________________
श्रीहरिभद्रसूरिप्रणीतायाः नन्दिसूत्रवृत्तेः विषमपदटिप्पनकम् ।
१८५ [पृष्ठ ५८] पं. १. स्तोकद्रव्यखादिति शब्दद्रव्यापेक्षया गन्धादिद्रव्याणि स्तोकानि । विनिश्चिनोति इति प्राणादि इन्द्रियं कर्तृ । पं. ४. तद्योग्य इति भाषायोग्यः । पं. ६. क्षेत्र इति आकाशम् । पं. १२. पराघाए(ते) इति चासनायां सत्याम् ।
[ पृष्ठ ५९] पं. २६. यस्तदावरणक्षयोपशमो यश्च तज्ज्ञानोपयोगश्च एतौ द्वावपि लब्ध्यक्षरम् ।
[ पृष्ठ ६०] पं. १. एवं शेषेष्वपि इति घट-कर्पर-कर्करा-हंसतूलीषु । पं. १५. व्यापार इति उच्छ्वसितादिः । पं. २७. कालिक्युपदेश इति संज्ञिश्रुतव्यपदेशः ।
[पृष्ठ ६१] पं. २८. न सन्ति लोका इति “अपुत्रस्य गति स्ति०” इत्यादि ।
[पृष्ठ ६३] पं. २३. भग्गा इति ये भग्नास्ते न निधानगताः । निव्वुया इति वर्तमानकाले सुखिनः ।
[पृष्ठ ६४] पं. ३. आयारम्मि इति आचारनियुक्तौ ।
15 [ पृष्ठ ६५] पं. १५. अधिकारवशादिति प्रतिपक्षसम्बन्धवशादिति । पं. २२. अधिकृतमिति साद्यादिस्वरूपम् ।
[पृष्ठ ६६] पं. १८. गु(तु)डियाणि नी(त)तादीनि । पं. २०. आयनेसु य इति अनाग्न्येषु । पं. २१. अनेसु य इति दशातिरिक्तेषु । पुणब्भवरहिया इति मृत्वा पुनर्युगलधार्मिका न् (न) ।
[ पृष्ठ ६७ ] पं. १६. गति-स्थित्यादीत्यत्र द्रव्य-क्षेत्र-काल-भावभावना कार्या ।
[पृष्ठ ६८] पं. ९. नशे(तज्ज्ञे)यमिति घटाद्यभिलाप्यार्थरूपम् । आ(अ)कारादि इति अर्थान् क्षरति संशब्दयति वाऽर्थलोपादक्षरम् । पं. १०. अक्षरस्येति सर्वपर्यायपरिमाणाक्षरस्य । पं. १६. सव्वागास इति लोका-ऽलोकाकाश इति । पं. २२. अत एवेति प्रकरणाद् अपिशब्दाद्वा । पं. २३. उभयमपीति श्रुताक्षरं केवलाक्षरम् ।
[पृष्ठ ६९] पं. ३. स्वपर्यायविशेषण इति स्वपर्यायाणां विशेषणेन-विशेषव्यवस्थापकेन उपयोगात् । पं. ८. अविरोध इति । विशेषणत्वेन । पं. १८. गमिकमिति भिन्ने अर्थजाते यत् सदृशाक्षरालापकं तद् गमिकम् , असदृशं त्वगमिकम् । पं. २७. गायदुगद्धमिति पूर्व-पश्चिमउदर-पृष्टिरूपम् । पं. ३१. निययमिति सर्वतीर्थकरतीर्थेषु नियतम् । 30
[पृष्ठ ७१] __पं. २०. दिनमिति कर्कसंक्रान्तिदिनम् । पं. २९. चेत्यादि इति मरणम् । टी०२४
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org