________________
सङ्घस्तुतिः ]
श्रीदेववाचकविरचितं नन्दिसूत्रम् ।
कर्त्तरि ल्युट्, श्राम्यतीति-तपस्यति, एतदुक्तं भवति - प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतो गुरूपदेशादनशनादि यथाशक्ति आ प्राणोपरमात् तपश्चरतीति श्रमणः । उक्तं च
यः समः सर्वभूतेषु स्थावरेषु त्रसेषु च । तपश्चरति शुद्धात्मा श्रमणोऽसौ प्रकीर्तितः ॥ १ ॥
1
[
इति गाथाद्वयार्थः ।। ८ ।। इदानीं सङ्घस्यैव सौम्यतया चन्द्ररूपके स्तत्रमाहतव-संजममयलंछण ! अकिरियराहुमहदुद्ध रिस ! णिचं | जय संघचंद ! णिम्मलसम्मत्तविसुद्धजुहागा ! ॥ ९ ॥
तवसंजम० गाहा । व्याख्या- ' तपः संयम मृगलाञ्छन !" तपः- संयममृगचिह्न ! | 'अक्रियाराहुमुखदुष्प्रधृष्य !' इह अक्रियाशब्देन नास्तिका गृह्यन्ते, अनभ्युपगमाद् अविद्यमानपरलोकक्रियाः अक्रियाः, त एव राहुमुखं तेन दुष्प्रधृष्यः - अनभिभवनीयः तस्याऽऽमन्त्रणम् । 'नित्यम्' इति सदा जय सङ्घचन्द्र ! | 'निर्मलसम्यक्त्व- 10 विशुद्ध ज्योत्स्नाक !' इह मिथ्यात्वभावमलरहितं निर्मलं सम्यक्त्वमुच्यते, तदेव विशुद्धा-निर्मला ज्योत्स्ना - चन्द्रिका यस्य स तथाविधः तस्याऽऽमन्त्रणमिति गाथार्थः || ९ || अधुना सङ्घस्यैव प्रकाशकतया सूर्यरूपकेण स्तवमाह - परतित्थियगहपहणासगस्स तवतेयदित्तलेसस्स ।
णाणुज्जोयस्स जए भदं दमसंघसूरस्स ॥ १०
परतित्थिय० गाहा । व्याख्या - 'परतीर्थिकग्रहमभानाशकस्य' इह परतीर्थिकाः- कपिल-कणभक्षा-क्ष- 15 पादादिमतावलम्बिनः त एव ग्रहास्तेषां प्रभा - एकदुर्णयज्ञानलक्षणा तां नाशयति-अनन्तनयसङ्कुलप्रवचनसमुत्थज्ञानालोकेन अपनयतीति समासस्तस्य । ' तपस्तेजोदीप्तलेश्यस्य' तपस्तेज एव दीप्ताः - उज्ज्वला लेश्याः- दीधितयो यस्य । ‘ज्ञानोद्योतस्य' इति गतार्थम् । 'जगति' लोके 'भद्रं ' मङ्गलं भवतु । कस्य ? ' दमसङ्घसूर्यस्य ' दमः - उपशमो भण्यते, तत्प्रधानः सङ्घसूर्यः दमसंङ्घसूर्यस्तस्येति गाथार्थः ॥ १० ॥
साम्प्रतं सङ्घस्यैव महत्तया समुद्ररूपकेण स्तत्रमाह
भद्दं धिइवेलापरिगयस्स सज्झायजोगमगरस्स । अक्खोभस्स भगवओ संघसमुहस्स रुंदस्स ॥। ११ ॥
5
इदानीं सङ्घस्यैत्र स्थिरतयाऽचलेन्द्ररूपकेण स्तुतिं कुर्वन्नाह-सम्म सणवइरदढरूढ गाढावगाढपेदस्स । धम्मवररयणमंडियचामीयर मेहलागस्स ॥ १२ ॥
Jain Education International
भद्दं० गाहा । व्याख्या - सङ्घसमुद्रस्य भद्रं भवत्विति क्रिया । किम्भूतस्य ? 'धृतिवेलापरिगतस्य ' धृतिःआत्मपरिणामः सैव वेला-वेदिका - जलान्तररमणलक्षणा मर्यादा वा तया परिगतस्तस्य । 'स्वाध्याययोगमकरस्य ' कर्मविदारणमहाशक्तियुक्तत्वात् स्वाध्याय एवं मकरो यस्मिंस्तस्य । ' अक्षोभ्यस्य' परीषहोपसर्गसम्भवे निष्प- 25 कम्पस्य । ‘भगवतः' समग्रैश्वर्यादियुक्तस्य । 'रुन्दस्येति' विस्तीर्णस्येति गाथार्थः ॥ ११ ॥
For Private Personal Use Only
20
www.jainelibrary.org