________________
३३१
परिशिष्ट (३) २१२. अथ सालू (र) नामकं वृत्तं ल(क्षयति), कण्णेक्केति । यत्र पढम-प्रथ(मं) दिअ-दत्तः स्थापित इति यावत् पअहिपादेषु कण्णे(क)-कर्ण एक: पलइ-पतति, विलअं-विलये पादांते इति यावत् करअल-करतलं गुर्वंतः सगण इति यावत् दिअदत्तः, तह मह-तन्मध्ये गुरुद्वयात्मकगण सगणयोर्मध्ये इति यावत् मत्ता वण्ण सुल(लि) अ-मात्रावर्णसुललिताः छह चउक्कलषट्चतु(कला) किअ-कृताः, एवं च पअ-पदे पअलिअ(उ)-प्रकटिताः बत्ती(स)ह कल-द्वात्रिंशन्मात्राः ठवह-स्थापय, हे मणहरणि-मनोहरणि रअणिपहुवअणि-(र)जनीप्रभुवदने कमलदलनयने सरस सूपअ-सरससुपदं रसैः लघुभिः सहितानि शोभनानि पदानी यस्य तत्तथा तह तथा वरं सम्यक् यथा स्यात्तथा ठइअ-स्थापितं तत् धुअ-ध्रुवं निश्चितं वरं-वृत्त श्रेष्ठं सालूर-सालूरनामकं वृत्तं भण-कथय इति कइ दिणअर-कविदिनकरः भुअअ पए-भुजगपतिः भणि-भणति ॥ कर्णानन्त(रष)ट्चतुःकलोत्तरसगणरचितचरणः सालर इति फलितार्थः ॥
२१३. शालूरमुदाहरति जमिति । जं-यत् यस्मात् फुल्लु-(पुष्पितं) कमलवनं वहइ लहु पवण-वाति मन्दपवनः सव दिसि विदिस-सर्वत्र दिक्षु विदिक्षु भमरकुल-भ्रमरकुलस्य झंकारः पतति वण रवइ कोइलगण-वने रौति कोकिलगणः विरहि हिअअविरहिहृदयं दरविरसं-भविगतरसं हअ-जातं । उलसि उठिअ मण-उल्लासोत्थितमनाः सरस णलिणिदल किअ सअणासरसनलिनीदलकृतशयनः आणंदिअ-आनन्दितः, पल्लट्ट-प्रत्यावृत्तः निवृत्त इति यावत् सिसिर रिउ-शिशिरऋतुः, दिअस दिहर भउदिवसा दीर्धाः जाताः, अतो हेतो; कुसुम समअ अवतरि(अ) वणा-कुसुमसमयः वसंतकाल इति यावत् अवतीर्णो वने ॥ शालूरो निवृत्तः ॥
२१५. त्रिभंगीमुदाहरति । वलइअ विसहर-वल(यि)तवि(ष)धर: तिलइअ सुंदर चंदं-तिलकितसुन्दरचन्द्रः मुणि आणंदंमुन्यानंद: मुन्यानंदस्वरूप: लज्जकेवेत्यर्थः जण कंद-जनकंद: त्रैलोक्यमूलमिति यावत् बरदगमणक (र)-वृषभगमनकरः तिसुल डमरु धर-त्रिशूलडमरुधरः णअणहि डाह अणंगनयनाभ्यां दग्धानंगः सिरगंग-शिरोगंगः गोरिअधंग-गौर्य्यर्धांग: हर-हर: जअइ जअइजयति जयति । भुजयुगधृतगिरिः दहमुह कंस विणासा-दशमुखकंशविनाश: पिअ वासा-पीतवासाः सुंदर हासा-सुभगहास्यः, बलि छलि-बलि छलयित्वा (महि हरु-) महीहर:-पृथ्वीहारक इति यावत्, असुरविलयकरः मुणिजण माणसहंसा-मुनिजनमानसहंसः, अवहट्टभाषायां व्यत्यासे दोषाभावात् सूह भाषा-सुभाषः मधुरवचन इति यावत् उत्तमवंशः हरिः श्रीकृष्णः जअइ-जगति जअइजयति ॥ त्रिभंगी निवृत्ता ॥
क्षौणीपालकमौलिरत्नकिरणस्फूर्जत्प्रभाराजिताम्, अम्मोजद्वितयः परास्तगणनान्तेवासिसंसेवितः। सद्विद्याकवितालताश्रयतरुस्तेजस्विनामग्रणीर्जातः श्रीजगदीश इत्यभिहितो नाम्ना तदीयः सुतः ॥११॥ स्फू ब्राह्मण्यतेजःकरनिकरसमुद्भूतदिग्जालपूज्य: श्रीकृष्ण(?) जपनियमविधिध्वंसिताशेषपापः । आयुर्वेदार्थदीक्षागुरुरतिसुमतिः शब्दविद्यानुरक्तो, जातः पुत्रस्तदीयो विमलतरयशाः कृष्णदेवाभिधानः ॥१२॥ साहित्याम्भोधिपारेगतविमलमतिर्जानकीशांध्रियुग्म, ध्यानासक्तान्तरात्मा यमनियमयुतस्तर्कविद्यानुरक्तः । जातो वंशीधराख्यस्त्रिभुवनविलसत्कीर्तिचन्द्रस्य यस्य, स्वीयप्रौढप्रतापानलकिरणसमुत्तापितारेस्तनूजः ॥१३।। वर्षे नन्दनवर्तुचन्द्र(१६९९) मिलिते आषाढमासे सिते, पक्षे चन्द्रदिने तिथौ प्रतिपदि श्रीचन्द्रमौलेः पुरे । तातात्सम्यगधीत्य तेन रचिता सेयं प्रकाशाभिधा, भाषा पिंगलटिप्पनी रघुपतेानात् समाप्ति गता ॥१४॥ यावद्रामेति नाम प्रभवति जगतां तारणे श्रीहनूमच्चित्ते भक्तिश्च यावद्रघुपतिचरणाम्भोजयुग्मे दृढास्ति । यावत् कूर्मस्य पृष्ठे निवसति पृथिवी सप्तगोत्रादियुक्ता, तावज्जीयान्मम *** कृतिरियं टिप्पनी पिंगलस्य ॥१५॥
(इति वंशीधरकृतपिंगलटिप्पनी समाप्ता ॥)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org