________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं [सू. २ गा. १३-१७ णियमूसियकणयसिलायलुज्जलजलंतचित्तकूडस्स । गंदणवणमणहरसुरभिसीलगंधद्धमायस्स ॥ १३ ॥ जीवदयासुंदरकंदरद्दरियमुणिवरमइंदइण्णस्स । हेउसयधाउपगलंतरत्तदित्तोसहिगुहस्स ॥ १४ ॥ संवरखरजलपगलियउज्झरपविरायमाणहारस्स । सावगजणपउरवंतमोरणचंतकुहरस्स ।। १५ ॥ विणयणयपवरमुणिवरफुरंतविज्जुज्जलंतसिहस्स्स । विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स ॥ १६ ॥ णाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स ।
वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥ १७ ॥ [छहिं कुलयं ] सम्मइंसण० गाहा । व्याख्या-सम्यग्-अविपरीतं दर्शनं सम्यग्दर्शनम् , तदेव प्रथममोक्षाङ्गत्वात् सारत्वाद् वज्रं सम्यग्दर्शनवज्रम् , तदेव दृढं रूढं गाढं अवगाढं पीठं यस्य सङ्घमहामन्दरगिरेः स सम्यग्दर्शनवज्रहढरूढगाढावगाढपीठस्तस्य वन्दे इति, द्वितीयार्थे षष्ठी प्राकृतशैल्या आपत्वाच्च, तं वन्दे इत्यर्थः । तत् सम्यग्दर्शनवज्रपीठं दृढमिति-निष्पकम्पम् , शङ्कादिशल्यरहितत्वात् ; रूढमिति-ऋद्धिमुपगतम् , प्रतिसमयं विशुध्यमानत्वात् 15 प्रशस्ताध्यवसायस्थानेषु वर्तनात्, गाढमिति-निविडम् , तीव्रतत्त्वरुचिरूपत्वात् सुष्ठुश्रद्धानरूपत्वादित्यर्थः, अवगाढमिति-निमग्नम् , जीवादिपदार्थेषु सम्यगवबोधरूपतया प्रविष्टमित्यर्थः। “धम्मवरे "त्यादि धारयतीति धर्मः, धर्म एव वररत्नमण्डिता-प्रधानरत्नमण्डिता चामीकरमेखला यस्य स धर्मवररत्नमण्डितचामीकरमेखलाकः। क्रियायोजना पूर्ववदेवावसेया । इह धर्मों द्विविधः मूलगुणोत्तरगुणरूपः, तत्रोत्तरगुणधर्मों रत्नानि, मूलगुणधर्मस्तु चामीकरमेख
लेति । तथा च न राजते मूलगुणधर्मचामीकरमेखला उत्तरगुणधर्मरत्नभूषणविकलेति गाथार्थः ॥ १२ ॥ 20 नियमूसिय० गाहा । व्याख्या-इहोत्सतशब्दस्य व्यवहितः प्रयोगो द्रष्टव्यः, ततश्चैवं भवति-नियम एव
कनकशिलातलानि नियमकनकशिलातलानि, तेच्छ्रितानि उज्ज्वलानि ज्वलन्ति चित्तान्येव प्राकृतशैल्या कूटानि यस्मिन् स तथाविधः । इह च नियमः इन्द्रिय नोइन्द्रियनियमः परिगृह्यते । उत्सृतानि अशुभाध्यवसायपरित्यागात् । उज्ज्वलानि प्रतिसमयं कर्ममलविगमात् । ज्वलन्ति सदा सूत्रार्थानुस्मरणरूपत्वात् । चित्यते यैस्तानि चित्तानि । उक्तं चचित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषस्तस्य शिष्टा विपत्तयः॥१॥
__] इति । वनं-वृक्षसमुदायः, नन्दनं च तद् वनं च नन्दनवनम् , तत्र नन्दन्ति यत्र सुर-सिद्ध दैत्य-विधाधरादयस्तद् नन्दनम् , वनमिति-अशोक-सहकारादिजालम् , मनो हरतीति मनोहरम् , लतावितान-विविधपुष्प-फल-प्रवालाधुपपेतत्वात् , नन्दनवनं च तद् मनोहरं चेति “विशेषणं विशेष्येण बहुलम्" [ पा. २. १. ५७ ] इति समासः, 30 तस्य सुरभिश्चासौ शीलगन्धश्च सुरभिशीलगन्धः तेनाऽऽध्मातः-व्याप्तो यः स तथाविधस्तस्य । क्रिया पूर्ववत् ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org