________________
अङ्गप्रविष्टश्रुतज्ञानं आचाराङ्गं च ] श्रीदेवयाचकविरचितं नन्दिसूत्रम् ।
७५ संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ । से णं अंगट्ठयाए पढमे अंगे, दो सुयक्खंधा, पणुवीसं अज्झयणा, पंचासीती उद्देसणकाला, पंचासीती समुद्देसणकाला, अट्ठारस पयसहस्साई पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा । सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जति णिदंसिज्जंति उवदंसिज्जंति । से एवंआया, एवंनाया, 5 एवंविण्णाया, एवं चरण-करणपरूवणा आघविज्जइ । से तं आयारे १ ।
८७. से किं तमित्यादि। अथ किं तदाचारवस्तु ?, यद्वा अथ कोऽयमाचारः ? । आचरणमाचारः, आचर्यत इति वा आचारः, शिष्टाचरितो ज्ञानाद्यासेवनविधिरिति भावार्थः, तत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते । अनेन चाऽऽचारेण करणभूतेन श्रमणानामाचारादि आख्यायत इति योगः। अथवा आचारे "ण". मिति वाक्यालङ्कारे 'श्रमणानां प्राग्निरूपितशब्दार्थानां 'निग्रन्थानां' बाह्या-ऽभ्यन्तरग्रन्थरहितानाम्, आह-श्रमणा 10 निर्ग्रन्था एव भवन्ति विशेषणं किमर्थम् ?, उच्यते, शाक्यादिव्यवच्छेदार्थम् । उक्तं च-"निग्गंथ सक्क तावस गेरुय आजीव पंचहा समणा।” [पिण्डनि. गा. ४४५] तत्राऽऽचारः-ज्ञानाद्यनेकभेदभिन्नः, गोचरः-भिक्षाग्रहणविधिलक्षणः, विनयः-ज्ञानादि, वैनयिक-फलं कर्मक्षयादि, शिक्षा ग्रहणा-ऽऽसेवनाभेदभिन्ना, विनेयशिक्षेत्यन्ये, विनेयः-शिष्यः, भाषा-सत्या १ असत्यामृषा २ च, अभाषा-असत्या १ सत्यामृषा २ च, चरणं-व्रतादि, करणंपिण्डविशुद्धयादि, “जाता-माता-वित्तीओ" त्ति यात्रा-संयमयात्रा, मात्रा-तदर्थमेवाहारमात्रा, वर्त्तनं वृत्तिः विवि- 15 धैरभिग्रहविशेषैरिति, आचारश्च गोचरश्चेत्यादि द्वन्द्वः क्रियते, ततश्चाऽऽचार-गोचर-विनय-वैनयिक-शिक्षा-भाषाऽभाषा-चरण-करण-यात्रा-मात्रा-वृत्तय आख्यायन्ते । इह च यत्र कचिदन्यतरोपादाने अन्यतरगतार्थाभिधानं तत् सर्व तत्माधान्यख्यापनार्थमेवावसेयम् । “से समासतो" इत्यादि, 'सः' आचारः 'समासतः सङ्क्षपतः पञ्चविधः प्रज्ञप्तः, तद्यथा-ज्ञानाचार इत्यादि । तत्र ज्ञानाचारः
काले १ विणए २ बहुमाणे ३ उवहाणे ४ तहा अनिण्हवणे ४ । वंजण ६ अत्थ ७ तदुभए ८ अट्ठविहो णाणमायारो ॥१॥ [दशवै. नि. गा. १८६ ]
20
दर्शनाचा
णिस्संकिय १ णिकंखिय २ णिनितिगिच्छा ३ अमूढदिट्ठी ४ य ।। उववूह ५ थिरीकरणे ६ वच्छल्ल ७ पभावणे ८ अट्ठ ॥२॥ [दशवै. नि. गा. १८४] अतिसेस १ इंड्ढि २ आयरिय ३ वादि ४ धम्मंकधि ५ खमग ६ मित्ती ७।।
विज्जा राया-गणसम्मया ८ य तित्थं पभावेति ॥३॥ [निशीथमा. गा. ३३] चारित्राचारः
पणिहाणजोगजुत्तो पंचहिं समितीहिं तिहि य गुत्तीहि ।
एस चरित्तायारो अट्ठविहो होति नायवो ॥४॥ दशवै. नि. गा. १८७] तपाचार:
बारसविहम्मि वि तवे सभितर-बाहिरे जिणुवदिढे ।। अगिलाए अणाजीवी णायब्बो सो तवायारो ॥५॥ [दशवै. नि. गा. १८८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org