________________
5
15
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[ सू. २ गा. ६-१२
अभ्यन्तरमपि षड्विधम् । उक्तं च- “प्रायश्चित्तं विनयो वैयावृत्यं स्वाध्यायो ध्यानं व्युत्सर्गश्च " [ } इति । “सम्मत्तपारियलस्स” त्ति पारियलं - बाह्यपुष्टकस्य बाह्या भ्रमिरुच्यते, ततश्च सम्यक्त्वबाह्यभ्रमिणे नमः । व्याख्यातं गाथार्धम् । चरकादिभिरतुल्यत्वाद् नास्य प्रतिचक्रं विद्यते इत्यप्रतिचक्रम्, तस्य जयो भवतु इति सुप्रणिधनमेतत् । 'सदा' सर्वकालम् । सङ्घचक्रमिव सङ्घचक्रं तस्येति गाथार्थः ॥ ५॥
इदानीं सङ्घस्यैव मार्गगामित्वतो रथरूपकेण स्तवं कुर्वन्नाह—
भ० गाहा । व्याख्या- 'भद्रं ' कल्याणं भवतु । कस्य ? सङ्घरथस्य भगवत इति योगः । किंविशिष्टस्य ? शीलोच्छ्रितपताकस्य, प्राकृतशैल्याऽन्यथोपन्यासः, शीलग्रहणाद् अष्टादशशीलाङ्गसहस्रपरिग्रहः । तथा ' तपो नियम10 तुरगयुक्तस्य' तपः-संयमाश्वयुक्तस्येत्यर्थः । स्वाध्यायः - वाचनादिः यथोक्तम् - " वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा च " [ ] इति, तत्र स्वाध्याय एव शोभनो नन्दिघोषः - तूर्यरवः “सुनेमिघोसस्स” त्ति नेमिनिर्घोषो वा यस्य स तथाविधस्तस्य । इह च शीलाङ्गनिरूपणे सत्यपि तपो नियमनिरूपणं प्रधानपरलोकाङ्गत्वख्यापनार्थम् । अस्ति चायं न्यायो यदुत - " सामान्योक्तावपि प्राधान्यख्यापनार्थं विशेषाभिधानम् ” इति, यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति, एवमन्यत्रापि योजनीयमित्यलं प्रसङ्गेनेति गाथार्थः ॥ ६॥ सङ्घस्यैव लोकासंश्लिष्टत्वतः पद्मरूपकेण स्तवं प्रतिपादयन्नाह - कम्मरयजलोहविणिग्गयस्स सुयरयणदीहणालस्स | . पंचमहव्वयथिरकण्णियस्स गुणकेसरालस्स ॥ ७ ॥ सावगजणमहुयरिपरिवुडस्स जिणसूरतेयबुद्धस्स | संघ उमस्स भद्दं समणगणसहस्सपत्तस्स ॥ ८ ॥
30
-भदं सीलपडागूसियस्स तव-नियमतुरगजुत्तस्स । संघरहस्स भगवओ सज्झायसुगंदिघोसस्स || ६ ||
[ जुम्मं ]
20 कम्मरय० गाहा । सावय० गाहा । व्याख्या - सङ्घपद्मस्य ' भद्रं ' मङ्गलं भवत्विति क्रिया । किम्भूतस्य ? ‘कर्मरजोजलौघविनिर्गतस्य ' इह ज्ञानावरणादिलक्षणं कर्म, तदेव अनेकधा जीवगुण्डनाद् रजो भण्यते, तदेव भवकारणत्वाद् जलौघवद् जलौघः तस्माद् विनिर्गत इव विनिर्गतः, तथा चाविरतसम्यग्दृष्टेरप्युपार्द्धपुद्गलपरावर्त्तः परः संसार उक्त इत्यतो विनिर्गतस्तस्य । श्रुतरत्नमेव दीर्घनालं यस्य सः, तद्वलादेव निर्गत इति भावनीयम् । पञ्च महाव्रतानि - प्राणातिपातादिविनिवृत्तिलक्षणानि तान्येव स्थिरा-दृढा कर्णिका - मध्यगण्डिका यस्य । गुणाः-उत्तर25 गुणाः त एव तत्परिकरत्वात् केसराणि यस्य विद्यन्ते इति गुणकेसरवत् तस्य गुणकेसरवतः ॥ ७ ॥
'श्रावकजनमधुकरीपरिवृतस्य ' इति प्रकटार्थम् । नवरमभ्युपेत्य सम्यक्त्वं प्रतिपन्नाणुत्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारीं शृणोतीति श्रावकः । उक्तं च
Jain Education International
यो ह्यभ्युपेतसम्यक्त्वो यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते ॥ १ ॥
[
1
'जिनसूर्यतेजोबुद्धस्य' केवलज्ञानभास्कर विशिष्टसंवेदनप्रभवधर्मदेशना बुद्धस्येति भावार्थः । 'श्रमणगणसहस्रपत्रस्य ' इति प्रकटार्थमेत्र | नवरं श्राम्यतीति श्रमणः, “कृत्यल्युटो बहुलम् " [पा. ३. ३. ११३. ] इति वचनात्
For Private Personal Use Only
www.jainelibrary.org