________________
श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं
[ सू. ८९-९०
क्रियावादिनः । ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः - जीवा ऽजीवाSS-श्रव-बन्ध-संवर-निर्जरा-पुण्य-पाप-मोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्व-परभेदावुपन्यसनीयौ, तयोरधो नित्याऽनित्यभेदौ, तयोरप्यधः कालेश्वरा -ऽऽत्म-नियति-स्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चैवं विकल्पाः कर्त्तव्याः - अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः । विकल्पार्थश्चायम् - विद्य 5 खल्वात्मा स्वेन रूपेण नित्यश्च कालवादिनः । उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिनः, तृतीयो विकल्पः आत्मवादिनः " पुरुष एवेदं सर्वम्" [ऋग्वेदमं. इ० सू. ९०] इत्यादि, नियतिवादिनश्चतुर्थविकल्पः, पञ्चमविकल्पः स्वभाववादिनः। एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः । परत इत्यनेनापि पञ्चैव लभ्यन्ते । नित्यत्वापरित्यागेन चैते दश विकल्पाः । एवमनित्यत्वेनापि दशैव, एते विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेत्र प्रतिपदं विंशतिर्विकल्पानाम्, अतो विंशतिर्नव गुणा शतमशीत्युत्तरं क्रियावादिनामिति ।
10
७८
[
] इत्यादि ।
एते चाऽऽत्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्रष्टव्याः - एतेषां हि पुण्यापुण्यविवर्जि15 तपदार्थसप्तकन्यासस्तथैव, जीवस्याधः स्व-परविकल्प भेदद्वयोपन्यासः, असत्त्वादात्मनो नित्याऽनित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चाद् विकल्पाभिलापः - नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे च षड् विकल्पाः । तथा नास्ति जीवः परतः कालत इति पत्र विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, एवं द्वादश सप्तगुणाश्चतुरशीतिविकल्पा नास्तिकानामिति ।
20
'चउरासीईते अकिरियावादीणं' चतुरशीतेरक्रियाघादिनाम्, क्रिया पूर्ववत्, न हि कस्यचिदनवस्थितस्य: पदार्थस्य क्रिया समस्ति तद्भावे चावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः । तथा चाऽऽहुरेके— क्षणिकाः सर्व संस्काराः, अस्थितानां कुतः क्रिया ? | भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ॥१॥
'सत्तट्ठीए अन्नाणियवादीणं' ति सप्तषष्टिरज्ञानिकवादिनाम्, क्रिया प्राग्वत् । तत्र कुत्सितं ज्ञानमज्ञानं तदे - षामस्तीत्यज्ञानिकाः । नन्वेवं लघुत्वात् प्रक्रमस्य प्राग् बहुव्रीहिणा भवितव्यम् ततश्चाज्ञाना इति स्यात्, नैष दोषः, ज्ञानान्तरमेवाज्ञानम्, मिथ्यादर्शनसहचरितत्वात्, ततश्च जातिशब्दत्वात् गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति । अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिकाः, असञ्चिन्त्यकृतबन्धवैफल्यादिप्रतिपत्तिलक्षणाः । ते चामुनोपायेन सप्तषष्टिर्ज्ञातव्याः- तत्र जीवादीन् नव पदार्थान् पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदा25 दयः उपन्यसनीयाः, सच्चं १ असत्त्वं २ सदसत्त्वं ३ अवाच्यत्वं ४ सदवाच्यत्वं ५ असदवाच्यत्वं ६ सदसदवाच्यत्वमिति ७ च, एकैकस्य जीवादेः सप्त सप्त विकल्पाः, त एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा—सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्वं चेति, त्रिषष्टिमध्ये प्रक्षिप्ताः सप्तषष्टिर्भवन्ति । को जानाति जीवः सन् ? इत्येको विकल्पः, ज्ञातेन वा किम् ?, एवं असदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽ-वाच्यस्य ? इति को व जानातीत्येतत् ?, न कश्चिदपीत्यभिप्रायः ।
30
" बत्तीसार वेणइयवादीणं" द्वात्रिंशतो वैनयिकवादिनाम्, क्रिया पूर्ववत् । तत्र विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाऽऽचार - शास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवातव्याः - सुर-नृपति-ज्ञाति-यति- स्थविरा ऽवम-मातृ-पितॄणां प्रत्येकं कायेन वाचा मनसा दानेन च देश-कालोपपन्नेन
Jain Education International
For Private Personal Use Only
www.jainelibrary.org