________________
प्राकृतपैंगलम्
३२८ भणति ॥ यगणषचितचरणं क्रीडाचक्रमिति फलितार्थः ।
१८३. क्रीडाचक्रमुदाहरति, जहा इति । जहा-यत्र कबंधा-कबन्धान् खाए-भक्षयित्वा भूत बेताल-भूता बेतालाः णच्चंत गाबंत-नृत्यंति गायंति, सिआ फार फेक्कार हक्का रबंता-शिवाः स्फारफेत्कारहक्का रुवत्यः कण रंधा फुले-कर्णरंध्र स्फुटंति । कआ टुट्ट-कायस्तुटति, मंथा-मस्तकं फुट्टेइ-स्फुटति, कबंधा णचंता हसंता-(कबंध) नृत्यति हसंति, तहा-तत्र संगाम मज्जे-संग्राममध्ये वीर-हम्मीर: तुलंता त्वरितः सन् जुझंता-युध्यते ॥ क्रीडाचकं निवृत्तं ।।
१८४. अथाष्टादशाक्षरचरणस्य वृत्तस्यैकोनविंशत्युत्तरत्रिनवतिसहस्र(९३०१९)तमं भेदं चर्चरीनामकं वृत्तं लक्षयति, आईति । आइ-गण-(रंग)णो मध्यलघुर्गण इत्यर्थः ताल-तालो गुर्वादिस्त्रिकल इति यावत् दिज्जह-दीयतां मझ्झआ-मध्ये एतदनंतरमित्यर्थः सद्द हार-शब्दहारयोः लघुगुज़रिति यावत् बिण्णवि-द्वयमपि पलंत-पतति शब्दहारौ वारद्धयं (प)ततः, बेबि काहल-द्वावपि काहलो लघू हार-हारं गुरुमित्यर्थः पूरह-पूरय ततश्च सोहणा-शोभने संख कंकण-शंखकंकणे लघुगण (गुरु) इति यावत् पूरयेति पूर्वेणान्वयः, हे सुंदर सब लोअहि बुझ्झआ-सर्वलोकैर्बुद्धां मोहणा-मोहिनी चित्तस्येति भावः चर्चरी भण-कथय इति णाअ राअ-नागराजः पिंगलः भणंत-भणति । रगण-सगण-जगणद्वय-भगण(रगण) रचितचरणा चर्चरीति फलितार्थः ।
१८५. चर्चरीमुदाहरति, पाअ णेउरेति । हंस सद्द सुसोहणा-हंसशब्दवत् सुशोभनं णेउर-नूपुरं यस्या इति शेषः यथायथं योजनीयः पाअ-पादयोः झंझणक्कइ-झंझणायते, थोर थणग्ग-विस्तीर्णस्तनाग्रे थूलस्थूलं मणोहर-मनोहरं मोत्तिदाम-मौक्तिकदाम णच्चइ-नृत्यति, तिक्खचक्खु क(ढक्ख) आतीक्ष्णचक्षुःकटाक्षः बाम दाहिण-वामदक्षिणयोर्भागयोरिति भावः ॥
१८६. अथैकोनविंशत्यक्षरचरणस्य वृत्तस्य पंचलक्षं चतुर्विंशतिसहस्रमष्टाशीत्युत्तरं शतद्वयं ५२४२८८ भेदा भवंति, सत्र सप्तत्रिंशोत्तरशतद्व(त्र)याधिकैकोनपंचाशत्सहस्रोत्तरैकलक्षतमं(१४९३३७) भेदं शार्दूलविक्रीडित(?) नामकं वृत्तं लक्षयति, भविति । जं-यत्रैकोनविंशत्यक्षरचरणे वृत्ते प्रथमं मो-मगणस्त्रिगुरुर्गणः ततः सो-सगणो तगुरुः, ततश्च जो-जगणः मध्यगुरु: ततश्च समंतगुरबोसम्यगंते गुरुर्येषां तादृशाः स त तो-सतताः सगण-तगण-तगणा इत्यर्थ सगणोंऽतगुरुस्तगणोंऽतलघुः पुनश्च तगण इत्यर्थः, एवंप्रकारेण पादे एऊण बिसा बणो-एकोनविंशतिर्वर्णाः पतंति, यत्र च चउ पओ-चतुःपादे पिंडीअं-पिण्डीभूताः पुनाः बत्तीस रेहे-द्वात्रिंशद्रेखा: लघव इत्यर्थः, अठ्ठासि जोणी-अष्टाशीतियोनयः अष्टाशीतिमात्राणां कारणानीति यावत् चौ(चो) आली (सह) हार-चतुश्चत्वारिंशत् हारा' गुरवः येषामष्टाशीतिमात्रा भवंति तादृशाश्चतुश्चत्वारिंशद्गुरव इत्यर्थः, एवंप्रकारेण छेहत्तरि बण्णओ-षट्(सप्ततिवर्णा)प्रतिचरणं सउ बीस मत्त-विंशत्यधिकशतमात्राश्च भणिअं-भणिताः, तत् सद्लसट्टा-शार्दूलसाटकं मुणो-जानीत इति पिंगल भणे-पिंगलो भणति ।
