________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं [सू. ११७-२० गा. ८३-८७ ... ११६. इच्चेयमित्यादि । इत्येतद् द्वादशाङ्गं गणिपिटकं अतीतकाले अनन्ता जीवा आज्ञया विराध्य चतुरन्तं संसारकान्तारं "अणुपरियटिसु" त्ति अनुपरावृत्तवन्त आसन् । इदं हि द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधम् , ततश्च 'आज्ञया' सूत्राज्ञयाऽभिनिवेशतोऽन्यथापाठादिलक्षणया विराध्य अतीतकाले अनन्ता जीवाः 'चतुरन्तं संसारकान्तारं नारक-तिर्यड्-नरा-ऽमरविविधक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्ता आसन् जमालिवत् । 5 अर्थाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया गोष्ठामाहिलवत् , उभयाज्ञया पुनः पञ्चविधाचारपरिज्ञानकरणोधतगुर्वादेशादिलक्षणयागुरुप्रत्यनीकद्रव्यलिङ्गधायनेकश्रमणवत, अथवा द्रव्य-क्षेत्र-काल-भावापेक्षयाऽऽगमोक्तानग्रानमेवाज्ञा, एतद्विराधनयवानुपरावृत्ता आसन् । उक्तं च-"सव्वाओ वि गतीओ अविरहिया गाण-दसणधरेहिं" [
] इत्यादि । “इच्चेय"मित्यादि गतार्थमेव । नवरम्-"परित्ता जीवा" इति सङ्खयेया जीवाः, वर्तमानविशिष्टविराधकमनुष्यजीवानां सङ्घयेयत्वात् , "अणुपरियति"त्ति अनुपरावर्तन्ते, भ्रमन्तीत्यर्थः। “इच्चेत". 10 मित्यादि, इदमपि भावितार्थमेव । नवरम्-"अणुपरियटिस्संति" त्ति अनुपरावर्तिष्यन्ते, पर्यटिष्यन्ति इत्यर्थः ।
११७. इच्चेइयं दुवालसंगं गणिपिडगं अतीतकाले अणंता जीवा आणाए आराहेत्ता चाउरंतं संसारकंतारं वितिवइंसु । इच्चेइयं दुवालसंगं गणिपिडगं पडप्पण्णकाले परित्ता जीवा आणाए आराहेत्ता चाउरंतं संसारकंतारं वितिवयंति । इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए आराहेत्ता चाउरंतं संसारकंतारं वितिवतिस्संति । 15 ११७. "इच्चेत"मित्यादि, इत्येतद् द्वादशाङ्गं गणिपिटकं अतीतकालेऽनन्ता जीवा आज्ञया आराध्य चतुरन्तं संसारकान्तारं "वितिवइंसु" त्ति व्यतिक्रान्तवन्तः, चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः । “इच्चेय"मित्यादि गतार्थम् । नवरम्-"विइवयंति" ति व्युत्क्रामन्ति । "इच्चेद"मित्यादि गतार्थमेव । नवरम्-“वितिवयिस्संति" त्ति व्युत्क्रमिष्यन्ते, एतत्प्रभावात् सेत्स्यन्तीत्यर्थः ॥
यदिदमनिष्टेतरभेदभिन्नं फलं प्रतिपादितम् एतत् सदाऽवस्थायित्वे सति द्वादशाङ्गस्योपजायत इत्यत्र आह20 ११८. इच्चेइयं दुवालसंगं गणिपिडगं ण कयाइ णाऽऽसी ण कयाइ ण भवति ण कयाइ
ण भविस्सति, भुविं च भवति य भविस्सति य, धुवे णिअए सासते अक्खए अव्वए अवट्ठिए णिच्चे। से जहाणामए पंचत्थिकाए ण कयाति णाऽऽसी ण कयाति णत्थि ण कयाइ ण भविस्सति, भुविं च भवति य भविस्सति य, धुवा णीया सासता अक्खया अव्वया
अवट्ठिया णिचा, एवामेव दुवालसंगे गणिपिडगे ण कयाइ णाऽऽसी ण कयाइ पत्थि ण 25 कयाइ ण भविस्सति, भुवि च भवति य भविस्सति य, धुवे णिअए सासते अक्खए अव्वए अवट्ठिए णिच्चे।
११८. इच्चेयमित्यादि । इत्येतद् द्वादशाङ्गं गणिपिटकं न कदाचिन्नासीद् अनादित्वात् , न कदाचिन भवति सदैव भावात् , न कदाचिन भविष्यति अपर्यवसितत्वात् । किं तर्हि ? "भुवि चे"त्यादि, अभूद् भवति भविष्यति च । ततश्चेदं त्रिकालभावित्वादचलत्वाद् ध्रुवम् , मेर्वादिवत् । ध्रुवत्वादेव नियतम् , पश्चास्तिकायेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org