________________
प्राकृतपैंगलम्
१९७. गीतामुदाहरति, जहेति । जह-यत्र केअइ चारु चंपअ चूअ मज्जरि वंजुला - केतकिचारुचंपकचूतमंजरीवंजुलानि (केतकी) चारूणि चंपकानि चंपकपुष्पानि चूतस्य मंजर्य्यः नवपल्लवानि वंजुलानि चैतानीत्यर्थः फुल्लुपुष्पितानि विकसितानीति यावत्, केसुकाणण-किंशुककाननं सव दीस दीसइ-सर्वस्यां दिशि दृश्यते, भम्मरा - भ्रमरा: पाण वाउप्र (ल) - पानव्याकुला मकरंदानुपानप्रमत्ता इत्यर्थः जाता इति शेषः । पम्म गंध विबंधु - पद्मगंधविबंधुः क (म) लसौरभस्य विशिष्टो बंधुरित्यर्थः, बंधुरः विचक्षणो मानिनीमानभंजने इति भावः । मंद मंद - मन्दमन्दः समीरणा - समीरणः वातः वह-वाति, तरुणीजनाः णिअ-केलि कौ (को) तुक लास लंगिम लग्गिआनिजकेलिकौतुकलास्यलंगमलग्नाः ॥
१९८. अथ विंशत्यक्षरचरणस्य वृत्तस्यैकपंचाशदधिक (नव) नवतिसहस्रोत्तरपंच (षट्) लक्षतमं (६९९०५१) भेदं गंड(क) नामकं वृत्तं लक्षयति, रग्गणेति । रग्गणा-रगणः मध्यलघुर्गण इति यावत् पलंतआ-पतति पुनः कंतआ-कांतः णरंद-नरेंद्रो मध्यगुरुर्जगण इति यावत् पततीति पूर्वेणान्वयः एवं सुसक्कएण- स्वशक्त्या निजकवित्वसामर्थ्येन सुछक्कएण-सुषट्केन भण गणषट्केनेत्यर्थः सह एक्क - एक हारु-हारं गुरुं मंतही आमंत्रयस्व स्थापयस्वेत्यर्थः, पाअ अंतही - पादांते सुसद्द - सुशब्दः शोभनो लघुर्देय इति शेषः । यत्र संख—संख्याया बीसए - विंशतिः सुवण्ण-सुवर्णा: तीस मत्त - त्रिंशन्मात्रा : पाअ पत्त-पादे प्राप्ताः तीअ भाअएण - तृतीयभागेन त्रिंशत्तृतीयभागो दश (त) त्संख्येति यावत् हार (गुरुः) स दश लघुः आउ - आयाति पततीति यावत्, ए-एनं गंडआ-गंडकं गणेहगणयस्व बुध्यस्वेत्यर्थः, इति फणिंद - फर्णीद्रः गाउ - गायति ॥ प्रथमं गुरुस्तदनंतरं लघुरेवंक्रमेण यत्र विंशत्यक्षराणि चरणे पतंति तद्गंडकनामकं वृत्तमिति फलितार्थः ।
१९९. गंडकमुदाहरति, तावेति । जाव - यावत् हत्थ-हस्ते विज्जु रेह रंग गाइ-विद्युद्रेखारंगवत् अतिचंचलमिति भावः एक्कएकं दव्व- द्रव्यं णच्च-नृत्यति, ताव बुद्धि-तावबुद्धिः तावत् शुद्धिः तावत् मानः तावत् दानं तावत् गर्वः । एत्थ अंतः एतदन्ते सोइ-तत् द्रव्यं अप्प दोस-आत्मदोषेण देब रोस-दैवरोषेण यदीति शेषः णठ्ठ-नष्टं होइ-भवति तदेति शेषः, कोइ बुद्धि - (कुत्र बुद्धि:) कुत्र शुद्धिः कुत्र मानः कुत्र दानं कुत्र गर्वः ॥
३३०
२००. अथैकविंशत्यक्षरचरणस्य वृत्तत्य त्रि (द्वि) पंचाशदक्षरैकशताधिकसप्तनवतिसहस्रोत्तरं विंशतिर्लक्षं भेदा (भ) वंति, तत्र पंचोत्तरशतत्रयाधिकनवाधिकनवतिसहस्रोत्तरैकलक्षतमं (त्रिनवत्युत्तरनवशताधिकद्विसहस्रोत्तरत्रिलक्षतमं ३०२९९३) भेदं स्रग्धरानामकं वृत्तं लक्षयति, बे कण्णेति । यत्र प्रथमं बे कण्णा - द्वौ कण गुरुद्वयात्मकगणावित्यर्थः, ततो गंध हारा - गंधहारौ लघुगुरू इति यावत्, ततश्च बलअ दिअगणा-वलयद्विजगणौ गुरुलघुचतुष्टयात्मकगणाविति यावत्, ततः हत्थ हारा: हस्तहारौ सगणगुरुकावित्यर्थः यत्र पलंता - पततः, ततश्च एक्कल्ला - एकलं शल्यं लघुः कण्णा - कर्णो गुरुद्वयात्मको गण इत्यर्थः अंत- अंते कर्णगणाग्रे इत्यर्थः धअपअ सहिआ - ध्वजपटसहितः लघ्वादित्रिकलगणसहित इत्यर्थ कंता - कात: कंकणा - कंकणं गुरुरित्यर्थः यत्र पततीति शेषः । जं-यत्र एक्कग्गला - एकाधिक बीसा - विंशतिः एकविंशतिरिति यावत् लहु गुरु - लघुगुरवः पलइ - पतंति बारहा - द्वादश दीहा - दीर्घा: होहिभवंति, पिंडा-पिंडिता: बत्तीस अग्गा सउ - द्वात्रिंशदधिकशतं मात्रा इति शेषः यत्र भवंतीति पूर्वेणान्वयः, सा फणि भणिआफणिभणिता मुद्धा - मुग्धा मनोज्ञेति यावत् सद्धरा-स्रग्धरा होइ-भवति ॥ स्रग्धरानामकं तद्वृत्तं भवतीत्यर्थः ॥
२०१. स्रग्धरामुदाहरति, ईसेति । ईसा रोस प्पसाद प्पणदिसु-ईर्ष्यारोष (प्र) सादप्रणतिषु ईर्षया यो रोषस्तन्निवृत्तये यः प्रसादस्तन्निमित्तं याः प्रणतयस्तास्वित्यर्थः बहुओ सग्ग गंगा जलेहि-बहुश: स्वर्गगंगाजलैः आमूलं पूरिदाए - आमूलं पूरितया तुहिण कर कला रुप्प सिप्पीअ - तुहिनकरकलारौप्यशुक्त्या गी (गिरि) सुआ पाअ पंकेरुहाणं - गिरिसुता (पाद) पंकेरुहयो: दोहिं - द्वाभ्यां णद मौ (3) लिणिहिताग हत्थेहिं दोहिं नतमौलिनिहिताग्रहस्ताभ्यां द्वाभ्यां जोओ (ण्हा) मोत्ताहलिल्लं - ज्योत्स्नायुक्तं (मुक्ता) फलयुक्तम् अग्धं सिग्घं देत्तो व (अर्घ्यं शीघ्रं दददिव रुद्दो- रुद्रः जअइ-जयति ॥ स्रग्धरा निवृत्ता ||
२०२. अथैकविंशत्यक्षरचरणस्य वृत्तस्य विंशत्युत्तरशतद्वयाधिकचत्वारिंश ( एकोनविंशत्युत्तरपंचशताधिकपंचा(श)त्सहस्त्रोत्तरचतुर्लक्षतमं (४५०५१९) भेदं नरेन्द्रनामकं वृत्तं लक्षयति, आइहीति । जत्थ-यत्र आइहि-आदौ पाअगण-पादगणो गुर्वादिगण इति यावत् पअलिअ-प्रकटितः, अंत- अंते भगणावसाने इति यावत् जोहल - जोहलो मध्यलघुरगण इत्यर्थः धरीजेध्रियते स्थाप्यत इति यावत्, ततः काहल सद्द गंध- काहलशब्दगंधा : एकलघव इत्यर्थः इअ - एते मुणि गण-मुनिगणाः सप्त गणा इति यावत् देया इति शेष:, तथाच रगणानंतरं सप्त लघवः स्थाप्या इति भावः, ताह-ततः सप्तलघ्वनंतरमिति यावत् कंकण-कंकणं गुरुरित्यर्थ: करीजे - क्रियते । ततश्च एक भेरी (रि) - एका भेरी लघुरित्यर्थः सद्दइ- शब्दायते स्थाप्यत इत्यर्थः णरवइ- नरपतिर्मध्यगुरुर्जगणः चल-चलति तिष्ठतीत्यर्थः, सुभव्वा-सुभव्यः संख - लघ्वात्मकोगण: फुक्कइ - फुत्क्रियते उच्यते इत्यर्थः, जह-यत्र अंत-अंते पादान्ते चामर जुग्ग - चामरयुगं गुरुद्वयमित्यर्थः, पअलिअ-प्रकटितम् एह-एतत् णरिंदउ छंदा-नरेन्द्रच्छंदः ॥ २०३. नरेन्द्रमुदाहरति, फुलिअ इति । केसु-किंशुकं फुलिअ-पुष्पितं तह तथा चंद- चन्द्रः पअलिअ - प्रकटितः ||
Jain Education International
*
For Private Personal Use Only
壯
www.jainelibrary.org