________________
३२९
परिशिष्ट (३) उरग बइ-उरगपतिः सइ-तां चंदमलु-चंद्रमाला (कहइ) कथयति ॥ अत्र पुणबि दिअबर जुअल मझ्झ करअल करहीति क्वचित्पाठः, मज्झ करअल-मध्यकरतलं मध्ये करतलं यस्य तादृशं द्विजवरयुगलं पुनरपि कुरुष्वेत्यर्थः, परंतु अत्र पूर्वोक्तात् मध्ये करतलं कुरुष्वेत्यत्र मध्यपदसमभिव्याहारान्देवाग्रिमद्विजवरस्य मध्यकरतलत्वप्राप्त्या पुनर्मध्यकरतलमिति द्विजवरविशेषणं पद्यपूरणायैवेति संप्रदायविदः, द्विजवर(द्वय)सगणोत्तरद्विजवर(द्वयः)रचितचरणा चंद्रमालेति निष्कर्षः ।
१९१. चंद्रमालामुदाहरति, अमिअ करेति । अमिअ कर-अमृतकर: किरण-किरणान् धरु-धरति, बण-वनं फुल्लु णब कुसुम-फुल्लनूतनपुष्पं ज्ञातमिति शेषः, काम-कामः कुबिअ भ(इ)-कुपितो भूत्वा सर ठबई-शरान् स्थापयति णिअ धणू-निजधनुः धरइ-धरति । पिक-पिक: कोकिल: समअ-समये वसंतकाले णिक-समीचीनं यथा स्थात्तथा रबइ-रौति, तुअ-तव कंत-कांत: प्रिय इत्यर्थः थिर हिअलु-स्थिरहृदयः गमिअ दिण-गमितानि दिनानि पुनः ण मिलु-न मिलंति, सहि-हे सखि तस्मात् त्वं पिअ णिअलु-प्रियनिकटे जाहि-गच्छ ॥ कलहांतरितां कांचिन्नायिकां प्रति सखीवाक्यमेतत् ।।
१९२. अथैकोनविंशत्यक्षरचरणवृत्तस्य चतुश्चत्वारिंशदुत्तरैकशताधिकद्विषष्टिसहस्रोत्तरद्विलक्षतमं भेदं धवलनामकं वृत्तं लक्षयति, करिअ इति । हे सरसमानसे सुमुखि रमणि जसु-यस्य पअ पअ अले-(पादे) पादे पतितान् सरस गण-श्लाघ्यगणान् दिअबर चउ-द्विजवरान् चतुर्लघुकगणान् चतुरः ठइअ ठइ-स्थापयित्वा स्थापयित्वा कमलगणः सगणोंऽतगुरुरित्यर्थः, कर पाणि कमल हत्थमिति सगणनामसु कमल शब्दस्योपात्तत्वात्, चउ पअहि-चतुर्षु पदेषु प्रतिचरणमित्यर्थः करिअ-क्रियते तत् धवलकं वृत्तमित्यर्थः, महिअले-महीतले कहि-कथ्यते इति सुगुणजुअ-सुगुणयुक्तः विमलमइ-विमलमतिः फणिपति: पिंगलः सहि सत्यं भणति ।। यत्राष्टादशलघुरनंतरमेको गुरुः पतति तत् धवलनामकं वृत्तमिति फलितार्थः ।।
१९३. धवलमुदाहति, तरुणेति । तरुण तरणि-तरुणः माध्याह्निकः तरणिः सूर्यः तवइ धरणि-तापयति धरणी, पवण वह खरा-पवनी वाति खरः, लगणहि जल-निकटे नास्ति जलं, जण जिअण हरा-जनजीवनहरं बड मरु थल-महत् मरुस्थलं विद्यते इति शेषः । दिसइ चलइ-त्विषोऽपि चलंति तरुणतरणिकिरणा अर्कत्विषोऽपि चलंतीवेत्यर्थः, हिअअ डुलइ-हृदयं कंपते, हम इकलि बह-अहमे (क)ला वधूः घर णहि पिअ-गृहे नास्ति पतिः, सुणहि पहिअ-शृणु हे पथिक कहु-कुत्रापि तव मनः स्थातुमिति शेषः इछइ-इच्छति ॥ कस्याश्चिद्वाग्विदग्धाया इदं वाक्यम्, अत्र पथिकपदं निवासस्थलकथनाहत्वं मार्गप्राप्तग्रामवासयोग्यत्वं च व्यंजयति, तरुणतरणिपदाभ्यां चंडाशुकिरणभीत्या निखिलपथिकसंचारअ(शू)न्यतयाग्रिममार्गस्यातिदुर्गमत्वं व्यज्यते, एकलेति पदमन्यजनावलोकनीयतया यथेच्छक्रीडाकारित्वं व्यंजयति, सर्वथात्रैव त्वया स्थेयमिति व्यंजयति । धवलो निवृत्तः ।।
