________________
सङ्घस्तुतिः ]
श्रीदेववाचकविरचितं नन्दिसूत्रम् । इह च सङ्घमन्दरगिरेः सन्तोष एव नन्दनवनम् , तथाहि-नन्दन्ति तत्र साधव इति, तदेव विविधामषौंषध्यादिलब्ध्युपपेतखान्मनोहरं तस्य सुरभिशीलगन्ध एवेति, अथवा मनोहरत्वं सुरभिशीलगन्धविशेषणमिति गाथार्थः ॥ १३ ॥
जीवदया० गाहा । व्याख्या-जीवदयव सुन्दराणि स्व-परनितिहेतुत्वात् कन्दराणि वस्तुतस्तपस्विनिलयत्वात् , तथाहि-"अहिंसाव्यवस्थितः तपस्वी" [
] इति, मुनिवरा एव शाक्यादिमृगपराजयान्मृगेन्द्राः मुनिवरमृगेन्द्राः, उत्-प्रावल्येन दर्पिताः उद्दर्पिताः कर्मशत्रुजयं प्रति, उद्दर्पिताश्च ते मुनिवरमृगेन्द्राश्चेति 5 विशेषणसमासः, जीवदयासुन्दरकन्दरेषु उद्दर्पितमुनिवरमृगेन्द्रास्तैः आकीर्णः-व्याप्तो यस्तस्येति । ' हेतुशत' इत्यादि, प्रगलन्ति च तानि रत्नानि च प्रगलद्रत्नानि, निस्यन्दवन्ति चन्द्रकान्तादीनि परिगृह्यन्ते, धातवः-कनकादिधातवो गृह्यन्ते, धातवश्व प्रगलद्रत्नानि च धातु-प्रगलद्रत्नानि, दीप्ताश्च ता औषधयश्च दीप्तौषधयः, धातुप्रगलद्रत्नानि च दीप्तौषधयश्च धातु-प्रगलद्रत्न-दीप्तौषधयः, ताः गुहासु यस्य स तथोच्यते । इह च सङ्घमन्दरगिरौ हेतुशतान्येव धातवः, अन्वय-व्यतिरेकलक्षणाश्च हेतवो गृह्यन्ते, प्रगलद्रत्नानि तु क्षायोपशमिकभावनिस्यन्दवन्ति श्रुतरत्नानि 10 गृह्यन्ते, दीप्तौषधयस्तु विशुद्धा आमोषध्यादयो गृह्यन्ते, गुहास्तु समवायाः प्ररूपणगुहा वा गृह्यन्त इति गाथार्थः॥१४॥
__ संवर० गाहा । व्याख्या-संवरश्चासौ वरश्च संवरवरः, संवरः-प्रत्याख्यानरूपः, सर्वप्राणातिपातादिविनिवृत्तिरूपत्वाद् वरः, असावेव कर्ममलक्षालनाद् जलमिव जलं संवरवरजलम् , तस्मात् प्रगलितं च तदुज्झरं च संवरवरजलप्रगलितोज्झरम् , तथा च संवरवरजलादुपचारतः प्रगलति श्रुतज्ञानाधुज्झरमिति, तदेव प्रविराजमानः हारो 15 यस्य स तथाविधः । “सावगजणे"त्यादि, रवन्तश्च ते मयूराश्च रवन्मयूराः, प्रचुराश्च ते रवन्मयूराश्च प्रचुररवन्मयूराः, श्रावका एव जनास्त एव प्रचुररवन्मयूरास्तैर्नृत्यन्तीव कुहराणि यस्येति समासः। इह च स्तुति-स्तोत्रगन्धर्वादि रवणम् , कुहराणि शास्त्रमण्डपादीनि [इति] गाथार्थः ॥ १५ ॥
विणय० गाहा। व्याख्या-स्फुरन्त्यश्च ता विद्युतश्च स्फुरद्विद्युतः, विनयेन नताः विनयनताः, विनयनताच ते प्रवरमुनिवराश्चेति, त एव स्फुरद्विाज्ज्वलन्ति शिखराणि यस्येति समासः। इह च विनयस्याऽऽन्तरतपोभेद- 20 त्वात् तपांस्येव स्फुरन्ति, मावचनिकाश्च विशिष्टाचार्यादयः शिखराणि । “विविधगुणे"त्यादि, विविधा गुणा येषां ते विविधगुणाः, विशेषणान्यथानुपपत्त्या साधवो गृह्यन्ते, त एव विशिष्टकुलोत्पन्नत्वात् सत्त्वसुखहेतुधर्मफलप्रदानाच कल्पवृक्षकाः विविधगुणकल्पक्षकाः, फलभरश्च कुसुमानि च फलभर-कुसुमानि, विविधगुणकल्पवृक्षकाणां फलभरकुसुमानि विविधगुणकल्पवृक्षकफलभर-कुसुमानि तैराकुलानि वनानि यस्येति समासः। इह च फलभरो धर्मफलभरो गृह्यते, कुसुमानि ऋद्धयः, वनानि गच्छा इति गाथार्थः ॥ १६ ॥
णाण० गाहा। व्याख्या-ज्ञानं च तद् वरंच ज्ञानवरम् , परमनिर्वृतिहेतुत्वात् तदेव रत्नम् , [तेन] दीप्यमाना कान्ता विमला वैडूर्यचूडा यस्य स तथाविधः। अत्र दीप्यमानेति यथावस्थितजीवादिपदार्थस्वरूपोपलम्भात्, कान्ता भव्यजनमनोहारित्वाद् , विमला तदावरणाभावात् । वन्दे इति विनयप्रणतः सङ्घमहामन्दरगिरेयन्माहात्म्यमिति, कर्मणि वा षष्ठीति गाथार्थः ॥ १७ ॥
___ एवं सङ्घनमस्कारा अपि प्रतिपादिताः । साम्पतमावलिका प्रतिपाद्यते । सा च त्रिविधा-तीर्थकरावलिका 30 १ गणधरावलिका २ स्थविरावलिका ३ च । तत्र तीर्थकरावलिकां प्रतिपादयन्नाहटी० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org