________________
मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं
[पृष्ठ ३] पं. १. सच्चित्तेत्यादि, सच्चित्त-शीत-संवृताश्च ता इतर-मिश्राश्चेति समासः। तत्रेतराः-अचित्तोष्ण-विवृताख्याः । सचित्ता-ऽचित्तादिद्विरूपतया मिश्रत्वम् । एतत्स्वरूपं चोक्तं पूर्वमुनिभिः
मीसा य गब्भवसही, संवुडवियडा य वंसपत्ताई । सीओसिणाइभेया अणेगहा जोणिभेया उ ॥१॥ मिस्सत्तं जोणीए सुक्कमचित्तं सचेयणं रुहिरं । अहवा सुकं रुहिरं अचेयण-सचेयणा जोणी ॥२॥ [ एवं मिश्रत्वं तिर्यग्-मनुष्यस्त्रीयोनेः । तथाअच्चित्ता खलु जोणी नेरछ्याण तहेव देवाणं । मीसा य गब्भवसही, तिविहा जोणी उ सेसाणं ॥१॥
[जिन० संग्र० गा० ३५९, जीवस० गा० ४६] तिर्यग्-मनुष्यगर्भजव्यतिरिक्तानां सम्मूर्च्छनजतिर्यग्-मनुष्याणां यथा गोम्यादीनां सचित्ता, काष्ठघुणादीनामचित्ता, 10 गोकृम्यादीनामेव केषाञ्चित् पूर्वकृतक्षते समुद्भवतां मिश्रेति त्रिधात्वम् । तथासीओसिणजोणीया सव्वे देवा य गम्भवक्कंती। उसिणा य तेउकाए, दुह नरए, तिविह सेसाणं ॥१॥
[जिन० संग्र० गा० ३६०, जीवस० गा० ४७] शीतोष्णयोनिकाः सर्वे देवा गर्भजास्तिर्यग्-मनुष्याश्च । तेजःकायिका उष्णयोनिकाः । नारकाणां द्विधा योनिः-तत्राऽऽद्यपृथिवीत्रयोत्पत्तीनां प्रकृष्टोष्णा, चतुझं कचिन्नरके उष्णा कचिच्छीता, अन्त्यपृथ्वीत्रये तु शीता। सम्मूर्च्छनजतिर्यग्-मनुष्य-पृथि15 व्यादीनां क्वचिच्छीता कचिदुष्णा कचिन्मिश्रा । तथा संवृता प्रच्छन्ना, विवृता प्रकटा, गोमयादिका संवृतविवृता प्रच्छन्नप्रकाशा॥ तत्र-एगिदिय-नेरइया संवुडजोणी हवंति देवा य । विगलिंदियाण वियडा, संवुडवियडा य गव्मम्मि ॥१॥
[जिन० संग्र० गा० ३५८, जीवस० गा० ४५] नवरं नारकाः संवृतयोनयः, तदुत्पत्तिभूतानां निष्कुटानां संवृतगवाक्षकल्पत्वात् । देवा अपि संवृतयोनयः, "देवसयणिजसि देवदूसंतरिए अंगुलस्स असंखेजइभागमेत्तीए सरीरोगाहणाए उववण्णा" [
] इत्यादिवचनतः पटप्रच्छादितेषु 20 देवशयनीयेषु देवदूष्याभ्यन्तरे संवृतस्वरूपे तेषामुत्पादात् । एकेन्द्रियाणामपि केवलिदृष्टेन केनापि प्रकारेण 'संवृतयोनित्वं
गुप्तयोनित्वं भावनीयम् । 'संवृतविवृता' आवृता-ऽनावृतस्वरूपा गर्भजतिर्यग्-मनुष्याणामिति । अन्यच्च शङ्खावर्ता कूर्मोन्नता वंशीपत्रा चेति त्रिधा मनुष्यत्रीविषया स्यात् । तत्र च
उत्तमनरमाऊण नियमा कुम्मुन्नया हवइ जोणी । इयराण वंसपत्ता, संखावत्ता उ रयणस्स ॥१॥ [ त्ति वाच्यम् ॥ 25 पं. १३. प्राणा द्वि-त्रि-चतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥१॥
न अजावेयव्य त्ति, अजावणं-तज्जणं । न परिघेत्तव्वा सङ्घनेन । परितापः-क्लमः । उद्दवर्ण-विणासो । ततश्चैष धर्मः 'खेदज्ञैः' सर्वज्ञैः 'लोक' जीवास्तिकायात्मकं 'समेत्य' विज्ञाय तत्पीडाद्यकरणतः प्रवेदितः । कीदृशः ? 'ध्रुवः' त्रिकालभावित्वाद् मेदिवदचलः । ध्रुवत्वादेव नित्यः, नियतो वा पञ्चास्तिकायादिलोकवत् । नियतत्वादेव 'शाश्वतः' अक्षयः । पं. २४. 30 'इङ्गना' संज्ञा ॥ पं. ३०. सकलदुःखानां परमौषधभूतं यत् प्रवचन-श्रुतं तस्यार्थतः प्रणेतृत्वाद् भगवतः ।
१जीवति गवादावुत्पद्यमानानां कृम्यादीनामित्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org