________________
णमो त्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स
णमो अणुओगधराणं थेराणं मलधारिश्री-श्रीचन्द्रसूरिविनिर्मितं याकिनीमहत्तराधर्मस नुश्रीहरिभद्रसरिप्रणीतायाः
नन्दिसूत्रवृत्तेः टिप्पनकम् ॥ णमो गंदीए भगवतीए ॥
[पृष्ठ १] ...........देरपि सम्भवात् । पं० ८. अनैकान्तिको अनैश्चयिकः । अनात्यन्तिकः व्यवच्छेदभाक् च ।
पं. ९. ऐकान्तिकः नैश्चयिकः । आत्यन्तिकोऽयवच्छेदपरः। पं. १२. श्रुतधर्मसम्पत्समन्विता एव प्राय इति 'माषतुषादिभिर्व्यभिचारो मा भूत्' इति प्रायोग्रहणम् ।
[पृष्ठ २] पं. ३. यस्येति, इश्च अश्च यं तस्य [यस्य] इत्यनेन इकारलोपः। पं. ४. नन्दन्ति समृद्धिमवाप्नुवन्त्यनयेति नन्दी॥ पं. ७. नन्दीति यत् कस्यचिद् नाम क्रियते सा नामनन्दी । अक्षादिषु स्थापिता स्थापनानन्दी ।
पं. ९. ज्ञशरीरद्रव्यनन्दिरित्यादि, ज्ञातवान् ज्ञः, तस्य शरीरम् , तदेवानुभूतभावत्वाद् द्रव्यनन्दिः ज्ञशरीरद्रव्यनन्दिः, नन्दिरिति यत् पदं तदर्थज्ञायकस्य यच्छरीरकं जीवविप्रमुक्तं तद् ज्ञशरीरद्रव्यनन्दिरित्यर्थः । [भव्यशरीरद्रव्यनन्दिरित्यादि] विवक्षितपर्यायेण भविष्यतीति भव्यः, विवक्षितपर्यायाईः. तद्योग्य इत्यर्थः तस्य शरीरम, तदेव भावनन्दिकारणत्वाद शरीरद्रव्यनन्दिः, यो जन्तुर्नन्दिरिति पदमागामिकाले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यनन्दिरित्यर्थः ।
पं. ११. भूत-भाविद्रव्यनन्देर्लक्षणाभिधानायाऽऽह-भूतस्येत्यादि । तद् द्रव्यं तत्त्वज्ञैः कथितम् । यत् कथम्भूतम् ? इत्याह-यत् 'कारणं हेतुः । कस्य ? इत्याह 'भावस्य' पर्यायस्य । कथम्भूतस्य ? इत्याह-'भूतस्य' अतीतस्य 'भाविनो वा' भविष्यतः । 'लोके' आधारभूते । तच्च ‘सचेतनं' पुरुषादि 'अचेतनं च' काष्ठादि भवति । एतदुक्तं भवति-यः पूर्व स्वर्गादिष्विन्द्रादित्वेन भूत्वा इदानीं मनुष्यादित्वेन परिणतः सोऽतीतस्येन्द्रादिपर्यायस्य कारणत्वात् साम्प्रतमपि द्रव्यत 15 इन्द्रादिरभिधीयते, अमात्यादिपदपरिभ्रष्टामात्यादिवत् । तथाऽग्रेऽपि य इन्द्रादित्वेनोत्पत्स्यते स इदानीमपि भविष्यदिन्द्रादिपदपर्यायकारणत्वाद् द्रव्यत इन्द्रादिरभिधीयते, भविष्यद्राजकुमारराजवत् । एवमचेतनस्यापि काष्ठादेर्भूत-भविष्यत्पर्यायकारणत्वेन द्रव्यता
पार्थः ॥ पं. १५. भम्भा० गाहा सुगमा । नवरं 'भम्भा' अतिपृथुलमुखढक्काविशेषः । मुकुन्द-मदलौ तु मुरजविशेषौ । केवलमेकतः सङ्कीर्णोऽन्यत्र तु विस्तीर्णो मकुन्दोऽभिधीयते, मर्दलस्तु उभयतोऽपि समः । 'कडम्बा' करटिका । 'तलिमा' तिउल्लिका । शेषं प्रतीतम् ॥
20 ____पं. १८. नोआगमतो भावनन्दिः पञ्च ज्ञानानि, वचनरूपं श्रुतमेवाऽऽगमः, न शेषज्ञानानि, तेनाऽऽगमस्य ज्ञानपञ्चकैकदेशत्वात् । नोशब्दो देशवचनः । अथवेति अत्राप्यागमैकदेश एवायं नन्यध्ययनम् , शेषश्रुतार्णवापेक्षया हि देशवाच्येव नोशब्दः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org