________________
स्थविरावलिका परिषच्च ]
श्रीदेववाचकविरचितं नन्दिसूत्रम् । अत्र बहु वक्तव्यम् , तच्च नोच्यते, ग्रन्थविस्तरभयात् , गमनिकामात्रप्रधानोऽयमारम्भ इति । अनेन न्यायवेदित्वमाह। 'मुविज्ञातसूत्राऽर्थधारकम्' इत्यनेन त्वोधत एव स्वभ्यस्तसूत्रा-ऽर्थधारकमिति। 'सद्भावोद्भावनातथ्यम्' इत्यनेन सम्यक्प्ररूपकत्वमाहेति गाथार्थः ॥ ४० ॥
अत्थ-महत्थक्खाणी सुसमणवक्खाणकहणणेव्वाणी ।
पयतीए महुवाणी पयओ पणमामि दूसगणी ॥४१॥ अत्थमहत्थक्खाणी० गाहा । व्याख्या-लोहित्यशिष्यं 'प्रयतः' सन् अनुत्सृष्टप्रयत्नपरः सन्नित्यर्थः, प्रणमामि दुष्यगणिनमिति क्रिया । किम्भूतम् ? 'अर्थ-महार्थखानि' खानिरिव खानिः, अर्थ-महार्थानां खानिः अर्थमहार्थखानिः तम् । तत्र भाषाभिधेया अर्थाः, विभाषा-वार्तिकगोचरा महार्था इति । सुश्रमणव्याख्यानकथने नि:तिर्यस्य स तथाविधस्तम् । तत्र व्याख्यानं-प्रतीतम् , कथन-संशये सति विनेयप्रश्नोत्तरकालभावि व्याकरणम् , अथवा व्याख्यानम्-अनुयोगः, कथनं-ओघतो धर्मस्य, धर्मकथेत्यर्थः। 'प्रकृत्या' स्वभावेन ‘मधुरवाचं' 10 मधुरगिरमिति गाथार्थः ॥४१॥
सुकुमाल-कोमलतले तेसिं पणमामि लक्खणपसत्थे ।
पादे पावयणीणं पाडिच्छगसएहि पणिवइए ॥ ४२ ॥ · सुकुमालकोमल गाहा । निगदसिद्धा ॥४२॥ एवमावलिकाक्रमेण महापुरुषाणां स्तवमभिधाय साम्प्रतं सामान्येनैव श्रुतधरनमस्कारं प्रतिपिपादयिषुराह -
जे अण्णे भगवंते कालियसुयआणुओगिए धीरे । ते पणमिऊण सिरसा णाणस्स परूवणं वोच्छं ॥ ४३ ॥
॥ थेरावलिया सम्मत्ता ॥ जे अन्ने भगवंते० गाहा । व्याख्या-'ये चान्ये' अतीता भाविनश्च 'भगवन्तः' श्रुतरत्नोपपेतत्वात् समग्रैश्वर्यादिमन्त इत्यर्थः । कालिकश्रुतानुयोगिनः 'धीराः' सत्त्ववन्तस्तान् प्रणम्य 'शिरसा' उत्तमाङ्गेन 'ज्ञानस्य' 20 आभिनिबोधिकादेः प्ररूपणं वक्ष्ये । क एवमाह ? दूष्यगणिशिष्यो देववाचक इति गाथार्थः ॥४३॥ ___ इदं च पञ्चप्रकारं ज्ञानम् , एतत्पतिपादकं चाध्ययनं योग्येभ्य एव विनेयेभ्यो दीयते, नायोग्येभ्य इत्यतो योग्या-ऽयोग्यविभागोपदर्शनार्थमेव तावदिदमाह -
[सुत्तं ७] सेलधण १ कुडग २ चालणि ३ परिपूणग ४ हंस ५ महिस ६ मेसे ७ य। 25 मसग ८ जलूग ९ बिराली १० जाहग ११ गो १२ मेरि १३ आभीरी ॥४४॥ सा समासओ तिविहा पण्णत्ता, तं जहा-जाणिया १ अजाणिया २ दुब्बियड्ढा ३ ।
७. सेलघण गाहा । व्याख्या-आह-शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थितानां सर्वसत्त्वहितायोडतानां महापुरुषाणामलं योग्या-ऽयोग्यविभागनिरीक्षणेन, न हि परहितार्थमिह महादानोद्यता महीयां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org