________________
।
मङ्गलं सङ्घस्तुतिश्च ]
श्रीदेववाचकविरचितं नन्दिसूत्रम् । आह-भगवतः संसारातीतत्वात् परमकल्याणरूपत्वात् किमेवमुच्यते ‘भद्रं भवतु' ? न च स्तोत्रा भणितं सर्वमेव भवतीति, अत्रोच्यते, सत्यमेतत् , तथापि कुशलमनो-वाक्-कायप्रवृत्तिकारणखान्न दोष इत्यलं प्रसङ्गेनेति गाथार्थः ॥३॥ एवं तावत् तीर्थकरनमस्काराः प्रतिपादिताः । साम्प्रतं तीर्थकरानन्तरः सङ्घ इति कृला तीर्थान्तरग्रामव्युदासेन नगररूपकेण तत्संस्तवं कुर्वनाह
[ सुत्तं २] गुणभवणगहण ! सुयरयणभरिय ! दंसणविसुद्धरच्छागा!।
संघणगर! भई ते अक्खंडचरित्तपागारा ! ॥४॥ २. गुण० गाहा । व्याख्या-'गुणभवन गहन !' इह गुणाः-पिण्डविशुद्धयादय उत्तरगुणा अभिगृह्यन्ते । यथोक्तम्पिंडस्स जा विसोही समितीओ भावणा तवो दुविहो । पडिमा अभिग्गहा वि य उत्तरगुणमो वियाणाहि ॥१॥ 10
व्यव. भा. पी. गा. २८९] एत एव भवनानि एभिर्गहनं-प्रचुरखादुत्तरगुणानाम् एभिः सङ्कुलं सङ्घनगरमभिगृह्यते, तस्याऽऽमन्त्रणं हे गुणभवनगहन ! । तथा 'श्रुतरत्नभृत !' श्रुतान्येव-आचारादीनि निरुपममुखहेतुत्वाद् रत्नानि तैर्भूतं-पूरितमित्यर्थः तस्याऽऽमन्त्रणम् । तथा 'दर्शनविशुद्धरथ्याक !' इह दर्शन-प्रशम-संवेग-निर्वेदा-नुकम्पा-ऽऽस्तिक्याभिव्यक्तिलक्षणं सम्यग्दर्शनं गृह्यते । तच्चौपशमिकादिभेदात् पञ्चविधम् । तथा चोक्तम्- "तं च पंचधा सम्मं । ओवसमं १ सासायण 15 खयोवसमिय ३ वेदयं ४ खइयं ५॥" [विशेषा. गा. ५२८] ति । दर्शनमेव असारमिथ्याखादिकचवररहिता विशुद्धा रथ्या यस्य तत् तथाविधं तस्याऽऽमन्त्रणम् । 'सङ्घनगर !' सङ्घः-चातुर्वर्णः श्रमणादिसवातः स नगरमिव सङ्घनगरं तस्याऽऽमन्त्रणम् , यथा पुरुषोऽयं व्याघ्र इच पुरुषव्याघ्रः। उक्तं च-" उपमितं व्याघ्रादिभिःसामान्याप्रयोगे" [पा. २. १. ५६] । 'भद्रं' कल्याणं तब भवतु । 'अखण्डचारित्रपाकार !' चारित्रं-मूलगुणाः, अखण्डं-अविराधितं चारित्रमेव प्राकारो यस्य तत् तथाविधं तस्याऽऽमन्त्रणमिति गाथार्थः ॥४॥ संसारोच्छेदित्वात् समस्यैव चक्ररूपकेण स्तवं कुर्वन्नाह- .
संजम-तवतुंबा-ऽरयस्स णमो सम्मत्तपारियलस्स ।
अप्पडिचकस्स जओ होउ सया संघकस्स ॥ ५ ॥ संयम० गाहा । व्याख्या-'संयम-तपस्तुम्बा-रकाय नमः' संयमश्च तपांसि च संयम-तपांसि, तुम्बं च अरकाश्च तुम्बा-ऽरकाः, तत्र यथासङ्खचं संयम-तपांस्येव तुम्वाऽरका यस्य तत् तथाविधं तस्मै नमः। तत्र संयमः- 25 पञ्चाश्रवाद विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः। दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ॥१॥
[प्रशम. आ. १७२] तपो द्वादशप्रकारं बाह्यमभ्यन्तरं च । तत्र बाह्यं षड्विधम् । यथोक्तम्- अनशनमूनोदरता वृत्तेः सङ्क्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ॥१॥
[प्रशम. आ. १७५]
20
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org