________________
श्रीहरिभद्रसूरि सूत्रितया वृत्त्या समलङ्कृतं
[ सू. ९ गा. १
asaगन्तव्य इति, ततः “ कृदिकारादक्तिनः " [ पा. वार्त्तिकम् ४ १.४५] “ सर्वतोऽक्तिन्नर्थादित्येके " [ पा. वा. ४. १. ४५ ] इति स्त्रीप्रत्ययः अस्य भावार्थ : - कृदिकारान्तो यः शब्दः क्तिन्वर्जितस्तस्मात् स्त्रीप्रत्ययो भवति, अपरे तु सर्वतः अक्तिनर्थादिकारान्तात् स्त्रीप्रत्ययो भवतीति मन्यन्तेः अनुबन्धलोपे च कृते “यस्य " [पा. ६. ४. १४८] इतीकारलोपे च नन्दी इति रूपं भवति । नन्दनं नन्दी | नन्दन्त्यनयेति वा भव्याः प्राणिन इति 5 नन्दी इत्यलमप्रस्तुतातिप्रसङ्गेनेति ।
२
46
अयं च नन्दिश्चतुर्विधः, तद्यथा - नामनन्दिः १ स्थापनानन्दिः २ द्रव्यनन्दि: ३ भावनन्दि ४ वेति । तत्र नाम-स्थापने कटार्थे । द्रव्यनन्दिर्द्विधा - आगमतो नोआगमतश्च । तत्राऽऽगमतो नन्दिपदार्थज्ञः तत्र चाऽनुपयुक्तः, “ अनुपयोगो द्रव्यम् " [ अनुयोग. सू. १३ ] इति वचनात् । नोआगमतस्तु ज्ञशरीरद्रव्यनन्दिः भव्यशरीरद्रव्यनन्दिः ज्ञशरीर-भव्यशरीरव्यतिरिक्तश्च द्रव्यनन्दिः । तत्र ज्ञशरीरद्रव्यनन्दिः नन्दिपदार्थज्ञस्य शरीरं जीवविप्रमुक्तम्, अनु10 भूतनन्दिभावत्वात् पश्चात्कृतभावस्य द्रव्यत्वात् । यथोक्तम्
भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तच्चज्ञैः सचेतना - ऽचेतनं कथितम् ॥ १ ॥ [
3
15
भव्यशरीरद्रव्यनन्दिश्च नन्दिपदार्थपरिज्ञानभारयोग्यं बालादिशरीरम्, पुरस्कृतभावत्वादस्य । व्यतिरिक्तश्च पुनः क्रियाविष्टो द्वादशविधस्तूर्याङ्गसङ्घातः । अयं तद्यथा
25
भंभा १ मउंद २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७ ।
काहल ८ तलिमा ९ वंसो १० संखो ११ पणवो १२ य वारसमो ॥ १ ॥ [
1
भन्दिरपि द्विविधै- आगमतो नोआगमतश्च । तत्राऽऽगमतो भावनन्दिः नन्दिपदार्थज्ञस्तत्र चोपयुक्तः, उपयोगो भाव इति कृत्वा । नोआगमतस्तु भावनन्दिः पञ्च मकारज्ञानसमुदायः, नोशब्दो देशवचनः । अथवा पञ्चमकारज्ञानस्वरूपप्रतिपादकोऽध्ययनविशेषः, नोशब्दो देशवचन एव, अयं चाध्ययनविशेषः श्रुतांशेन सर्वश्रुता20 भ्यन्तरभूतो वर्त्तते । अत एव सर्वश्रुतारम्भेष्वेव विविनायकोपशान्तये मङ्गलार्थमभिधीयत इति ।
अस्य च मङ्गलस्थानावसर प्राप्तस्य सत आचार्या विनेयानां सूत्रार्थगौरवोत्पादनार्थमविच्छेदेन सन्तानागतसूत्रा-ऽर्थपददर्शनार्थं चाऽऽदावेवाऽऽवलिकामभिधाय व्याख्यानाय यतन्ते । सर्वे श्रुतार्थाश्च यतस्तीर्थकरमभवा अतः प्रज्ञापक-श्रावक-पाठकाः अभिलषितार्थसिद्धये प्रवर्त्तमानाः प्रधानोपायत्वाद् भगवत एव नमस्कारपूर्वकं प्रवर्त्तन्त
इत्यत आह ग्रन्थकारः
[सुतं १ ]
जय जगजीवजोणीवियाणओ जगगुरू जगाणंदो । 'जगणाहो जगबंधू जयइ जगपियामहो भयवं ॥ १ ॥
१. जयति० गाथा । व्याख्या – इन्द्रिय-विषय- कषाय-घातिकर्म-भवोपग्राहि कर्मशत्रुगणजयाज्जयतीत्युच्यते । किंविशिष्टो जयति ? ' जगज्जीवयोनिविज्ञायक:' इह जगच्छन्देन सकलधर्मा-धर्माऽऽकाश- पुद्गलास्तिकायपरिग्रहः, 30 जीवशब्देन तु सकलजीवास्तिकायपरिग्रहः । उक्तं च
जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम् । [
1
Jain Education International
For Private Personal Use Only
www.jainelibrary.org