१९४. अथैकोनविंशति(त्यक्षर)चरणस्य वृत्तस्य द्विसप्तत्यधिकैकशताधिकत्रिसहस्रतमं भेदं शंभुनामकं वृत्तं लक्षयति, अवलोआअमिति । सुच्छंदं-सुच्छंदः एतदिति शेषः (भणि-) भणित्वा (मण) मझ्झे-मनोमध्ये सुक्खं-सुखं संवुत्तं-संवृत्तं त्वम् अवलोआअं-अवलोकय कुंतीपुत्ते संजुत्तं-कुंतीपुत्रेण संयुक्तम् अग्रस्थितगुरुद्वयात्मकगणयुक्तमिति यावत् हत्था-हस्तं गुर्वंतसगणमिति तावत् दिज्जसु-ददस्व अग्गे-अग्रे कर्णाग्रे इति यावत् एवं(अं) गण दिज्जसु-एवं प्रकारेण गणं ददस्व, पुनरपि सगणकौँ देहीत्यर्थः, अंते-सगणकर्णान्ते सुपिअं-सुप्रियं लघुद्वयात्मकं गणं ठवि-स्थापयित्वा अंते-पादांते सत्ता हारा-सप्त हारान् गुरून् किज्जसु-कुरुष्व इअ-इति प्रकारेणेति भावः बत्तीसा णिअ मत्ता-द्वात्रिंशन्निजमात्राः जं-यत्र पाअह-पादेषु पतंतीति शेषः संभू णामाअं-शंभुनाम्ना छंदो-छंद: जानीहीति शेषः ।
१९५. शंभुमुदाहरति, सिअ विठ्ठीति । सिअ विठ्ठी-शीतवृष्टिः किज्जइ-क्रियते जीआ लिज्जइ-जीवो गृह्यते देवेनेति शेषः, बाला वुढा-बाला वृद्धाः कंपंता-कंपते पच्छा वाहअ-पश्चिमवाता: वह-वांति, काअह-काये लग्गे-लगंति, सव्वा दीसा-सर्वा दिशः झंपंता-आच्छन्ना भवंतीत्यर्थः । जइ जड्डा रोसइ-यदि शीतं रुष्यति, तदा चित्ता हासइ-चित्तं हसति, पेटे-उदरे अग्गी, अग्निः थप्पीआ-स्थाप्यते, कर पाआ सं(भरि) करपादौ संकोच्य भित्तस्-िमध्ये किज्जे-क्रियते अप्पा अप्पी-आत्मा आत्मनि लुक्कीआगाप्यते । कस्यचिद्दरिद्रस्यैतद्वाक्यं । शंभुनिर्वृत्तः ॥
१९६. अथ विंशत्यक्षरचरणस्य वृत्तस्य षट्सप्तत्युत्तरपंचशताधिकाष्टचत्वारिंशत्सहस्रोत्तरं दश लक्षं भेदा भवंति, तत्राष्टोत्तरशताधिकं (षट्सप्तत्यधिकं) द्विसप्ततिसहस्रोत्तरत्रिलक्षतमं (३७२०७६) भेदं गीतानामकं वृत्तं लक्षयति, जहीति । हे मुद्धि-मुग्धे जहि-यत्र आइ-आदौ हत्थ-हस्तः गुर्वतः सगण इति यावत् णरेंद बिण्णवि-नरेंद्रद्वयमपि मध्यगुरुजगणद्वयमपीति यावत्, ततः पाअ-पाद: आदिगुरुर्भगण इत्यर्थः, पंचम-पंचमः जोहलो-मध्यलधुरग(ण) हति यावत्, जहि यत्र छट्ठहि-षष्ठे ठाइ-त्थ(स्था)ने हत्थ-हस्तः गुर्वंतः सगणः अंतहि-अंते सगणान्ते पादांते वा सल्ल-शल्यं लघुः णेउरो-नूपुरं गुरुः दीसइ-दृश्यते । इदं च क्रियापदं सर्वैः प्रथमांतैर्गणवाचकैः पदैः सह योजनीयं । सोइ-तत्तत् णीअउ-समीचीनं सव्व लोअहि जाणिओ-सर्व्वलोकैतिं त्रैलोक्यप्रसिद्धमिति यावत्, कवि सिठ्ठि सिठ्ठ-कविसृष्ट्या सृष्टं दिट्ठ दिठ्ठ-दृष्ट्या दृष्टं पिंगलेण वखाणिओ-पिंगलेन विख्यापितं गीअ छंदतद्गीतानामकं वृत्तमित्यर्थः । वृत्तविशेषणानि पद्यपूरणायेति मंतव्यं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org