________________
मङ्गलम् ।
श्रीदेववाचकविरचितं नन्दिसूत्रम् । योनयः सचित्ताद्याः । उक्तं च-"सचित्त-शीत-संत्रतेतर-मिश्रास्तद्योनयः" [तत्त्वा. २. ३३] जीवोत्पत्तिस्थानानीत्यर्थः। “यु मिश्रणे" [पा. था. पा. १०३३] युवन्ति-तैजस-कार्मणशरीरवन्तः सन्त औदारिकादिशरीरेण मिश्रीभवन्त्यस्यामिति योनिः । उक्तं च - जोएण कम्मरणं आहारेई अणंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निष्फत्ती ॥१॥
सूत्रकृ. नि. गा. १७७] ततश्च जगच्च जीवाश्च योनयश्च जगज्जीव-योनयः, विविधम्-अनेकधा उत्पादाद्यनन्तधर्मात्मकं जानातीति विज्ञायकः, जगज्जीव-योनीनां विज्ञायको जगज्जीव-योनिविज्ञायक इति समासः, अनेन केवलज्ञानप्रतिपादनात् स्वार्थसम्पदमाह । तथा जगद् गृणातीति जगद्गुरुः, यथोपलब्धजगद्वक्तेति भावना, अनेनापि स्वार्थसम्पदमेवाह । तथा 'जगदानन्दः' इह जगच्छब्देन संज्ञिपञ्चेन्द्रियपरिग्रहः, तेषां सद्धर्मदेशनाद्वारेणाऽऽनन्दहेतुत्वादैहिका-ऽऽमुष्मिकप्रमोदकारणत्वाजगदानन्द इति, अनेन परार्थसम्पदमाह। तथा जगन्नाथः' इह जगच्छब्देन सकलचराचरपरिग्रहः, तस्य 10 यथावस्थितस्वरूपप्ररूपणद्वारेण वितथप्ररूपणापायेभ्यः पालनाद् नाथवद् नाथ इति, अनेनापि परार्थसम्पदमिति । तथा 'जगद्वन्धुः' इह जगच्छब्देन सकलपाणिपरिग्रहः, तदव्यापादनोपदेशप्रणयनेन सुखस्थापकत्वाद् बन्धुवद् बन्धुः । तथा चोक्तम्- “सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता ण हतया ण अज्जावेयवा [ण परिघेत्तवा] ण परितावेयव्या ण उवद्दवेयया, एस धम्मे धुवे णितिए सासते, समेच्च लोयं खेदण्णेहिं पवेदिते" [आचा. श्रु. १ अ. ४ उ. १ सू. १-२] इत्यादि, अनेनापि परार्थसम्पदमिति । तथा 'जयति जगत्पितामहः' इति, 15 इह जगच्छब्देन सकलसत्त्वपरिग्रह एव, तेषां च कुगतिगमनभयापायरक्षणात् पिता धर्मों वर्तते, तथोक्तम्
दुर्गतिप्रसृतान् जीवान् यस्माद् धारयते ततः । धत्ते चैतान् शुभे स्थाने तस्माद् धर्म इति स्मृतः ॥१॥
20
तस्यापि चार्थप्रणेतृत्वेन भगवान् पिता वर्तते, अतो जगत्पितामह इति । स्तवाधिकाराच पुनः क्रियाभिधानमदुष्टम् । उक्तंचसज्झाय-शाण-तव-ओसहेसु उवएस-थुइ-पयाणेसु । संतगुणकित्तणेसु य न होति पुणरुत्तदोसा उ ॥ १ ॥
आव. नि. गा. १५० ४ पत्र ७८२-१] अनेनापि परार्थसम्पदमाह । 'भगवान्' इति भगः-समग्रैश्वर्यादिलक्षणः, तथा चोक्तम्ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य षण्णां भग इतीङ्गना ॥१॥
[विष्णुपुराणे ६. ५. ७४] 25 भगोऽस्यास्तीति भगवानिति । अनेन चोभयसम्पदमाह, स्व-परोपकारित्वादैश्वर्यादेरित्यलं प्रसङ्गेनेति गाथार्थः ॥१॥
व्याख्यानयन्ति केचित् स्तुतिमेनामन्यथाऽपि विद्वांसः।
तत्राप्यपौनरुक्त्यं सूक्ष्मधिया चिन्तनीयमिति ॥१॥ एवं तावद् 'अनादिमन्तो मतास्तीर्थकराः' इति ज्ञापनार्थ सामान्येन नमस्कारमभिधाय साम्प्रतमासनोपकारित्वात् सकलदुःखपरमौषधभूतप्रवचनप्रणेतृत्वाद् वर्तमानतीर्थाधिपतेः नमस्कारं प्रतिपादयन्नाह- 30
१. मिश्रणेऽमिश्रणे च" इति पाणिनिधातुपाठे ॥ २ “वैराग्यस्याथ मोक्षस्य " इति विष्णुपुराणे ॥ ३ अत्र केचिद् इत्यनेन चूर्णिकारावेदितं जिणवसभोसललियवसभविक्कमगती महावीरो इतिरूपेण प्रथमसूत्रगाथोत्तरार्धे व्याख्यानयन्तः पूर्वाचार्याः ज्ञेयाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org