१८७. शार्दूलसाटकमुदाहरति, जे लंकेति । जे-ये लंका गिरि मेहलाहि-लंकागिरिमेखलायाः त्रिकूटाचलकटकादित्यर्थः खलिआ-स्खलिताः ततश्च संभोगखिन्नोरगीस्फारोत्फुल्लफणावलीकवलनेन दरिद्दत्तणं-दरिद्रत्वं पत्ता-प्राप्ताः । ते इण्हि-इदानीं मलयानिलाः विरहिणीनिःश्वाससंपक्किण: संतः शिशुत्वेऽपि तारुण्यपूर्णा इव बहला जाता । कर्पूरमंजरीसाटके देवीनियुक्तविचक्षणायाः वाक्यमेतत् ।।
१८८. पुनरपि शार्दूलविक्रीडितं प्रकारांतरेण लक्षयति, पत्थारे इति । जह-यत्र पत्थारे-प्रस्तारे बण्णुज्जलं-वर्णोज्ज्वलानि तिण्णि चामर बरे-त्रीणि चामरवराणि गुरूणि दीसंति-दृश्यंते, ततश्च उक्किठ्ठ-उत्कृष्टं लह बिणि-लघुद्वयं चामर-चमरं गुरुरित्यर्थः तहा-तथा गंधग्गुरो-गंधो लघुः गुरुश्च उठ्ठीअ-उत्थापितः दत्त इत्यर्थः । तहा-तथा तिणो त्रयस्त्रीणि वा सू(सु)गंध-सुगंधाः शोभना लघव इत्यर्थः चामर-चामराणि गुरवः दिउ-दीयंते, ततश्च गंधा-गंधो लघुः जुआ चामरं-द्वे चामरे गुरु अंत-अंते पादांते चामरद्वयांते वेत्यर्थः रेहंतो-राजमानः धअपट्ट-ध्वजपटो लघ्वादिस्त्रिकल इति यावत् कहिअं-कथितं तत्सर्दूलबिक्कीडिअं-शार्दूलविक्रीडितं ॥
१८९. शार्दूलविक्रीडितमुदाहरति, जमिति । जं धोअंजण लोल लोअण जुअं–यस्मात् धौतांजनलोललोचनयुगं धौतमंजनं यस्य तादृशं लोचनयुगं यस्मिस्त तादृदमित्यर्थः लंबाणअग्गं-लंबालकाग्रं लंबान्यलकान्यग्रे यस्य तत्तादृशं मुहं-मुखमित्यर्थः तथा जंयतः हत्थालंबिअ केस पल्लव चए-हस्तालंबितकेशपल्लवचये बिंदुणो-बिंदवो घोणंति-घूर्णति परितो भ्रमंतीति । यावत् । तथा जंयस्मात् एकं सिअअंचलं णिबसिअं-एकं सिचयांचलं निवसितं ण्हाणकेलिठ्ठिआ तं-तस्मात् हेतोः स्नानकेलिस्थिता अझ्झदेक्क जणणी-अद्भुतैकजननी आश्चर्यमुख्योत्पत्तिभूमिरिति यावत् इअ-इयं कर्पूरमंजरी अमुना जोईसरेण-योगीश्वरेण कपालिकभैरवानंदेन आणीदा-आनीता । यतो नेत्रयोरंजनं धौतं विंदवश्च केशपा(शा) च्च्योतंति एकमेव च वस्त्रं धृतं, ततः स्नानकेलिस्थेयमानितेत्यर्थः । भैरवानंदकृष्टां कर्पूरमंजरी प्रेक्ष्य विदूषकं प्रति राज्ञो वाक्यमेतत् । शार्दूलविक्रीडितं निवृत्तं ।
१९०. अथैकोनविंशत्यक्षर(चर)णस्य वृत्तस्य चतुःसप्तत्यु (षट्यु)त्तरशतद्वयाधिकत्रयोविंशतिसहस्राधिकपंचलक्ष (५२३२६४) तमं भेदं चंद्रमालानामकं वृत्तं लक्षयति, ठइबीति । दिअबर जुअल-द्विजवरयुगलं चतुल्लघ्वात्मकगणद्वयमिति यावत् करअल-करतलं गुर्वंतं सग(ण)मित्यर्थः करहि-कुरुध्वपुणवि-पुनरपि हे बुहअण-बुधजन दिअब (रयु) अल-द्विजवरयुगलं सज्ज-सज्ज करहिकुरुष्व । एवं च विमलाः सरसगणाः पंचेति शेषः जह-यत्र नितरां स्थाप्यंते बिमल मइ-विमलमति: तुरिअ कइ-त्वरित कविः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org