमणंतइ धम्म संति कुंथु अरं च मल्लिं च ।
मुणिसुव्वय णमि णेमी पासं तह वद्धमाणं च ॥ १९ ॥ [ जुम्मं ] ३. वंदे० गाहा । विमल० गाहा । गाथाद्वयमपि निगदसिद्धम् ॥ १८ ॥ १९ ॥ गणधरावलिका तु या यस्य तीर्थकृतः सा प्रथमानुयोगानुसारेण द्रष्टव्येति । महावीरवर्द्धमानस्य पुनरियम्
[सुत्तं ४] पढमेत्थ इंदभूई बीओ पुण होइ अग्गिभूइ ति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥२०॥ मंडिय-मोरियपुत्ते अकंपिए चेव अयलभाया य ।
मेयज्जे य पभासे य गणहरा हुँति वीरस्स ॥ २१ ॥ [ जुम्म ] ॥ २० ॥ २१ ॥ साम्पतं वर्तमानतीर्थाधिपतेः स्थविरावलिका प्रतिपादयन्नतिशयभक्त्या सामान्यतस्तच्छासनस्तवं प्रतिपादयभाह
[सुत्तं ५] णेवुइपहसासणयं जयइ सया सव्वभावदेसणयं ।
कुसमयमयणासणय जिणिदवखीरसासणयं ॥ २२ ॥ ५. निव्वुइपह० रूपकम् । अस्य व्याख्या-नितिपथशासनकमिति, अत्र यद्यपि सम्यग्दर्शन-ज्ञान-चारित्राणि निर्वाणमार्गस्तथाप्यनेन दर्शन-चरणपरिग्रहः,यत आह-जयति सदा 'सर्वभावदेशनकं' सर्वभावप्ररूपकमित्यर्थः, 20 अनेन तु ज्ञानपरिग्रहः । अथवा 'नितिपथशासनकम् ' इन्यनेन सम्पूर्णनिर्वाणमार्गकथनमेवेति गृह्यते, 'जयति
सदा सर्वभावदेशनकम् ' इत्यनेन तु विधि-प्रतिषेधद्वारेण 'न निर्वृतिमार्गव्यतिरेकेण किश्चिदस्ति' इति ख्याप्यते । यत एवम्भूतमत एव 'कुसमयमदनाशनकं' कुसिद्धान्तावलेपनाशनकमित्यर्थः। 'जिनेन्द्रवरवीरशासनकं' चरमतीर्थकरप्रवचनमिति हृदयम् । अयं रूपकार्थः ॥२२॥ अधुना यैरविच्छेदेन स्थविरैः क्रमेणैर्दयुगीनानामानीतं तदावलिका प्रतिपादयन्नाह
[सुत्तं ६] सुहम्मं अग्गिवेसाणं जंबूणामं च कासवं । पभवं कच्चायणं वंदे वच्छं सेज्जंभवं तहा ॥ २३॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org