________________
४
1
जयति सु० गाहा । व्याख्या- 'जयति' इति पूर्ववत् । 'श्रुतानां' आचारादिभेदभिन्नानां ' प्रभवः ' प्रभवन्त्यस्मादिति प्रभवः, तदर्थाभिधायकत्वात् कारणमित्यर्थः । ऋषभादयोऽप्येवम्भूता एव अत आह- ' तीर्थकराणाम5 पश्चिमो जयति' तत्र तीर्थकरणशीलास्तीर्थकरास्तेषां तीर्थकराणाम् भरतेऽधिकृतावसर्पिण्यां पश्चिम एव अनिष्ट - शब्दपरिहारार्थमपश्चिम इत्युच्यते, पश्चानुपूर्व्या वाऽपश्चिम इति । 'जयति गुरुर्लोकानां गृणाति शास्त्रार्थमिति 'लोकानां ' इति सत्त्वानाम् । 'जयति महात्मा' अनन्तज्ञान-वीर्ययुक्तत्वाद् महान् आत्मा यस्य स महात्मा । 'महावीरः' इति " शूर वीर विक्रान्तौ " [ पा. धा. पा. १९०३ ] इति, कषायादिशत्रुजयाद् महाविक्रान्तो महावीरः । ईर् गति-प्रेरणयोः" इत्यस्य वा विपूर्वस्य विशेषेण ईरयति - कर्म गमयति, याति वा इह शिवमिति वीरः, महांश्चासौ 10 वीरश्व महावीर इति गाथार्थः ॥ २ ॥
गुरुः,
श्रीहरिभद्रसूरि सूत्रितया वृत्त्या समलङ्कृतं
जय सुयाणं भवो तित्थयराणं अपच्छिमो जयइ । जय गुरू लोगाणं जयइ महप्पा महावीरो ॥ २ ॥
44
30
पुनरस्यैवातिशयप्रदर्शनद्वारेण स्तुतिमभिधित्सुराह—
भद्दं० गाहा। व्याख्या-‘भद्रं ' कल्याणं भवतु । कस्य ? ' सर्वजगदुद्योतकस्य' इति, अनेन ज्ञानातिशयमाह । 15 इह च “चतुर्थी चाऽऽशिष्यायुष्य-मद्र-भद्र-कुशल-सुखाऽर्थ हितैः " [पा. २. ३.७३ ] इति वचनात् षष्ठ्यपि भवत्येव, यथा - आयुष्यं देवदत्ताय आयुष्यं देवदत्तस्येति, एवं मद्रादिष्वपि वक्तव्यमिति । 'भद्रं जिनस्य “ जि जये " अस्य औणादिकनकप्रत्ययान्तस्य जिन इति भवति, रागादिजयाद् जिन इति, अनेनापायातिशयमाह । अपायः - विश्लेषः, रागादिभिः सार्द्धमात्यन्तिकवियोग इत्यर्थः । आह- अपायातिशये सति ज्ञानातिशयभावाद् व्यतिक्रमः किमर्थम् ?, फलप्रधानाः समारम्भाः " इति ज्ञापनार्थम् । 'भद्रं सुरासुरनमस्कृतस्य ' इति, अनेन पूजातिशयमाह, न हि 20 विभवानुरूपां पूजामकृत्वैव सुरा - ऽसुरा नमस्कारक्रियायां प्रवर्त्तन्त इति । उक्तं च
Jain Education International
भवं सव्वजगुज्जोगस्स भई जिणस्स वीरस्स । भदं सुरा- सुरणमंसियस्स भदं धुयरयस्स || ३ ||
[ सू. १-२ गा. २५
अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च ।
भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ १ ॥
[
पूजातिशयान्यथानुपपत्त्यैव वागतिशयो गम्यते । 'भद्रं धुतरजसः' इति, अनेन सकलसंसारक्लेशविनिर्मुक्तां 25 सिद्धावस्थामेवाऽऽह, यतो बध्यमानकं कर्म रजो भण्यते, तदभावस्त्वयोगिसिद्धानामेव, न पुनरन्येषाम् । यत आह'जाव णं एस जीवे एयर वेदति चलइ फंदइ० तात्र णं अट्ठविहबंधए वा सत्तविहबंधए वा छन्हिबंधए वा एगविहबंध वा "" [भग. श. उ. सू. पत्र ] इत्यादि । तत्थ ----
44
1
सत्तविधगा होति पाणिणो आउवज्जगाणं तु । तह सुहुमसंपराया छन्हिबंधा विणिदिट्ठा ॥ १ ॥ मोहा-ऽऽउगवज्जाणं पगडीणं ते उ बंधगा भणिया । उवसंत खीणसोहा केवलिणो एगविहबंधा ॥ २ ॥ उण दुसमठितस्स बंधगा ण उण संपरायस्स । सेलेसिं पडिवन्ना अबंधगा होति विनेया ॥ ३ ॥” [ पञ्चा. १६ गा. ४०-४२]
For Private Personal Use Only
] इति ।
www.jainelibrary.org