________________
।। णमो त्थु णं समणस्स भगवो महइ-महावीर-वद्धमाणसामिस्स ।।
णमो अणुओगधराणं थेराणं । श्रीदेववाचकविरचितं
नन्दिसूत्रम्। याकिनीमहत्तराधर्मसूनुना आचार्यश्रीहरिभद्रसरिणा
सूत्रितया वृत्त्या समलङ्कृतम् ।
॥ श्रीसर्वज्ञाय नमः॥ जयति भुवनकभानुः सर्वत्राविहतकेवलालोकः ।
नित्योदितः स्थिरस्तापवर्जितो वर्द्धमानजिनः ॥१॥ इह सर्वेणैव संसारिणा सत्त्वेन नारक-तिर्यङ्-नरा-ऽमरगतिनिबन्धनानेकशारीर-मानसातितीव्रतरदुःखौघसङ्घातपीडितेन जाति-जरा-मरण-शोक-रोगाद्युपद्रवत्रातरहित-निरतिशयालोकमुखस्वभावापवर्गगतिसम्भवे सति पीडानिर्वे- 5 दात् तत्परित्यागाय, निरतिशयालोकसुखाभिलाषाच तदवाप्तये, आत्म-परतुल्यचित्तेन सर्वथा स्व-परोपकाराय प्रवतितव्यमिति । तत्रान्यपरिरक्षणादिना परोपकारपूर्वक एऽऽत्मोपकार इति विशेषतस्तैत्र । स पुनः परोपकारो द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतो भोजनादिविचित्रविभवप्रदानजनितः, अयं चानेकान्तिकोऽनात्यन्तिकश्च । भावतस्तु सद्धर्मप्रदानजनितः, अयं चैकान्तिकस्तथाऽऽत्यन्तिकश्च । सद्धर्मश्च श्रुतधर्म-चारित्रधर्मभेदाद् द्विभेदः। तत्र श्रुतधर्मों जिनवचनस्वाध्यायः, चारित्रधर्मस्तु तदुक्तः श्रमणधर्म इति । उक्तं च
सुयधम्मो सज्झाओ चरित्तधम्मो समणधम्मो । [ तत्र श्रुतधर्मसम्पत्समन्विता एव प्रायश्चारित्रधर्मग्रहण-परिपालनसमर्था भवन्तीति तत्मदानमेवाऽऽदौ न्याय्यमिति । तत्रापि श्रुतप्रदाने सत्यपि नाविज्ञातार्थादेव तस्मादभिलषितार्थावाप्तिः प्राणिनामित्यतः प्रारभ्यतेऽहंद्वचनानुयोगः । अयं च परमपदप्राप्तिहेतुत्वाच्छ्योभूतो वर्त्तते । श्रेयांसि बहुविघ्नानि भवन्ति । यथोक्तम्
श्रेयांसि वहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां कापि यान्ति विनायकाः ॥१॥ 15
10
__] इति ।
अतोऽस्य प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलाधिकारे नन्दिर्वक्तव्यः।
अथ नन्दिरिति कः शब्दार्थः ?, उच्यते-"टुणदि समृद्धौ" [पा.धा. पा. ६७] इत्यस्य धातोः “इदितो नुम् धातोः" [पा. ७. १. ५८] इति नुमि विहितेऽनुबन्धलोपे च कृते औणादिकः इन् प्रत्ययो विधीयते, “सर्वधातुभ्य इन् " [पा. उ. ५६७] इति वचनात् , अनुबन्धलोपे च कृते सति नन्दि, सो रुत्त्वं विसर्जनीयश्चेति नन्दिः । नन्दनं 20 नन्दिः। नन्दन्त्यनेनेति वा नन्दन्त्यस्मिन्निति वा नन्दयन्तीति वा तदभेदोपचाराद् नन्दिः हर्षः प्रमोद इत्यनान्तरम् , “ताभ्यामन्यत्रोणादयः" [पा. ३. ४. ७५] इति वचनात् ताभ्यामिति सम्पदाना-पादानाभ्यामन्यत्र उणादयः प्रत्यया भवन्ति । अन्ये तु “ नन्दी" इत्यभिदधति, तत्रापि नन्दिरिति स्थिते “इक् कृष्यादिभ्यः" [पा. वा. ३. ३. १०८] इति इक् प्रत्ययः, स च “कृत्यल्युटो बहुलम्" [पा. ३. ३. ११३] इति वचनाद् भावे करणे
१ तत्र इति परोपकारे, यतितव्यमिति शेषः ॥ २ अन्ये इति नन्दीर्णिकृदादयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org