________________
९६
श्रीहरिभद्रसूरिसूत्रितया वृत्या समलङ्कृतं १२०. अक्स्वर सन्नीत्यादि । इयं गताथैव । नवरम्-सप्ताप्येते पक्षाः सपतिपक्षाः। ते चैवम्-अक्षरश्रुतमनक्षरश्रुतमित्यादि ॥८३॥ इदं पुनः श्रुतज्ञानं सर्वातिशयरत्नसमुद्रकल्पम् , तथा मायो गुर्वायत्तवात् पराधीनम् , अतो विनेयानुग्रहार्थ यो यथा चास्य लाभस्तथा दर्शयन्नाह
आगम० गाहा । व्याख्या-आगमनमागमः, आडो अभिविधि-मर्यादार्थवाद् अभिविधिना मर्यादया वा 5 गमः-परिच्छेद आगमः। स च केवलमत्यवधिलक्षणोऽपि भवति अतस्तद्वयवच्छित्त्यर्थमाह-शास्यतेऽनेनेति शास्त्रं
श्रुतम् । आगमग्रहणं तु षष्टितन्त्रादिकुशास्त्रव्यवच्छेदार्थम् , तेषामनागमसात् सम्यक्परिच्छेदात्मकत्वाभावादित्यर्थः, शास्त्रतया च रूढत्वात् , तत आगमश्चासौ शास्त्रं च आगमशास्त्रं तस्य ग्रहणमिति समासः । गृहीतिर्ग्रहणम् । यद् बुद्धेर्गुणैर्वक्ष्यमाणलक्षणैः करणभूतैरष्टभिदृष्टं तद् ब्रुवते श्रुतज्ञानस्य लाभः श्रुतज्ञानलाभस्तं तदेव ग्रहण ब्रुवते । के ? पूर्वेषु विशारदाः-विपश्चितः 'धीराः' व्रतानुपालने स्थिरा इत्यर्थः । अयं गाथार्थः ।।८४॥ 10 बुद्धिगुणैरष्टभिरित्युक्तं ते चामी
सुस्सूसति० गाहा । व्याख्या-विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषते । पुनः पृच्छति प्रतिपृच्छति, तत् श्रुतमशङ्कितं करोतीति भावार्थः । पुनः कथितं सच्छृणोति । श्रुखा गृह्णाति । गृहीत्वा च 'ईहते' पर्यालोचयति 'किमिदमित्थम् ? उतान्यथा?' इति । 'चशब्द: समुच्चयार्थः । अपिशब्दात् पर्यालोचयन् किश्चित् स्वबुद्धयाऽप्युत्प्रेक्षते ।
ततस्तदनन्तरं 'अपोहते च' एवमेतद् यदादिष्टमाचार्येणेति । पुनस्तमर्थमागृहीतं धारयति । करोति च सम्यक् 15 तदुक्तमनुष्ठानमिति, तदुक्तानुष्ठानमपि च श्रुतप्राप्तिहेतुर्भवति, तदावरणक्षयोपशमादिनिमित्तत्वात् तस्येति ।
अथवा यद् यदाज्ञापयति गुरुस्तत् सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छतीति । पूर्वसन्दिष्टश्च सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति । पुनरादिष्टः सन् सम्यक् शृणोति । शेषं पूर्ववत् ॥८५॥
बुद्धिगुणा व्याख्यातास्तत्र शुश्रूषतीत्युक्तम् । इदानीं श्रवणविधिप्रतिपादनायाह
मूअं० गाहा । व्याख्या-'मूकमिति' मूकं शृणुयात् । एतदुक्तं भवति-प्रथमश्रवणे संयतगात्रस्तूष्णीं 20 खल्लासीत् १ । तथा द्वितीये 'हुङ्कारं च' ईषद्वन्दनं कुर्यादित्यर्थः २ । तृतीये 'बाढकारं कुर्यात्' बाढमेवमेतन्नान्य
थेति ३ । चतुर्थश्रवणे गृहीतपूर्वा-ऽपरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् , कथमेतदिति ४ । पञ्चमे तु मीमांसा कुर्यात् , मातुमिच्छा मीमांसा, प्रमाणजिज्ञासेति यावत् ५ । ततः षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गपारगमनं चास्य भवति ६ । परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवति-गुरुवदनुभाषत एव सप्तमे श्रवणे इति ७ ॥८६॥
___ एवं तावत् श्रवणविधिरुक्तः । इदानीं व्याक्यानविधिमभिधित्सुराह25 सुत्तत्थो० गाहा । व्याख्या-सूत्रार्थमात्रप्रतिपादनपरः सूत्रार्थः, अनुयोग इति गम्यते । 'खलु'शब्दस्तु
एवकारार्थः, स चावधारणे । एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत् प्राथमिकविनेयानां मतिमोहः १ । द्वितीयोऽनुयोगः सूत्रस्पशिकनियुक्तिमिश्रः कार्य इत्येवम्भूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च २ । तृतीयश्च 'निरवशेषः' प्रसक्ता-ऽनुप्रसक्तमप्युच्यते एवंलक्षणो निरवशेषः कार्य इति ३ । 'एषः'
उक्तलक्षणो विधानं विधिः प्रकार इत्यर्थः ‘भणितः' प्रतिपादितो जिनादिभिः । क्व ? सूत्रस्य निजेनाभिधेयेन 30 सार्धमनुकूलो योगोऽनुयोगः-सूत्रान्वाख्यानमित्यर्थः, तस्मिन्ननुयोग इति गाथार्थः। आह–परिनिष्ठा सप्तम
इत्युक्तम् , त्रयश्चानुयोगप्रकाराः, तदेतत् कथम् ? इति, अत्रोच्यते, विनेयगणं विज्ञाय त्रयाणामन्यतमप्रकारेण सप्तवार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org